#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00071 Uniform title: prāṇatoṣiṇī dharmakāṇḍa Author : rāmatoṣaṇa compiler Description: Compiled by rāmatoṣaṇa bhaṭṭācārya Originally published by kalikātā in Bengali script in the tantrasārādivividhatantrasaṃgraha Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski . Revision 0 : Dec. 11, 2007 . Publisher : kalikātā Publication year : Pre-1900 Publication city : Publication country : India #################################################### टित्ले पगे || श्रीः || प्राणतोषिणी श्रीरामतोषण भट्टाचार्येण तन्त्रशास्त्रात् संकलयय विरचिता Vइ, ए उपाधिधारिणा पण्डितकुलपतिना स्रीजीवानन्दविद्यासागरभट्टाअचर्ययेण प्रकासिता | Kअलिकातानगरे Kअलिकातायन्त्रे मुद्रिता १८९८ आड् २) धर्मकाण्ड अचिन्त्यापि ध्येया स्वखिलहृदये ध्वान्तरुचिरा मनोध्वान्त गाढं हरसि करुणाम्भोनिधिरपि | महाकाली स्वैरिण्यसि सकलमूर्त्तिः कदहमानदृश्या लोकानां त्वमसि जयतादद्भुततमः || आसीद्रामहरीति पूरुषहरी राकेन्दुभाजित्वरीराशापूर्त्तिकरीः सुशीतलहरीः कीर्त्तिः समासादयन् | विश्वासान्वयपावनो गुरुकृपापात्रं कुलोद्दिपकम् यो दैवैर्जनयाम्बभूवकृतिनं श्रीप्राणकृष्णाभिधम् || कृष्णमङ्गलविद्यावागीशसूनुः सतां मुदे | गङ्गादेवीसुतोऽकार्षीद्धर्मकाण्डं द्वितीयकम् || द्वितीयस्योच्यते धर्मकाण्डस्य संस्क्रियात्मनः | निर्घण्टः प्रथमं तत्र संस्कारस्य प्रशंसनम् || द्विजानां दश संस्काराः कर्ममात्राधिकारकाः | शूद्रशूद्रप्रकाराणां विज्ञातव्या नवैव ते | मायादिकत्वं मन्त्राणां विज्ञेयं कलिसम्मतम् | ऋतुकर्म ततो गर्भाधानं पुंसवनं ततः | पञ्चामृतप्रदानञ्च सीमन्तोन्नयनं तथा | जातकर्म ततो मेधाजननं कवितारकम् | मायादिदानं विप्रेभ्यो बालस्य पुष्टिकारणम् | विज्ञेयं नामकरणं ततो निष्क्रमणं स्मृतम् | अन्नाशनं ततश्चूडाकर्णवेधस्ततः परम् | कुमारीशूद्रजातीनां सर्वमेतदमन्त्रकम् | उपनायो वेदभेदे सूत्रमाणं प्रकीर्त्तितम् | सूत्रनिर्माणसंस्कारौ सूत्राधिष्ठातृदेवता | सावित्रीग्रहणं कर्म समावर्त्तनमित्यपि | अदारजननिन्दा च धर्मपत्नीनिरूपणम् | विवाहो दशसंस्कारप्रयोगस्तदनन्तरम् | प्. १४२) इति द्वितीयकाण्डाद्यपरिच्छेदसमापनम् || आदौ गुरोर्लक्षणञ्च ततः सद्गुरुलक्षणम् | कौलगुरुप्रशंसा च कूटार्थकृतिदूषणम् | गुरुविशेषकथनं शास्त्रे त्वावश्यकं गुरोः | गुरुमन्त्रदेवतानामेकत्वभावनाक्रमः | गुरुसन्तुष्ट्यादिफलं गुरूच्चारणजं फलम् | गुरुतृप्ते जगत्तृप्तिराधिक्यं सर्वतो गुरोः | जगत्पूजाफलावाप्तिर्गुरुपादाम्बुजेऽर्च्चिते | दीक्षाशिक्षादिभेदेन गुरुभेदनिरूपणम् | एक एव महाकालोगुरुर्न मानुषः क्वचित् | तदधिष्ठानवशतो माहात्म्यं मानुषस्य च | गुरुवंशस्य मर्ययादा पशुमन्त्रादिभेदतः | परापरादिभेदश्च गुरुणां तदनन्तरम् | स्त्रीगुरोर्लक्षणं वर्ज्यं गुरुत्वकल्पने तथा | त्याज्यो गुरुश्च शिष्यस्य लक्षणं वर्जनं तथा | वर्ज्या शिष्यकर्तृनिन्दा गुर्वाज्ञालङ्घने तथा | गुरुद्रव्यादिहरणदोषानिष्टकृतेस्तथा | गुरुशापजन्यदोषस्तन्निन्दा श्रवणस्य च | तच्छ्रवणप्रतीकारो गुरुनिन्दाकरस्य च | दोषो गुरौ मनुष्यत्वज्ञाननिन्दा तथैव च | गुरुद्रोहादिदोषश्च त्यागे गुरुकुलस्य च | निषेधो गुरुगोत्रस्य माननापूजने तथा | गुरुदर्शनकालस्य पूज्यत्वं गुरुपूजनम् | विनेष्टपूजादोषश्च गुरुपूजादिजं फलम् | गुरुगेहस्थितकृत्यपुण्यस्याक्षयता तथा | गुरुपादपद्मरेणूदकमाहात्म्यवर्णनम् | गुर्वन्नभक्षणफलं गुरूच्छिष्टफलं तथा | तदुच्छिष्टाभोजनजदोषश्च तदनन्तरम् | गुरुपादुकादिप्रणतिर्निषिद्धं गुरुसन्निधौ | गुर्वाज्ञया निषिद्धस्याचरणान्नास्ति पातकम् | जातिविद्यादिगर्वस्य त्यागः श्रीगुरुसन्निधौ | सदा श्रीगुरुपादाब्जध्यानस्य फलनिर्णयः | गुरुणैकासनत्यागो गुरुभक्तिफलं तथा | पैत्रगुरुकुलत्यागदोषः श्रीपूर्वकीर्त्तनम् | गुर्वादेरर्च्चनाकाल एवं तन्नामभाषणम् | चतुर्विधा तु शुश्रूषा गुरुमित्रादिमानना | गुर्वालये प्रवेशस्य प्रकारस्तदनन्तरम् | इति द्वितीयकाण्डस्य परिच्छेदो द्वितीयकः || प्. १४३) नाडीचक्रविचारश्च भूपरीक्षा ततः परम् | दिग्विशेषप्लवा भद्राफलप्रदायिनी | ब्रह्मण्यादिमहीज्ञानं शुभभूमिनिरूपणम् | त्याज्या भूम्यो हि चक्रञ्च तस्य व्याख्यानमेव च | शल्योद्धारः स द्विविधः शङ्कुना दिङ्निरूपणम् | मण्डपकरणं तस्मात्तोरणञ्च ततः परम् | अङ्कुरारोपणं तस्य परीक्षा तदनन्तरम् | अशुभाङ्कुरशान्तिश्च परिच्छेदतृतीयके || दीक्षाशब्दार्थनिर्णीतिर्दीक्षामाहात्म्यकीर्त्तनम् | अदीक्षितस्य निन्दा च दीक्षितस्य प्रशंसनम् | दीक्षया चैव ज्येष्ठत्वं दीक्षया मोक्षसाधनम् | एकमन्त्रसाधनेन सर्वमन्त्रस्य साधनम् | मन्त्रग्रहणनिन्दा च पुस्तकालोकनादितः | दीक्षां विना नाधिकारः पूजादौ निन्द्यदीक्षितः | ततश्च त्रिविधा दीक्षा चतुर्धापि प्रकीर्त्तिता | अधिवासनिधिश्चाङ्कुरार्पणाद्यधिवासयोः | प्रयोग इति तुर्ययाख्य परिच्छेदसमापनम् || गुरोर्निमन्त्रणं पूर्वं स्नानादितन्त्रकर्मणि | सौरमाससमुल्लेखो मातृकादिप्रपूजनम् | वृद्धिश्राद्धं सर्वकार्यये पञ्चदेवप्रपूजनम् | लक्ष्म्यादिपूजनञ्चैव ग्रहमन्त्रस्ततः परम् | ग्रहपूजादानविधिर्ग्रहाणां कवचं ततः | तिथिध्यानमन्त्रपूजाकवचं तदनन्तरम् | वर्णध्यानाद्यासनस्य शुद्धिश्चैव ततः परम् | अर्च्चनाहोमकर्माणि समासेन ततः परम् | इति पञ्चमविच्छेदसमाप्तिरभिधीयते || दीक्षा नानाविधा षष्ठे कीर्तितान्यद् यथास्थलम् | ज्ञातव्यमुद्देशमात्रं निर्घण्टेन कृतं मया | व्याख्यया ग्रन्थबाहुल्यदर्शनादधुना मया | प्रमाणमात्रं लिखितं मीमांसापि क्वचित् क्वचित् || इदानीं प्राप्तावसरेण गर्भाधानादिसंस्कारा उच्यन्ते | संस्काराणां प्रयोगस्यावश्यम्भावादग्रे प्रयोगो लेखनीयो नातो व्याख्याजाता प्रमाणमात्रं लिख्यते || महानिर्वाणतन्त्र नवमोल्लासे || सदाशिव उवाच || संस्कारेण विना देवि ! देहशुद्धिर्न जायते | नामंस्कृतोऽधिकारी स्याद्दैवे पैत्र्ये च कर्मणि | प्. १४४) अतो विप्रादिभिर्वर्णैः स्वस्ववर्णोक्तसंस्क्रिया || कर्त्तव्या सर्वथा यत्नैरिहामुत्र हितेप्सुभिः | वीजसेकः पुंसवनं सीमन्तोन्नयनं तथा | जातनाम्नो निष्क्रमणमन्नाशनमतः परम् | चूडोपनयनोद्वाहाः संस्काराः कथिता दश | शूद्राणां शूद्रभिन्नानामुपवीतं न विद्यते | शूद्रभिन्नानां शूद्रप्रकाराणामधमशूद्रकैवर्त्तादीनामित्यर्थः | तेषां नवैव संस्कारा द्विजातीनां दश स्मृताः | नित्यानि सर्वकार्माणि तथा नैमित्तिकानि च | काम्यान्यपि वरारोहे ! कुर्ययाच्छाम्भववर्त्मना | संस्कारेषु च सर्वेषु तथैवान्येषु कर्मसु | विप्रादिवर्णभेदेन क्रमान्मन्त्राश्च दर्शिताः | सत्यत्रेताद्वापरेषु तत्तत्कर्मसुकालिके ! | प्रणवाद्यांस्तु तान् मन्त्रान् प्रयोगेषु नियोजयेत् | कलौ तु परमेशानि ! तैरेव मनुभिर्नराः | मायाद्यैः सर्वकर्माणि कुर्ययुः शङ्करशासनात् | निगमागमतन्त्रेषु वेदेषु संहितासु च | सर्वे मन्त्रा मयैवोक्ताः प्रयोगा युगभेदतः | अथोच्यते महामाये ! गर्भाधानादिका क्रिया | तत्रादावृतुसंस्कारः कथ्यते क्रमतः शृणु | कृतनित्यक्रियः शुद्धः पञ्च देवान् समर्चयेत् | ब्रह्मा दुर्गा गणेशश्च ग्रहा दिक्पतयस्तथा | स्थण्डिलेन्द्रादिदिग्भागे घटेष्वेतान् प्रपूजयेत् | ततसु मातृकाः पूज्या गौर्ययाद्यां षोडश क्रमात् | गौरी पद्मा शची मेधा सावित्री विजया जया | देवसेना स्वधा स्वाहा शान्तिः पुष्टिर्धृतिः क्षमा | आत्मनो देवता चैव तथैव कुलदेवता | आयान्तु मातरः सर्वास्त्रिदशानन्दकारिकाः | विवाहव्रतयज्ञानां सर्वाभीष्टं प्रकल्प्यताम् | यानशक्तिसमारूढाः सौम्यमूर्तिधराः सदा | आयान्तु मातरः सर्वा यज्ञोत्सवसमृद्धये | इत्यावाह्य मातृगणान् स्वशक्त्या परिपूज्य च | देहल्यां नाभिमात्रायां प्रादेशपरिमाणतः | सप्तधा पञ्च वा बिन्दून् दद्यात् सिन्दूरचन्दनैः | प्रत्येकविन्दौ मतिमान् कामं मायां रमां स्मरन् | प्. १४५) घृतधारामविच्छिन्नां दत्त्वा तत्र वसुं यजेत् | वसुधारां प्रकल्प्यैवं मयोक्तेनैव वर्त्मना | विरच्य स्थण्डिलं धीरो वह्निस्थापनपूर्वकम् | होमद्रव्याणि संस्कृत्य पचेच्चरुमनुत्तमम् | प्राजापत्यश्चरुश्चात्र वायुनामा हुताशनः | समाप्य धाराहोमान्तं कृत्यमार्त्तवमारभेत् | ह्रीं प्रजापतये स्वाहा चरुणैवाहुतित्रयम् | प्रदायैवाहुतिं दद्यादिमं मन्त्रमुदीरयन् | विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि यच्छतु || आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते | स्वाहा आज्येन चरुणापि वा | सूर्ययं प्रजापतिं विष्णुं ध्यायन्नाहुतिमुत्सृजेत् | गर्भं धेहि सिनीवाली गर्भं धेहि सरस्वती | गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ | ध्यात्वा देवीं सिनीवालीं सरस्वत्यश्विनौ तथा | स्वाहान्तमनुनानेन दद्यादाहुतिमुत्तमाम् | अतः कामं बधूं मायां रमां कूर्च्चं समुच्चरन् | अमुष्यै पुत्रकामायै गर्भमाधेहि सद्विठम् | उक्त्वा ध्यात्वा रविं विष्णुं जुहुयात् संस्कृतेऽनले | यथेयं पृथिवी देवी ह्युत्ताना गर्भमादधे | तथा त्वं गर्भमाधेहि दशमे मासि सूतये | स्वाहान्तेनामुना विष्णुं ध्यायन्नाहुतिमाचरेत् | पुनराज्यं समादाय ध्यात्वा विष्णुं परात्परम् | विष्णो ! ज्येष्ठेन रूपेण नार्ययामस्यां वरीयसम् | सुतमाधेहि ठद्वन्द्वमुक्त्वा वह्नौ हविस्त्यजेत् | कामेन पुटितां मायां मायया पुटितां बधूम् | पुनः कामञ्च मायाञ्च पठित्वास्याः शिरः स्पृशेत् | पतिपुत्रवतीभिश्च नारीभिः परिवेष्टितः | शिर आलभ्य हस्ताभ्यां बध्वाः क्रीडाञ्चले पतिः | विष्णुं दुर्गां विधिं सूर्ययं ध्यात्वा दद्यात् फलत्रयम् | ततः स्विष्टिकृतं हुत्वा प्रायश्चित्तं समापयेत् | यद्वा प्रदोषसमये गौरीशङ्करपूजनात् | भास्करार्घ्यप्रदानाच्च दम्पत्योः शोधनं भवेत् | आर्त्तवं कथितं कर्म्म गर्भाधानमथो शृणु || तद्रात्रावन्यरात्रौ वा युग्मायां निशि भार्ययया | प्. १४६) सदनाभ्यन्तरं गत्वा ध्यात्वा देवं प्रजापतिम् | स्पृशेत् पत्नीं पठेद्भर्त्ता मायावीजपुरःसरम् | आवयोः सुप्रजायै त्वं शययाशुभङ्करी भव | आरुह्य भार्ययया शययां प्राङ्मुखो वाप्युदङ्मुखः | उपविश्य स्त्रियं स्पृश्यन् हस्तमादाय मस्तके | वामेन पाणिनालिङ्ग्य स्थाने स्थाने मनुं जपेत् | शीर्षे कामं शतं जप्त्वा चिवुके वाग्भवं शतम् | कण्ठे रमां विंशतिधा स्तनद्वन्द्वे शतं शतम् | हृदये दशधा मायां नाभौ तां पञ्चविंशतिम् | जप्त्वा योनौ करं दत्त्वा कामेन सह वाग्भवम् | शतमष्टोत्तरं जप्त्वा लिङ्गेऽप्येवं समाचरन् | विकाम्य मायया योनिं स्त्रियं गच्छेत् सुताप्तये | रेतःसम्पातसमये ध्यात्वा विश्वकृतं पतिः | नाभेरधस्तात् चित्कुण्डे वस्तिकायां प्रपातयेत् | शुक्रसेकान्तरे विद्वान् इमं मन्त्रमुदीरयेत् | यथाग्निना सगर्भा भूर्द्यौर्यथा वज्रधारिणा | वायुना दिग् गर्भवती तथा गर्भवती भव || इति गर्भाधानम् || जाते गर्भे ऋतौ द्वाम्?सन्नयस्मिन् वा महेश्वरि ! | तृतीये गर्भमासे तु चरेत् पुंसवनं गृही | कृतनित्यक्रियो भर्त्ता पञ्च देवान् समर्च्चयेत् | गौर्ययादिमातृकाश्चैव वसोर्धारां प्रपातयेत् | वृद्धिश्राद्धं ततः कृत्वा पूर्वोक्तविधिना सुधीः | धाराहोमान्तमापाद्य कुर्ययात् पुंसवनक्रियाम् | प्राजापत्यश्चरुस्तत्र चन्द्रनामा हुताशनः | गव्ये दध्नि यवञ्चैकं द्वौ माषावपि निक्षिपेत् | पतिः पृच्छेत् स्त्रियं भद्रे ! किं त्वं पिबसि त्रिः कृतम् | ततः सीमन्तिती ब्रूयान्मया पुंसवनं त्रिधा | प्रसृतींस्त्रीन् पिबेन्नारी यवमाषयुतं दधि | जीवत्सुताभिर्वनितां यागस्थानं समानयेत् | संस्थाप्य वामभागे तां चरुहोमं समाचरेत् | पूर्ववच्चरुमादाय मायां कूर्च्चं समुच्चरन् | ये गर्भविघ्नकर्त्तारो ये च गर्भविनाशकाः | भूताः प्रेताः पिशाचाश्च वेताला बालघातकाः | प्. १४७) तान् सर्वान् नाशय द्वन्द्वं गर्भरक्षां कुरु द्विठः | मन्त्रेणानेन रक्षोघ्नं चिन्तयित्वा हुताशनम् | रुद्रं प्रजापतिं ध्यायन् प्रदद्याद्वादशाहुतीः | ततो मायाचन्द्रमसे स्वाहेत्याहुतिपञ्चकम् | दत्त्वा भार्ययां हृदि स्पृष्ट्वा मायां लक्ष्मीं शतं जपेत् | ततः स्विष्टिकृतं हुत्वा प्रायश्चित्तं समापयेत् || इति पुंसवनम् || ततस्तु पञ्चमे मासि दद्यात् पञ्चामृतं स्त्रियै | शर्करा मधु दुग्धञ्च घृतं दधि समांशकम् | पञ्चामृतमिदं प्रोक्तं देहशुद्ध्यै विधीयते | वाग्भवं मदनं लक्ष्मीं मायां कूर्च्चं पुरन्दरम् | पञ्चगव्योपरि शिवे ! प्रजप्य पञ्च पञ्चधा | एकीकृत्यामृतान्यत्र प्राशयेद्दयितां पतिः || इति पञ्चामृतदानम् || सीमन्तोन्नयनं कुर्ययान्मासि षष्ठेऽष्टमेऽपि वा | यावन्न जायतेऽपत्यं तावत् सीमन्तनक्रिया | पूर्वोक्तधाराहोमान्तं कर्म्म कृत्वा स्त्रिया सह | उपविश्यासने प्राज्ञः प्रदद्यादाहुतित्रयम् | विष्णवे भास्करे धात्रे वह्निजायां समुच्चरन् | ततश्चन्द्रमसं ध्यात्वा शिवनाम्नि हुताशने | सप्तधा हवनं कुर्ययात् सोममुद्दिश्य मानवः | अश्विनौ वासवं विष्णुं शिवं दुर्गां प्रजापतिम् | ध्यात्वा प्रत्येकतो दद्यादाहुतीः पञ्चधा शिवे ! | स्वर्णकङ्कतिकां भर्त्ता गृहीत्वा दक्षिणे करे | सीमन्ताद्बद्धकेशान्तःकेशपाशे निवेशयेत् | शिवं विष्णुं विधिं ध्यायन् मायाबीजं समुच्चरन् | भार्यये ! कल्याणि ! सुभगे ! दशमे मासि सुव्रते ! | सुप्रसूता भव प्रीता प्रसादाद्विश्वकर्म्मणः | आयुष्मति ! कङ्कतिका वर्च्चस्वी ते शुभं कुरु | ततः समापयेत् कर्म्म स्विष्टिकृद्धवनादिभिः || इति सीमन्तोन्नयनम् || जातमात्रं सुतं दृष्ट्वा दत्त्वा स्वर्णं गृहान्तरे | पूर्वोक्तविधिना धीरो धाराहोमं समापयेत् | ततः पञ्चाहुतीर्दद्यादग्निमिन्द्रं प्रजापतिम् | प्. १४८) विश्वान् देवांश्च ब्रह्माणमुद्दिश्य तदनन्तरम् | मधुसर्पिः कांस्यपात्रे समानीय समांशकम् | वाग्भवं सप्तधा जप्त्वा प्राशयेत्तनयं पिता | दक्षहस्तानामिकया मन्त्रमेवं समुच्चरन् | आयुर्वर्च्चो बलं मेधा वर्द्धतां ते सदा शिशो ! | इत्यायुर्जननं कृत्वा गुप्तं नाम प्रकल्पयेत् | गन्धर्वतन्त्रे द्वितीयपटले || बालकस्य तु जिह्वायां त्रिदिनाभ्यन्तरे न्यसेत् | मधुना श्वेतदूर्वाभिः सुवर्णस्य शलाकया | इदं वाग्भवकूटन्तु लिखेद्वै जननान्तरे | स एव पण्डितो भूयान्न तु मूर्खो भवेद्ध्रुवम् || वाग्भवकूटमपि तत्रैव यथा | कामदेवस्ततो योनिस्तुर्ययस्वरपुरन्दरी | भुवनेशी ततः पश्चात् पञ्चवक्त्रविभूषितः | अयं स वाग्भवो देवीवागीशत्वप्रदायकः | इदं वाग्भवकूटन्तु बालिशस्यापि मूर्द्धनि | हस्तं दत्त्वा पठेत् सिद्धमष्टोत्तरशतं प्रिये ! | सोऽपि श्लोकं महेशानि ! करोत्येव न संशयः || बालिशस्य मूर्खस्य | सत्तर्कपदवाक्यार्थशब्दालङ्कारसारवित् | जिह्वायां न्यासनाद्देवि ! मूकोऽपि सुकविर्भवेत् | वृहन्नीलतन्त्रे सप्तमपटले द्वितीयविद्यात्र्यक्षरीमन्त्रमधिकृत्य | इदानीं शृणु चार्वङ्गि ! कविताकारकं परम् | प्रयोगं दुर्लभं गोप्यं तव स्नेहात् प्रकाशितम् | चण्डीं चाण्डालिनीञ्चैव त्यागिनं सर्वमोहनम् | वीजत्रयं जपेद्रात्रौ मध्ये चैव रवेर्दिने | अष्टाधिकसहस्रस्य प्रमाणेन जपं चरेत् | शताभिमन्त्रितं कृत्वा पिबेच्च जलमुत्तमम् | सप्तदिनप्रयोगेण कविता चित्तमोदिनी | जायते नात्र सन्देहः सत्यं सुरगणार्चिते ! | पाणिना दक्षिणेनैव मधुलाजान् समानयेत् | नाडीच्छेदाच्च प्रागेव बालं संस्कुर्ययाच्च साधकः | कवित्वं जायते तेन पाण्डित्यं सुरवन्दिते ! | जिह्वां सम्मार्ज्य देवेशि ! लिखेद्धेमशलाकया | दूर्वया वा महादेवि ! जिह्वोष्ठयोः समालिखेत् | पंक्तिद्वयेन संलेख्य कुर्याच्च बालसंस्क्रियाम् | एकादशाहे देवेशि ! द्वादशाहेऽथ वा पुनः | प्. १४९) वर्णजात्यादिभेदेन मासान्तः सम्भविष्यति | यथाशक्त्युपचारेण देवतां पूजयेत् पुनः | सम्पूज्य देवतां भक्त्या लिखेन्मन्त्रं महेश्वरि ! | यदा पिता न देशस्थः पितृव्यो मातुलोऽपि वा | लिखित्वा परमेशानि ! कुर्ययाच्च बालसंस्क्रियाम् | मूलमन्त्रं लिखेन्मन्त्री यस्यौष्ठे श्वेतदूर्वया | वाक्योच्चारणतो बालो वाग्मी द्रुतकविर्भवेत् | जन्मसंस्कारकं नाम पुत्रे जाते प्रशस्यते | जिह्वायाञ्च लिखेद्यन्त्रं यत्ने दारुकुशेन वा | वारत्रयन्तु सम्मार्ज्य दक्षिणेनैव पाणिना | मन्त्रमुच्चार्यय प्रत्येकं पंक्तिं कुर्ययात् सुशोभनम् | आदौ संस्कारः कर्त्तव्यस्तदन्ते विलिखेन्मनुम् | गन्धचन्दनपुष्पैश्च पूजयेत् तारिणीं शिवे ! | उत्तराभिमुखो भूत्वा स्थापयेत् पीठमुत्तमम् | पूजयेत् तारिणीं देवीं नानाभक्ष्यैः सुशोभनैः | षोडशैरुपचारैश्च पूजयेद् भक्तिभावतः | धूपं दद्याद्गुग्गुलुना सर्वकर्म्मफलप्रदम् | नारिकेलं तथा रम्भां वदरं वकुलं तथा | वीजपूरं कर्णिकारं शर्करां गन्धसंयुताम् | मधूदकं कलायञ्च सिद्धान्नं पायसाप्लुतम् | माषं मत्स्यं पिष्टकञ्च दद्यादतिप्रियं महत् | कविर्वाग्मी भवेत् पुत्रः सर्वकामप्रकारकः | जितेन्द्रियः सत्यवादी धार्मिको जायते महान् || दद्यादित्यनेन सम्प्रदानोपस्थितेर्वचने ब्राह्मणपदस्याभावेऽपि ब्राह्मणेभ्य इति लभ्यते | अतो ब्राह्मणसम्प्रदानकमाषादिदानव्यवहार इति || महानिर्वाणतन्त्रे || कृतोपनयने पुत्रे तेन नाम्ना समाह्वयेत् | प्रायश्चित्तादिकं कृत्वा जातकर्म्म समापयेत् | नालच्छेदं ततो धात्री कुर्ययादुत्साहपूर्वकम् | यावन्न च्छिद्यते नालं तावत् शौचं न बाधते | प्रागेव नाडीकाच्छेदात् दैवीं पैत्रीं क्रियाञ्चरेत् | कुमार्याश्चापि कर्त्तव्यमेवमेवममन्त्रकम् || इति जातकर्म्म || षष्ठे वा चाष्टमे मासि नाम कुर्ययात् प्रकाशतः | स्नापयित्वा शिशुं माता परिधाप्याम्बरे शुभे | प्. १५०) भर्त्तुः पार्श्वं समागत्य प्राङ्मुखं स्थापयेत् सुतम् | अभिषिञ्चेत् शिशोर्मूर्ध्नि सहिरण्यकुशोदकैः | जाह्नवी यमुना रेवा सपवित्रा सरस्वती | नर्म्मदा वरदा कुम्भी सागराश्च सरांसि च | एते त्वामभिषिञ्चन्तु धर्म्मकामार्थसिद्धये | ह्रीं | आपो हिष्ठा मयो भुवस्ता न ऊर्ज्जे दधातन | महेरणाय चक्षषे यो वः शिवतमो रसस्तस्य भाजयतेह नः | उशतीरिव मातरः तस्मा अरङ्गमाम वो क्षयाय जिन्वथ आपो जनयथा च नः | अभिषिच्य त्रिभिर्मन्त्रैः पूर्ववद्वह्निसंस्क्रियाम् | कत्वा सम्पाद्य धारान्तं दद्यात् पञ्चाहुतीः सुधीः | अग्नये प्रथमं दत्त्वा वासवाय ततः परम् | ततः प्रजानां पतये विश्वेदेवेभ्य एव | ब्रह्मणे चाहुतीं दद्याद्वह्नौ पार्थिवसंज्ञके | ततोऽङ्के पुत्रमादाय श्रावयेद्दक्षिणश्रुतौ | स्वल्पाक्षरं सुखोच्चार्यं शुभं नाम विचक्षणः | श्रावयित्वा त्रिधा नाम ब्राह्मणेभ्यो निवेद्य च | ततः समापयेत् कर्म्म कृत्वा स्विष्टिकृतादिकम् | कन्याया निष्क्रमो नास्ति वृद्धिश्राद्धं न विद्यते | नामान्नप्राशनं चूडां कुर्ययाद्धीमानमन्त्रकम् | चतुर्थे मासि षष्ठे वा कुर्ययान्निष्क्रमणं शिशोः | कृतनित्यक्रियस्तातः सम्पूज्य गणनायकम् | स्नापयित्वा तु तनयं वस्त्रालङ्कारभूषितम् | संस्थाप्य पुरतो विद्वानिमं मन्त्रमुदीरयेत् | ब्रह्मा विष्णुः शिवो दुर्गा गणेशो भास्करस्तथा | इन्द्रो रायुः कुवेरश्च वरुणोऽग्निर्वृहस्पतिः | शिशोः शुभं प्रकुर्वन्तु रक्षन्तु पथि सर्वदा | इत्युक्त्वाङ्के समादाय गीतवाद्यपुरःसरम् | वहिर्निष्क्रामयेद्बालं सानन्दैः स्वजनैः सह | गत्वाध्वनि कियद्दूरं शिशुं सूर्ययं निरीक्षयेत् | ह्रीं | तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् | पश्येमशरदः शतं जीवेम शरदः शतम् | शृणुयाम शरदः शतम् | इत्यादित्यं दर्शयित्वा समागत्य निजालयम् | अर्घ्यं दत्त्वा दिनेशाय स्वजनान् भोजयेत् पिता || प्. १५१) इति निष्क्रमणम् || षष्ठे मासि कुमारस्य मासे वाप्यष्टमे शिवे ! | पितृभ्राता पिता वापि कुर्ययादन्नाशनक्रियाम् | पूर्ववद्देवपूजादि वह्निसंस्करणं तथा | एवं धारान्तकर्माणि सम्पाद्य विधिवत् पिता | दद्यात् पञ्चाहुहीस्तत्र शुचिनाम्नि हुताशने | अग्निमुद्दिश्य प्रथमां द्वितीयां वासवं स्मरन् | ततः प्रजापतिं देवं विश्वान् देवान् ततः परम् | ब्रह्माणञ्च समुद्दिश्य पञ्चमीमाहुतिं त्यजेत् | ततोऽग्नावन्नदां ध्यात्वा दत्तपञ्चाहुतिः पिता | तत्राथवा गृहेऽन्यस्मिन् वस्त्रालङ्कारशोभितम् | क्रोडे निधाय तनयं प्राशयेत् पायसामृतम् | पञ्चप्राणाहुतेर्मन्त्रैर्भोजयित्वा तु पञ्चधा | ततोऽन्नव्यञ्जनादीनां दत्त्वा किञ्चित् शिशोर्मुखे | शङ्खतूर्ययादिघोषेण प्रायश्चित्तं समापयेत् | इत्यन्नप्राशनं प्रोक्तं चूडाविधिमतः शृणु | तृतीये पञ्चमे वर्षे कुलाचारानुसारतः | चूडाकर्म शिशोः कुर्ययाद्बालसंस्कारसिद्धये | देवपूजादिधारान्तकर्म निष्पाद्य साधकः | सत्याग्नेरुत्तरे देशे वृषगोमयपूरितम् | तिलगोधूमसंयुक्तं शरावं स्थापयेद् बुधः | कवोष्णं सलिलञ्चापि क्षुरमेकं सुशाणितम् | आसाद्य तनयं तत्र जनकः स्वीयवामतः | संस्थाप्य जननीक्रोडे कवोष्णसलिलैश्च तैः | वारुणं दशधा जप्त्वा सम्मार्ज्य शुशुमूर्द्धजान् | मायया कुशपत्राभ्यां जुष्टिमेकां प्रकल्पयेत् | मायां लक्ष्मीं त्रिधा जप्त्वा गृहीत्वा लौहजं क्षुरम् | छित्त्वा तु जुष्टिकामूलं मातृहस्ते निवेशयेत् | कुमारमाता हस्ताभ्यामादाय गोमयान्विते | शरावे स्थापयेज्जुष्टिं नापिताय पिता वदेत् | क्षुरमुण्डे शिशोः क्षौरं सुखं साधय ठद्वयम् | पठित्वा नापितं पश्यन् सत्यनामनि पावके | प्रजापतिं समुद्दिश्य प्रदद्यादाहुतित्रयम् | नापितेन कृतक्षौरं स्नापयित्वा शुशुं ततः | वस्त्रालङ्कारमाल्येन भूषयित्वाग्निसन्निधौ | प्. १५२) स्ववामभागे संस्थाप्य स्विष्टिकृद्धोममाचरेत् | प्रायश्चित्तं ततः कृत्वा दद्यात् पूर्णाहुतिं पिता | माया शिशो ! ते कुशलं कुरुतां विश्वकृद्विभुः | पठित्वैनं शिशोः कर्णे स्वर्णमयया शलाकया | राजत्या लौहमयया वा तत्र वेधं प्रकल्पयेत् | आपोहिष्ठेति मन्त्रेण अभिषिच्य सुतं ततः | शान्त्यादिदक्षिणां कृत्वा चूडाकर्म समापयेत् | गर्भाधानादिचूडान्तं समानं सर्वजातिषु | शूद्रसामान्यजातीनां सर्वमेतदमन्त्रकम् | जातकर्मादिचूडान्तं कुमार्ययाश्चाप्यमन्त्रकम् | कर्त्तव्यं पञ्चभिर्वर्णैरेकं निष्क्रमणं विना || अथोच्यते द्विजातीनामुपवीतिक्रियाविधिः | यस्मिन् कृते द्विजन्मानो दैवपैत्र्याधिकारिणः | गर्भाष्टमेऽष्टमे वाब्दे कुर्ययादुपनयं शिशोः | षोडशाब्दाधिको नोपनेतव्यो निष्क्रियो हि सः | कृतनित्यक्रियो विद्वान् पञ्च देवान् समर्च्चयेत् | गौर्ययादिमातृकाश्चैव वसुधारां प्रकल्पयेत् | वृद्धिश्राद्धं ततः कुर्ययात् देवतापितृतृप्तये | कुशण्डिकोक्तविधिना धाराहोमान्तमाचरेत् | प्रातः कत्वाशनं बालं सुस्नातञ्च स्वलङ्कृतम् | शिखां विना कृतक्षौरं क्षौमाम्बरविभूषितम् | छायामण्डपमानीय समुद्भवहुताशितुः | समीपे चात्मनो वामे संस्थाप्य विमलासने | शिष्यं वदेद्ब्रह्मचर्ययं कुरु वत्स ! ततः शिशुः | ब्रह्मचर्ययं करोमीति गुरवे विनिवेदयेत् | ततो गुरुः प्रसन्नात्मा शिशवे शान्तचेतसे | काषायवाससी दद्याद्दीर्घाषुष्ट्वाय वर्च्चसे | मौञ्जीं कुशमयीं वापि त्रिवृत्तां ग्रन्थिसंयुताम् | तूष्णीञ्च मेखलां दद्यात् काषायवस्त्रधारिणे | मायामुच्चार्य सुभगा मेखला स्याच्छुभपदा | इत्युक्त्वा मेखलां बद्ध्वा मौनी तिष्ठेद् गुरोः पुरः | यज्ञोपवीतं परमं पवित्रं वृहस्पतेर्यत् सहजं पुरस्तात् | आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः || मन्त्रेणानेन शिशवे दद्यात् कृष्णाजिनान्वितम् | प्. १५३) यज्ञसूत्रपरिमाणन्तु मातृकाभेदतन्त्रे एकादशपटले || यज्ञसूत्रस्य यन्मानं तत् शृणुष्व वरानने ! | ऋग्वेदी धारयेत् सूत्रं नाभेरूर्द्ध्वं स्तनादधः | यजुषां सूत्रमानं हि आश्चर्यं शृणु शैलजे ! | बाहुमूलप्रमाणेन यज्ञसूत्रं द्विजातिभिः | धारणीयं प्रयत्नेन नान्यदघ्नं कदाचन | नान्यदघ्नं नान्यप्रमाणमित्यर्थः | सामगस्य दीर्घसूत्रं त्रिविधं वरवर्णिनि ! | ब्रह्मरन्ध्रान्नाभिदेशपर्ययन्तं यज्ञसूत्रकम् | अथवापि च ग्रीवायामारोप्य नाभिमा-स्पृशेत् | तस्मात् पृष्ठे मेरुदण्डपर्ययन्तं यज्ञसूत्रकम् | अथवा परमेशानि ! प्रकारान्तरमुच्यते | ग्रीवाया दक्षिणाङ्गुष्ठपर्ययन्तं यज्ञसूत्रकम् | अथर्वो धारयेत् सूत्रं यत्नेन यजुषां मतम् | अथवा धावयेत् सूत्रं सामगस्य प्रमाणतः | अथवा धारयेत् यज्ञसूत्रं परममोहनम् | आज्ञाचक्रान्नाभिदेशपर्ययन्तं यज्ञसूत्रकम् | एतत् सङ्केतमज्ञात्वा यः कुर्ययात् सूत्रधारणम् | स चण्डालसमो देवि ! यदि व्याससमो भवेत् || प्रसङ्गाद् यज्ञसूत्रस्य कर्त्तनं जीवन्यासश्च लिख्यते || गायत्रींतन्त्रे चतुर्थब्राह्मणपटले || कन्या च कर्त्तयेत् सूत्रं पतिपुत्त्रवती तथा | विधवाऽविधवा वापि पुत्रहीनापि ब्राह्मणी | क्षत्राणी वैश्यदारा च कर्त्तयेन्न तु शूद्रिणी | दीक्षिता यदि सा शूद्रा कर्त्तनेन च निन्दिता | सच्छूद्रा यदि सा भद्रे ! शुद्धा सा सूत्रकर्त्तने | अस च्छूद्रा महेशानि ! निन्दिता सूत्रकर्त्तने | कार्पाससम्भवं सूत्रं यज्ञसूत्रं विनिर्मितम् | सूक्ष्मातिसूक्ष्मं परमं सर्वदेवमयं तथा || इति निर्माणम् || अणुग्रन्थिः | ग्रन्थिकाले स्मरेद्विप्रान् सूत्रं भवति मूर्तिमत् | ब्रह्मा च काश्यपो विप्रः सनकश्च सनन्दनः | सनत्सनातनो विप्रो नारदः कपिलस्तथा | मरीचिरत्रिः पुलहः पुलस्त्यो गौतमः क्रतुः | भृगुर्दक्षः प्रचेताश्च वशिष्ठो वाल्मिकिस्तथा | द्वैपायनो भरद्वाजः शुक्रो जैमिनिरेव च | प्. १५४) विदूरथः शुनःशेफो जातुकर्णश्च रौरवः | और्वः संवर्त्तकः शुक्रः सुराचार्यो वृहस्पतिः | चन्द्रः सूर्ययो बुधः श्रीमान् यज्ञसूत्रस्य ग्रन्थिषु | तिष्ठन्तु मम वामांशे वामस्कन्धे त्वहर्निशम् | ब्रह्माद्या देवताः सर्वा यज्ञसूत्रस्य देवताः || तथा | जीवन्यासं प्रवक्ष्यामि यज्ञसूत्रस्य संशृणु | यज्ञसूत्रं करे कृत्वा दक्षिणे द्विजसत्तमः | गायत्रीं प्रथमं जप्त्वा प्रणवं प्रजपेत् शतम् | गायत्रीं पुनरुक्त्वा वै वामस्कन्धे निवेशयेत् | जीवन्यासं विना देवि ! यज्ञसूत्रञ्च सूत्रवत् || महानिर्वाणे || यज्ञोपवीतं दण्डञ्च वैणवं खादिरञ्च वा | पालाशमथवा दद्यात् क्षीरवृक्षसमुद्भवम् | आपोहिष्ठेति मन्त्रेण मायया पुटितेन च | त्रिरावृत्त्या कुशाम्भोभिर्धृतदण्डोपवीतकम् | अभिषिच्य ततस्तोयैः पूरयेद्बालकाञ्जलिम् | तदञ्जलिं दिनेशाय दातारं ब्रह्मचारिणम् | तच्चक्षुरिति मन्त्रेण दर्शयेद्भास्करं गुरुः | दृष्ट्वा भास्करमाचार्यो वदेन्माणवकं ततः | मम व्रते मनो धेहि मम चित्तं ददामि ते | जुषस्वैकमना वत्स ! मम वाचोऽस्तु ते शिवम् | हृदि स्पृष्ट्वा पठित्वैनं किंनामासीति तं वदेत् | शिष्यस्त्वमुकशर्माहं भवन्तमभिवादये | कस्य त्वं ब्रह्मचारीति गुरौ पृच्छति पार्वति ! | शिष्यः सावहितो ब्रूयाद्भवतो ब्रह्मचार्ययहम् | इन्द्रस्य ब्रह्मचारो त्वमाचार्ययस्ते हुताशनः | इत्युक्त्वा स गुरुः पश्चाद्देवेभ्यस्तं समर्पयेत् | त्वां प्रजापतये वत्स ! सवित्रे वरुणाय च | पृथिव्यै सर्वदेवेभ्यः सर्ववेदेभ्य एव च | समर्पयामि ते सर्व रक्षन्तु त्वां निरन्तरम् | ततो माणवको वह्निं दक्षिणावर्त्मयोगतः | गुरुं प्रदक्षिणीकृत्य आसने पुनराविशेत् | गुरुः शिष्येण सम्पृष्टः समुद्भवहुताशने | पञ्च देवान् समुद्दिश्य दद्यात् पञ्चाहुतीः प्रिये ! | प्रजापतिस्ततः शक्रो विष्णुब्रह्मा शिवस्तथा | मायादिवह्निजायान्तैर्जुहुयात् स्वस्वनामभिः | अनुक्तमन्त्रे सर्वत्र विधिरेष प्रकीर्त्तितः | प्. १५५) ततो दुर्गा महालक्ष्मीः सुन्दरी भुवनेश्वरी | इन्द्रादिदशदिक्पाला भास्करादिनवग्रहाः | प्रत्येकनाम्ना हुत्वैतान् वाससाच्छाद्य बालकम् | पृच्छेन्माणवकं प्राज्ञो ब्रह्मचर्ययाभिमानिनम् | को वाश्रयस्ते तनय ! ब्रूहि किन्ते मनोगतम् | ततः शिष्यः सावहितो धृत्वा गुरुपदद्वयम् | करोतु मामाश्रमिणं ब्रह्मविद्योपदेशतः | एवं प्रार्थयमानस्य दक्षकर्णे शिशोस्तदा | श्रावयित्वा त्रिधा तारं सर्वमन्त्रमयं शिवे ! | व्याहृतित्रयमुच्चार्यय सावित्रीं श्रावयेद् गुरुः | ऋषिः सदाशिवः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् | अधिष्ठात्री च सावित्री मोक्षार्थे विनियोगिता | अन्तर्गतं महद्वर्च्चो वरणीयं यथात्मभिः | ध्यायेम तत् पदं सत्यं सर्वव्यापि सनातनम् | यो भर्गः सर्वसाक्षी नो मनोबुद्धीन्द्रियाणि च | धर्मार्थकाममोक्षेषु प्रेरयेद्विनियोजयेत् | इत्थमर्थयुतां ब्रह्मविद्यामासाद्य सद्गुरुः | शिष्यं नियोजएद्देवि ! गृहस्थाश्रमकर्मसु | ब्रह्मचर्ययोचितं वेशं वत्सेदानीं परित्यज | शाम्भवोदितमार्गेण देवान् पितॄन् समर्च्चय | ब्रह्मविद्योपदेशेन पवित्रं ते कलेवरम् | प्राप्ता गृहस्थाश्रमिता तदुक्तं कर्म कल्पय | उपवीतद्वयं दिव्यवस्त्रालङ्करणानि च | गृहाण पादुकाच्छत्रं गन्धमाल्यानुलेपनैः | ततः काषायवसनं कृष्णाजिनसमन्वितम् | यज्ञसूत्रं मेखलाञ्च दण्डं भिक्षाकरण्डकम् | आचारादर्जितां भिक्षां समर्प्य गुरवे शिवे ! | शुद्धोपवीतयुगलं परिधायाम्बरे शुभे | गन्धमाल्यधरस्तूष्णीं तिष्ठेदाचार्यसन्निधौ | ततो गृहस्थाश्रमिणं शिष्यमेतद्वदेद् गुरुः | जितेन्द्रियः रात्यवादी ब्रह्मविद्यारतो भव | स्वाध्यायाश्रमकर्माणि यथाधर्मेण साधय | इत्यादिश्य त्विदं पश्चात् समुद्भवहुताशने | मायादिप्रणवान्ते न भूर्भुवःस्वस्त्रयेण च | हावयित्वा त्रिधाचार्ययः स्विष्टिकृद्धोममाचरेत् | दत्त्वा पूर्णाहुतिं भद्रे ! व्रतकर्म समापयेत् | बीजसेकादिसंस्कारा व्रतान्ता.ः पितृतो नव | प्. १५६) उद्वाहः पितृतो वापि स्वतोऽपि सिध्यति प्रिये ! || मत्स्यमूक्ते एकत्रिंशत्पटले || अदारस्य गतिर्नास्ति सर्वास्तस्याफलाः क्रियाः | सुरार्च्चनं महायज्ञं हीनभार्ययो विवर्जयेत् | एकचक्ररथो यद्वदेकपक्षो यथा खगः | अभार्ययोऽपि नरस्तद्वदयोग्यः सर्वकर्मसु | भार्याहीने क्रिया नास्ति भार्ययाहीने कुतः सुखम् | भार्याहीने गृहं कस्य तस्माद्भार्ययां समाश्रयेत् | सर्वस्वेनापि देवेशि ! कर्त्तव्यो दारसंग्रहः | इति दारपरिग्रहस्यावश्यकत्वम् तत्रैव || सत्र्यासमथवा कार्ययं तृतीयं नोपपद्यते | सवर्णा ब्राह्मणी या तु धर्मपत्नी च सा स्मृता | असवर्णा च या भार्यया कामपत्नी तु सा स्मृता || इति धर्मपत्नीनिर्णयः | महानिर्वाणतन्त्रे || विवाहे हि कृतस्नानः कृतनित्यक्रियः कृती | पञ्च देवान् समभ्यर्च्य गौर्ययादिमातृकास्तथा | वसोर्धारां कल्पयित्वा वृद्धिश्राद्धं समाचरेत् | रात्रौ प्रतिश्रुतं पात्रं गीतवाद्यपुरःसरम् | छायामण्डपमानीय उपविश्य वरासने | वासवाभिमुखं दाता पश्चिमाभिमुखो विशेत् | आचार्ययः स्वस्तिमृद्धिञ्च कथयेद्ब्राह्मणैः सह | साधुप्रश्नं वरं पृच्छेदर्च्चनाप्रश्नमेव च | वरात्प्रश्नोत्तरं नीत्वा पादाद्यैर्वरमर्चयेत् | समर्पयामि वाक्येन देशद्रव्यं समर्पयेत् | पादयोरर्पयेत्पाद्यं शिरस्यर्घ्यं निवेदयेत् | आचम्यं वदने दद्याद्गन्धं माल्यं सुवाससी | दिव्याभरणरत्नानि यज्ञसूत्रं समर्पयेत् | ततस्तु भाजने कांस्ये कृत्वा दधि घृतं मधु | समर्पयामि वाक्येन मधुपर्कं करेऽर्पयेत् | वरोऽपि पात्रमादाय वामे पाणौ निधाय च | दक्षाङ्गुष्ठानामिकाभ्यां प्राणाहुत्युक्तमन्त्रकैः | पञ्चधाघ्राय तत्पात्रमुदीच्यां दिशि धारयेत् | मधुपर्कं समाप्यैवं पुनराचामयेद् द्वयम् | दूर्वाक्षताभ्यां जामातुर्विधृत्य जानुदक्षिणम् | स्मृत्वा विष्णुं तत्सदिति मासपक्षौ तिथिं ततः | समुल्लिख्य निमित्तानि वृणुयाद्वरमुत्तमम् | गोत्रप्रवरनामानि प्रत्येकं प्रपितामहात् | प्. १५७) षष्ठ्यन्तानि समुच्चार्य वरस्य जनकावधि | द्वितीयान्तं वरं ब्रूयाद्गोत्रप्रवरनामभिः | तथैव कन्यामुद्दिश्य ब्राह्मोद्वाहेन पण्डितः | दातुं भवन्तमित्युक्त्वा वृणेऽहमिति कीर्त्तयेत् | वृतोऽस्मीति वरो ब्रूयात् ततो दाता वदेद्वरम् | यथाविहितमित्युक्त्वा विवाहकर्म्म कुर्विति | वरो ब्रूयाद् यथाज्ञानं करवाणि तदुत्तरम् | ततः कन्यां समानीय वस्त्रालङ्कारभूषिताम् | वस्त्रान्तरेण सञ्छाद्य स्थापयेद्वरसम्मुखे | पुनर्वरं समभ्यर्च्य वासोऽलङ्करणादिभिः | वरस्य दक्षिणे पाणौ कन्यापाणिं नियोजयेत् | तन्मध्ये पञ्चरत्नानि फलताम्बूलमेव वा | दत्त्वार्च्चयित्वा तनयां वराय विदुषेऽर्पयेत् | प्राग्वत् त्रैपुरुषाख्यानं निमित्ताख्यानमेव च | आत्मनः काममुद्दिश्य चतुर्थ्यन्तं वरं वदेत् | कन्याभिधां द्वितीयान्तामर्च्चितां समलङ्कृताम् | साच्छादनां प्रजापतिदेवताकामुदीरयन् | तुभ्यमहमिति प्रोच्य दद्यात् सम्प्रददे वदन् | वरः स्वस्तीति स्वीकुर्ययात् सम्प्रदाता वरं वदेत् | धर्मे चार्थे च कामे च भवता भार्ययया सह | वर्त्तितव्यं वरो वाचमुक्त्वा कामस्तुतिं पठेत् | दाता कामो ग्रहीतापि कामायादाच्च कामिनीम् | कामेन त्वां प्रतिगृह्णापि कामः पूर्णोऽस्तु चावयोः | ततो वदेत् सम्प्रदाता कन्यां जामातरं प्रति | प्रजापतिप्रसादेन युवयोरभिवाञ्छितम् | पूर्णमस्तु शिवञ्चास्तु धर्मं पालयतं युवाम् | तत आच्छाद्य वस्त्रेण सम्प्रदाता सुमङ्गलैः | परस्परमुखालोकं कारयेद्वरकन्ययोः | ततो हिरण्यरत्नानि यथाशक्त्यनुसारतः | जामात्रे दक्षिणां दद्यादच्छिद्रमवधारयेत् | वरस्तु भार्ययया सार्द्धं तद्रादौ दिवसेऽपि वा | कुशण्डिकोक्तविधिना वह्निस्थापनमाचरेत् | योजकाख्यः पावकोऽत्र प्राजापत्यश्चरुः स्मृतः | धारान्तं कर्म्म सम्पाद्य दद्यात् पञ्चाहुतीर्वरः | शिवं दुर्गां तथा विष्णुः ब्रह्माणं वज्रधारिणम् | प्. १५८) ध्यात्वैकेकैकं समुद्दिश्य जुहुयात् संस्कृतेऽनले | भार्ययायाः पाणियुगलं गृह्णीयात्तान्युदीरयन् | पाणिं गृह्णामि सुभगे ! गुरुदेवरता भव | गार्हस्थ्यं धर्मकर्मेण यथावदनुशीलय | घृतेन स्वामिदत्तेन लाजैर्भ्रात्राहृतैः शिवे ! | प्रजापतिं समुद्दिश्य दद्याद्द्वे चाहुती वरः | प्रदक्षिणीकृत्य वह्निमुत्थाय भार्ययया सह | दुर्गां शिवं रमां वुष्णुं ब्राह्मीं ब्रह्माणमेव च | युग्मं युग्मं समुद्दिश्य त्रिस्त्रिधा हवनं चरेत् | अश्ममण्डलिकासप्तारोहौ कुर्ययादमन्त्रकम् | निशायाञ्चेत्तदा स्त्रीभिः पश्येद्धूम्रामरुन्धतीम् | प्रत्यावृत्यासने सम्यगुपविश्य वरस्तदा | स्विष्टिकृद्धोमपूर्णाहुत्यन्तं कर्म्म समापयेत् | ब्राह्मो विवाहो विहिती दोषहीनः सवर्णया | कुलधर्मानुसारेण गोत्रभिन्ना सपिण्डजा | ब्राह्मोद्वाहेन या ग्राह्या सैव पत्नी गृहेश्वरी | तदनुज्ञां विना ब्राह्मविवाहं नाचरेत् पुनः | अस्या अपत्ये तद्वंशे विद्यमाने कुलेश्वरि ! || अथ महानिर्वाणतन्त्रोक्तदशसंस्कारप्रयोगः | संस्कारैर्विना दैवपैत्रकर्म्मानधिकारितया सर्वैर्विप्रादिभिर्वर्णैः स्वस्ववर्णोक्ताः संस्काराः कार्ययाः | दश संस्कारास्तु वीजसेकपुंसवनसीमन्तोन्नयनजातकर्म्म- नामकरणनिष्क्रमणान्नप्राशनचूडोपनयनविवाहाः | ततः शूद्राणामधमशूद्राणामुपनयनं नास्ति तेषां नवैव संस्काराः | ब्राह्मणक्षत्रियवैश्यानान्तु दश संस्कारा इति || अथ गर्भाधानम् | कृतनित्यक्रिय आसने उपविश्य दीक्षापद्धतिलिखिष्यमाणमन्त्रैर्घटान् संस्थाप्य तत्र ब्रह्मदुर्गागणेशविष्णुसूर्ययशिवादित्यादिनवग्रहेन्द्रादि-दशदिक्पालान् सम्पूज्य ततो गौर्ययादिषोडशमातृकाः पूजयेत् | षोडशमातृकास्तु || गौरी पद्मा शची मेधा सावित्री विजया जया | देवसेना स्वधा स्वाहा शान्तिः पुष्टिर्धृतिः क्षमा || आत्मदेवता कुलदेवता एतावत्यः | पूजाक्रमस्तु || अर्घ्यस्थापनं कृत्वा बद्धाञ्जलिः | ह्रीं आयान्तु मातरः सर्वास्त्रिदशानन्दकारिकाः | प्. १५९) विवाहव्रतयज्ञानां सर्वाभीष्टं प्रकल्प्यताम् | यानशक्तिसमारूढाः सौम्यमूर्तिधराः सदा | आयान्तु मातरः सर्वा यज्ञोत्सवसमृद्धये || इति मातृकागणमावाह्य ह्रीं गौर्यये मात्रे नम इति पाद्यादिभिर्यथाशक्ति सम्पूज्य एवं पद्मायै मात्रे नम इत्यादिभिः षोडशमातृकार्च्चनं स्वशक्त्यां विधाय नाभिमात्रायां भित्तौ प्रादेशमात्रमध्ये सिन्दूरेण रक्तचन्दनेन वा सप्त वा पञ्च वा बिन्दून् दद्यात् | ततः प्रत्येकविन्दौ क्लीमिति ह्रीमिति श्रीमिति वीजत्रयेणाविच्छिन्नां घृतधारां दत्त्वा तत्र वसुं यजेत् | ततो होमप्रकरणलेख्यस्थण्डिलादिवह्निस्थापनान्तं कर्म्म कृत्वा होमद्रव्याणि संस्कृत्य प्राजापत्य चरुं श्रपयेत् | ततो वायुनामानमग्निं ध्यात्वा आवाह्य घृतेन पाद्यादिभिः सम्पूज्य धाराहोमान्तं कर्म्म कृत्वा ह्रीं प्रजापतये स्वाहा इति मन्त्रेण चरुणा वारत्रयं जुहुयात् | ततो ह्रीं विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि यच्छतु | असिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते | स्वाहा इत्यनेन चरुणा वारमेकं जुहुयात् | तत आज्येन चरुणा साज्येन न चरुणा वा सूर्ययप्रजापतिविष्णून् ध्यात्वा ह्रीं सूर्ययाय स्वाहा ह्रीं प्रजापतये स्वाहा ह्रीं विष्णवे स्वाहा इति मन्त्रत्रयेण प्रत्येकं जुहुयात् | ततः सिनीवालीसरस्वत्यश्विनान् ध्यात्वा ह्रीं | गर्भं धेहि सिनीवाली गर्भं धेहि सरस्वती | गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ || स्वाहा इत्यनेन घृतेन जुहुयात् | ततो मनसा रविं विष्णुं ध्यात्वा क्लीं स्त्रीं ह्रीं श्रीं हुमित्यमुष्यै पुत्रकामायै गर्भमाधेहि स्वाहा | इति मन्त्रेणाज्येन जुहुयात् | ततो विष्णुं मनसा ध्यात्वा ह्रीं | यथेयं पृथिवी देवी ह्युत्ताना गर्भमादधे | तथा त्वं गर्भमाधेहि दशमे कासि सूतये || स्वाहा इति मन्त्रेणाज्येनं जुहुयात् | ततः पुनरपि विष्णुं मनसा ध्यात्वा ह्रीं | विष्णोर्ज्येष्ठेन रूपेण नार्ययामस्यां वरीयसम् | प्. १६०) सुतमाधेहि | स्वाहा इत्यनेनाज्येन जुहुयात् | ततः क्लीं ह्रीं स्त्रीं ह्रीं क्लीं ह्रीमिति मन्त्रेण बध्वाः शिरः स्पृशेत् | ततः पुत्रवतीभिर्नारीभिः परिवेष्टितो हस्ताभ्यां बध्वाः शिर आलस्य विष्णुं दुर्गां विधिं सूर्ययञ्च ध्यात्वा तस्याः क्रोडाञ्चले फलत्रयं पतिर्दद्यात् | ततः स्विष्टिकृतं हुत्वा प्रायश्चित्तहोमं कुर्ययात् | ततः प्रदोषसमये गौरीसहितशङ्करं सम्पूज्य भास्करार्घ्यं दद्यादिति | ततस्तद्रात्रावन्यरात्रौ वा युग्मायां भार्ययया सह भवनान्तरं गत्वा प्रजापतिं मनसा ध्यात्वा पत्नीं संस्पृश्य शययाशोधनं कुर्ययात् | यथा | ह्रीं आवयोः सुप्रजायै त्वं शयये ! शुभकरी भव | ततो भार्ययया सह शययामारुह्य प्राङ्मुख उदङ्मुखो वा उपविश्य स्त्रियं पश्यन् तन्मस्तके हस्तं दत्त्वा वामेन पाणिना तामालिङ्ग्य तस्याः शीर्षे क्लीमिति शतधा चिवुके ऐमिति शतधा कण्ठे श्रीमिति विंशतिधा स्तनद्वन्द्वे श्रीमिति शतधा हृदये ह्रीमिति पञ्चविंशतिधा जप्त्वा योनौ करं दत्त्वा क्लीं ऐमिति अष्टोत्तरशतं जप्त्वा लिङ्गेऽपि ऐं क्लीमित्यष्टोत्तरशतं जपेत् | ततो ह्रीमिति मन्त्रेण योनिं विकाश्य सुतप्राप्तये स्त्रियमुपगच्छेत् | ततो रेतःपातसमये विश्वकर्माणं ध्यात्वा नाभेरधस्तात् चित्कुण्डे रेतः पातयेत् | शुक्रपातान्तसमये इमं पठेत् | ह्रीं | यथाग्निना सगर्भा भूर्द्यौर्यथा वज्रधारिणा | वायुना दिग्गर्भवती तथा गर्भवती भव || इति गर्भाधानम् | अथ पुंसवनम् | पतिः कृतनित्यक्रियः पञ्चदेवतापूजादिवृद्धिश्राधान्तं गर्भाधानपद्धत्युक्तं विधाय ततो वह्निस्थापनादि कृत्वा चन्द्रनामानमग्निं ध्यात्वावाह्य सम्पूज्य प्राजापत्यं चरुं पचेत् | ततो गव्ये दधि यवमेकं द्वौ माषौ च निक्षिप्य स्त्रियं पृच्छेत् | हे भद्रे ! किं त्वं त्रिः कृतं पिबसि इति | ततः स्त्री ब्रूयात् मया पुंसवनं कृत्वं पीयते | प्. १६१) इत्युक्त्वा यवमाषयुतदधिप्रसृतित्रयं पिबेत् | तनो जीववत्साभिर्वनिताभिस्तां यागस्थानं समानयेत् | ततो वामभागे तां संस्थाप्य चरुमानीय ह्रीं हुं ये चात्र विघ्नकर्त्तारो ये च गर्भविनाशकाः | भूताः प्रेताः पिशाचाश्च वेताला बालघातकाः | तान् सर्वान्नाशय नाशय गर्भरक्षां कुरु स्वाहा | इत्यनेन मन्त्रेण रक्षोघ्नं विचिन्त्य प्रजापतिञ्च ध्यायन् चरुणा द्वादशाहुतीर्जुहुयात् | ह्रीं चन्द्रमसे स्वाहेति मन्त्रेण पञ्चाहुतीर्दद्यात् | ततो भार्ययाहृदि स्पृष्ट्वा ह्रीं श्रीमिति मन्त्रं शतं जपेत् | ततः स्विष्टिकृद्धोमस्तदनन्तरं प्रायश्चित्तहोमादिवह्निविसर्ज्जनान्तं कर्म्म कृत्वा दक्षिणाच्छिद्रावधारणान्तं कुर्ययादिति पुंसवनम् || अथ पञ्चामृतदानम् | तत्तु गर्भजननमासावधिके पञ्चमे मासि गर्भिण्यै देयम् | पञ्चामृतन्तु समांसेन दधिमधुदुग्धघृतशर्करामिश्रितरूपम् | अनेन स्त्रिया देहशुद्धिर्भवति | तत्र प्रत्येकं द्रव्ये ऐम् क्लीं श्रीं ह्रीं हुं लमिति पञ्चधा जप्त्वा सम्मिश्र्य गर्भिणीं प्राशयेदिति पञ्चामृतदानम् || अथ सीमन्तोन्नयनम् | तत्तु षष्ठेऽष्टमे वा मासि कर्त्तव्यम् | तत्राशक्तावपत्यजननात् पूर्वं कार्ययम् | तत्र पतिः पञ्चदेवतापूजादिधारोहोमान्तं गर्भाधानप्रकरणोक्तं विधाय स्त्रिया सहासने उपविश्य शिवनामानमन्गिं ध्यात्वा आवाह्य यथाशक्ति सम्पूज्य ह्रीं विष्णवे स्वाहा ह्रीं भास्वते स्वाहा ह्रीं धात्रे स्वाहा इत्याहुतित्रयं दद्यात् | ततः सोमं ध्यात्वा ह्रीं सोमाय स्वाहा इति सप्तधा जुहुयात् | अश्विनौ वासवं विष्णुं शिवं दुर्गाञ्च प्रजापतिञ्च ध्यात्वा प्रत्येकं पञ्चाहुतीर्दद्यात् | ततः पतिः स्वर्णकङ्कतिकां दक्षिणहस्तेन गृहीत्वा स्त्रियाः सीमन्ताद्बद्धकेशान्तपाशे निवेश्य शिवं विष्णुं विधिञ्च ध्यायन् ह्रीं | भार्यये | प्. १६२) कल्याणि ! सुभगे ! दशमे मासि सुव्रते | सुप्रसूता भव प्रीता प्रसादाद्विश्वकर्म्मणः | आयुष्मति ! कङ्कतिका वर्च्चस्वी ते शुभं कुरु || इति पठेत् || ततः स्विष्टिकृद्धोमप्रायश्चित्तहोमौ कृत्वा दक्षिणामग्निविसर्ज्जनादिकञ्च कुर्ययादिति सीमन्तोन्नयनम् || अथ जातकर्म्म | जातमात्रबालकं पिता स्वर्णं दत्वा पश्येत् | ततो गृहान्तरे गर्भाधानपद्धत्युक्तं पञ्चदेवतापूजादिधाराहोमान्तं कर्म्म कृत्वा पञ्चाहुतीर्हृद्यात् | ह्रीमग्नये स्वाहा ह्रीमिन्द्राय स्वाहा ह्रीं प्रजापतये स्वाहा ह्रीं विश्वेभ्यो देवेभ्यः स्वाहा ह्रीं ब्रह्मणे स्वाहा | इत्येभिर्मन्त्रैरिति | ततः कांस्यपात्रसमांशेन मधुसर्पिषी समानीय तदुपरि ऐमिति सप्तधा जप्त्वा | ह्रीं | आयुर्वर्च्चो बलं मेधा वर्द्धतां ते सदा शिशो ! | इति मन्त्रेण दक्षिणहस्तानामिकया शिशुं प्राशयेत् | इत्यायुर्जननं कृत्वा पिता गुप्तं नाम कुर्ययात् | ततो जन्मदिनावधि त्रिदिनाभ्यन्तरे श्वेतदूर्वाभिः स्वर्णशलाकया वा मधुना बालकस्य जिह्वायां वाग्भवकूटं लिखेत् | अनेन वाग्भवकूटेन बालकः पण्डितः सुकविः शब्दालङ्कारविच्च भवति | यदीमं मन्त्रं कृतपुरश्चरणो मूर्खस्य शिरसि हस्तं दत्त्वा अष्टोत्तरशतं जपेत्तदा सोऽपि श्लोकं करिष्यति | यदि चेमं मूकस्य जिह्वायां न्यसेत्तदा सोऽपि कविर्भवति | अथ वा द्वितीयायास्त्र्यक्षरीं दूर्वया बालकस्य जिह्वौष्ठौ सम्मार्ज्य पंक्तिद्वयेन लिखेत् | तत्र क्रमः | नाडीच्छेदात् प्रागेकादशाहे द्वादशाहे मासान्ते वा यथाशक्ति उपचारेण तां देवतां सम्पूज्य मन्त्रं लिखेत् | यदि पिता न देशस्थस्तदा पितृव्यादिरेतत् कुर्ययात् | अथवा श्वेतदूर्वया कुलदेवतामन्त्रं बालकस्यौष्ठे लिखेत् | स बालो वाग्मी द्रुतकविर्भवेत् | ततः स्विष्टिकृद्धोमादिवह्निविसर्ज्जनान्तं कर्म्म कुर्ययात् | कुमार्यया अप्येवं सर्वममन्त्रकं कुर्ययात् | प्. १६३) तत उत्साहपूर्वकं धात्री नाडी छिन्द्यात् | तदनन्तरमशौचं भवतीति जातकर्म्म || अथ नामकरणम् | षष्ठेऽष्टमे वा मासि प्रकाशतो नाम कुर्ययात् | तत्र माता शिशुं स्नापयित्वा नवे अम्बरे परिधाप्य पत्युः पार्श्वं वामक्रोडासनमागत्य बालं प्राङ्मुखं स्थापयेत् | ततः पिता सहिरण्यकुशजलेन शिशोर्मूर्द्धानमभिषिञ्चेदेभिर्मन्त्रैर्यथा | ह्रीं जाह्नवी यमुना रेवा सपवित्रा सरस्वती | नर्म्मदा वरदा कुम्भी सागराश्च सरांसि च | एते त्वामभिषिञ्चन्तु धर्म्मकामार्थसिद्धये | ह्रीं | आपोहिष्ठामयो भुवस्ता न ऊर्जे दधातन महेरणाय चक्षसे | यो वः शिवतमो रसस्तस्य भाजयतेह नः | उशतीरिव मातरः | तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ | आपो जनयथा च नः | इत्यभिषिच्य पूर्ववद्वह्निस्थापनादिधाराहोमान्तं कर्म्म कृत्वा पार्थिवनामानमग्निं ध्यात्वा स्वल्पाक्षरं सुखोच्चार्यं नाम त्रिधा पिता श्रावयित्वा ब्राह्मणेभ्यो निवेदयेत् | ततः स्विष्टिकृद्धोमान्तं कर्म्म समापयेत् | एतत् कर्म कन्याया अप्यमन्त्रकं कर्त्तव्यम्ति नाम करणम् || अथ निष्क्रमणम् | निष्क्रमणन्तु चतुर्थे मासि षष्ठे वा कुर्ययात् | तत्र पिता कृतनित्यक्रियो गणेशं सम्पूज्य शिशुं स्नापयित्वा वस्त्रालङ्कारैर्भूषयित्वा अग्रे संस्थाप्य ह्रीं ब्रह्मा विष्णुरित्यादिप्रमाणप्रकरणोक्तं पठित्वा बालकमङ्के निधाय गीतवाद्यपुरःसरं सानन्दैः स्वजनैर्वृतो वहिर्निष्क्रामयेत् | ततः कियद्दूरं गत्वा ह्रीं तच्चक्षुर्देवहितमिति मन्त्रेण बालकं सूर्यं दर्शयेत् | ततो गृहमागत्य सूर्ययायार्घ्यं दत्त्वा स्वजनान् भोजयेदिति निष्क्रमणम् || अथान्नाप्राशनम् | तत्र षष्ठे मासि अष्टमे वा पितृभ्राता पिता वा अन्नप्राशनक्रियां कुर्ययात् | प्. १६४) तत्र कृतनित्यक्रियः पूर्ववत् सगणाधिपगौर्ययादिकं सम्पूज्य शुचिनामानमग्निं संस्कृत्य प्रागुक्तधाराहोमान्तं कर्म समाप्य पञ्चाहुतीर्जुहुयात् | यथा ह्रीं अग्नये स्वाहा ह्रीं इन्द्राय स्वाहा ह्रीं प्रजापतये स्वाहा ह्रीं विश्वेभ्यो देवेभ्यः स्वाहा ह्रीं ब्रह्मणे स्वाहा | इति हुत्वा तन्त्रान्यस्मिन् गृहे वा बालकं क्रोडे कृत्वा पञ्चप्राणाहुतिमन्त्रैः पायसं पञ्चधा भोजयित्वा शिशोर्मुखे किञ्चिदन्नव्यञ्जनादि दत्त्वा आचामयेत् | ततो गीतवाद्यपुरःसरं प्रायश्चित्तहोमादि समापयेदित्यन्नप्राशनम् || अथ चूडाकरणम् || तृतीये वर्षे पञ्चमे कुलाचारप्राप्ते वा चूडाकरणम् | तत्र कृतनित्यक्रियः सगणाधिपमातृकादिपूजां विधाय सत्यनामानमग्निं संस्कृत्य धाराहुत्यन्तं कर्म समाप्याग्नेरुत्तरे तिलगोधूमसहितं वृषगोमयपूर्णं नवशरावं स्थापयेत् कवोष्णं जलं शाणित क्षुरञ्च | ततः पिता स्ववामे जननीक्रोडे बालकं निधाय वमिति दशधा जप्त्वा तेन कवोष्णतोयेन केशान् सम्मार्ज्य ह्रीमिति मन्त्रेण कुशपत्रद्वयनिर्मितजुष्टिकामेकां तत्र बध्नीयात् | ततो मायालक्ष्मीवीजद्वयं त्रिधा जप्त्वा लौहजं क्षुरं गृहीत्वा सजुष्टिककेशमुपमूलं छिन्द्यात् | ततः कुमारमाता तं सजुष्टिककेशं हस्ताभ्यां गृहीत्वा तस्मिन् गोमयान्वितनवशरावे स्थापयेत् | ततः पिता नापिताय ब्रूयात् | क्षुरमुण्डे शिशोः क्षौरं मुखं साधय स्वाहा | इति पठित्वा बालकं पश्यन् सत्यनामाग्नौ ह्रीं प्रजापतये स्वाहा इति त्रिवारं जुहुयात् | ततः कृतक्षौर स्नातं समलङ्कृतं समाल्यं बालं वामभागे संस्थाप्य स्विष्टिकृतप्रायश्चित्तहोमं हुत्वा पूर्णाहुतिं दद्यात् | ततो ह्रीं शिशो ! ते विश्वकर्मा कुशलं कुरुतामिति पठित्वा स्वर्णमयया राजत्या शलाकया वा शिशोः कर्णद्वये वेधं कल्पयेत् | प्. १६५) तत आपोहिष्ठेत्यादिमन्त्रेण तमभिषिच्य शान्त्यादिकं कृत्वा दक्षिणां कुर्ययादिति चूडाकरणम् || गर्भाधानादिचूडान्तं कर्म सर्वजातिषु समानं केवलं शूद्राणामिदं सर्वममन्त्रकमिति || अथोपनयनम् || गर्भाष्टमेऽष्टमेऽब्दे वा उपनयनं कर्त्तव्यमिति | षोडशाब्दपर्ययन्तमनुपनीतस्य बालस्य दैवपैत्र्यक्रियायां नाधिकारः || तत्र कृतनित्यक्रियः सगणाधिपमातृपूजादिवृद्धिश्राद्धान्तं कर्म कृत्वा कुशण्डिकोक्तविधानेन समुद्भवनामानमग्निं संस्थाप्य धाराहोमान्तं कर्म कृत्वा प्रातः कृताशनं शिखां विना मुण्डितशिरसं सुस्नातं क्षौमाम्बरधरं स्वलङ्कृतं बालं छायामण्डपमनीय वहिः समीपे स्ववामे शुद्धासने उपवेशयेत् | ततो ह्रीं ब्रह्मचर्ययं कुरु इति गुरुः | ह्री.ं ब्रह्मचर्ययं करोमीति शिष्यो ब्रूयात् | ततो गुरुस्तस्मै शिष्याय काषाये वाससी कुशमयीं मेखलाञ्च दद्यात् | ह्रीं सुभगा मेखला शुभप्रदा स्यादिति पठित्वा शिष्यो मौनि तिष्ठेत् | ह्रीं यज्ञोपवीतमिति मन्त्रं पठित्वा गुरुः शिष्याय कृष्णाजिनयुक्तयज्ञोपवीतं दद्यात् | वेदभेदे सूत्रमानन्तु प्रमाणमध्ये अनुसन्धेयम् | पुनर्यज्ञोपवीतमात्रं वंशदण्डञ्च दद्यात् पालाशञ्च | ततो मायापुटितापोहिष्ठादिमन्त्रेण त्रिपत्रकुशेन धृतकायं वस्त्रमेखलाजिनयज्ञसूत्रदण्डं शिष्यमभिषिच्य तोयेन तदञ्जलिं पूरयेत् | ततः सूर्ययायाञ्जलिं दापयित्वा बालं ह्रीं तच्चक्षुरिति मन्त्रेणादित्यं दर्शयेत् | ततो गुरुर्माणवकहृदयं स्पृष्ट्वा ह्रीं मम व्रते ते इति मन्त्रं पठित्वा किं नामासि इति पृच्छेत् | ततः शिष्यः श्री-अमुकनामाहं त्वामभिवादये इति वदेत् | ततो गुरुः कस्य त्वं ब्रह्मचारीति | शिष्यः भवतो ब्रह्मचार्ययहम् | ततो गुरुः | इन्द्रस्य ब्रह्मचारी त्वमाचार्ययस्ते हुताशनः | इत्युक्त्वा ह्रीं प्रजापतये वत्स इति मन्त्रेण माणवकं समर्प्य दक्षिणावर्त्तयोगेन वह्निं प्रदक्षिणीकारयित्वा आसने उपवेशयेत् | प्. १६६) ततः शिष्येण स्पृष्टो गुरुः ह्रीं प्रजापतये स्वाहा | ह्रीं इन्द्राय स्वाहा | ह्रीं विष्णवे स्वाहा | ह्रीं ब्रह्मणे स्वाहा | ह्रीं शिवायं स्वाहा | ततो मायादिस्वाहान्तेन नाम्ना दुर्गालक्ष्मीसुन्दरी- भुवनेश्वरीन्द्रादिदशदिक्पालभास्करादिनवग्रहेभ्यं स्वस्वनाम्ना प्रत्येकं जुहुयात् | ततो माणवकं वाससा आच्छाद्य को वाश्रमस्ते तनय ! ब्रूहि किन्ते मनोगतम् | ततः शिष्यो गुरुपादद्वयं धृत्वा करोतु मामाश्रमिणं ब्रह्मविद्योपदेशतः | इति प्रार्थयमानस्य शिष्यस्य दक्षकर्णे त्रिधा प्रणवं संश्राव्य सव्याहृतिकां सावित्रीं श्रावयेत् | अन्याब्रह्मविद्या | गायत्र्याः सदाशिव ऋषिरनुष्टुप्छन्दः सावित्री देवता मीक्षार्थे विनियोगः | तदर्थञ्च ज्ञापयेत् | ततो माणवको भिक्षां कुर्ययात् | ततो गुरुः ह्रीं ब्रह्मचार्ययुक्तवेशमिति पठेत् | ततो माणवकः कषायवस्त्रं सकृष्णाजिनयज्ञसूत्रं मेखलां दण्डं भिक्षाकरण्डमर्जितभिक्षाञ्च गुरवे निवेद्य शुद्धयज्ञोपवीतद्वयं शुक्लवस्त्रद्वयञ्च परिधाय धृतगन्धमाल्य आचार्ययसन्निधौ तूष्णीं तिष्ठेत् | ततो गुरुः | ह्रीं जितेन्द्रियः सत्यवादीत्यादि पठित्वा शिष्येण हावयेत् | यथा | ह्रीं ओं भूः स्वाहा ह्रीं ओं भुवः स्वाहा ह्रीं ओं स्वः स्वाहा इत्यनेन | ततः स्विष्टिकृद्धोमादिदक्षिणान्तं कर्म समापयेदित्युपनयनम् || अथ विवाहः | तत्र कृतनित्यक्रियः पञ्चदेवतापूजादिवृद्धिश्राधान्तं कर्म कृत्वा रात्रौ गीतवाद्यपुरःसरं वरं छायामण्डपमानीय पूर्वाभिमुखमासने समुपवेशयेत् | ततो ब्राह्मणैः पुण्याहं वाचयित्वा ह्रीं साधुभवानास्तामिति वरं पृच्छेत् | ततो वरः | ह्रीं साध्वहमासे इति वदेत् | ह्रीं अर्च्चयिष्यामो भवन्तमिति वरं पृच्छेत् | ह्रीमर्च्चय इति वरो वदेत् | ह्रीं पाद्यं समर्पयामीत्यादिना पाद्यार्घ्याचमनीयगन्धपुष्पवस्त्रालङ्कारयज्ञसूत्रैर्-वरमभ्यर्च्य ह्रीं मधुपर्कं समर्पयामीति वरहस्ते मधुपर्कं समर्पयेत् | प्. १६७) ततो वरो मधुपर्कं गृहीत्वा वामहस्ते निधाय दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां ह्रीं प्राणाय स्वाहा ह्रीं अपानाय स्वाहा ह्रीं समानाय स्वाहा ह्रीं उदानाय स्वाहा ह्रीं व्यानाय स्वाहा इति मन्त्रेण तन्मधुपर्कद्रव्यं पञ्चधा आघ्नाय तत् पात्रमुदीच्यां दिशि स्थापयेत् | ततो वराय पुनराचमनीयं दत्त्वा दाता दूर्वाक्षताभ्यां वरस्य दक्षिणं जानु स्पृष्ट्वा विष्णुरोम् तत्सदद्य अमुके मासि अमुकराशिस्थे भास्करे अमुके पक्षे अमुकतिथौ अमुकगोत्रः श्रीअमुकदेवशर्मा अमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्मणः प्रपौत्रं पुनर्गोत्राद्युल्लिख्यामुकदेवशर्मणः पौत्रं पुनर्गोत्राद्युल्लिख्यामुकदेवशर्म्मणः पुत्रं पुनर्गोत्रादिद्वितीयान्तमुल्लिख्य श्री-अमुकदेवशर्म्माणमर्च्चितं वरम् | एवं गोत्रप्रवरनामषष्ठ्यन्तं प्रपितामहपितामहपितॄणामुक्त्वा यथाक्रमं प्रपौत्रीं पौत्रीं पुत्रीञ्चोक्त्वा अमुकगोत्राममुकप्रवरां श्रीअमुकीदेवीं ब्राह्मविवाहेन दातुं भवन्तमहं वृणे इति वदेत् | वरस्तु ह्रीं वृतोऽस्मीति वदेत् | तदा यथाविहितं विवाहकर्म कुरु | वरः ह्रीं यथाज्ञानतः करवाणीति | ततः सवस्त्रालङ्कारां कन्यां छायामण्डपमानीय वरसम्मुखे स्थापयेत् | ततो वरहस्ते कन्याहस्तं नियोज्य फलरत्नादिकं दत्त्वा प्राग्वत् सौरमासाद्युल्लेखानन्तरं प्रपितामहपितामहपितॄणां गोत्रप्रवरनामषष्ठ्यन्तमुल्लिख्य यथाक्रमं प्रपौत्राय पौत्राय पुत्राय इत्युक्त्वा अमुकगोत्राय अमुकप्रवराय श्री-अमुकदेवशर्म्मणे वराय इत्युच्चार्यय कन्यायाश्च प्रपितामहपितामहपितॄणां षष्ठ्यन्तं गोत्रप्रवरनामोल्लिख्य प्रपौत्रीं पौत्त्रीं पुत्त्रीमिति यथासम्भवमुच्चार्यय अमुकगोत्राममुकप्रवरां श्रीअमुकीदेवीं कन्यामित्यन्तं त्रिरुच्चार्यय एनामर्चितां साच्छादनालङ्कारां प्रजापतिदेवताममुककामस्तुभ्यमहं सम्प्रददे | इति वराय दद्यात् | प्. १६८) वरः स्वस्तीति स्वीकुर्ययात् | ततः सम्प्रदाता धर्मे चार्थे च कामे च भवता भार्ययया सह वर्त्तितव्यम् | वरो वाढमित्युक्त्वा कामस्तुतिं पठेत् | ततः सम्प्रदाता कन्याजामातरौ ह्रीं प्रजापति प्रसादेनेत्यादि श्रावयित्वा वस्त्रेणाच्छाद्य सुमङ्गलपुरःसरैर्वरकन्ययोः परस्परमुखावलोकं कारयेत् | ततः काञ्चनादिकं वराय दक्षिणां दत्त्वा अच्छिद्रावधारणं कुर्ययात् | ततो वरस्तद्रात्रौ परदिवसे वा कुशण्डिकोक्तविधानेन योजकनामाग्निं संस्हाप्य प्राजापत्यं चरुं श्रपयेत् | ततो धाराहोमान्तं कर्म कृत्वा ह्रीं शिवाय स्वाहा | ह्रीं दुर्गायै स्वाहा ह्रीं विष्णवे स्वाहा ह्रीं ब्रह्मणे स्वाहा ह्रीं इन्द्राय स्वाहा इति जुहुयात् | ततो ह्रीं पाणिं गृह्णामीति मन्त्रं पठित्वा भार्ययायाः पाणिं गृह्णीयात् | ततः कन्या हस्तस्थेन स्वामिदत्तेन घृतेन भ्रात्राद्याहृतलाजैः प्रजापतिमुद्दिश्य ह्रीं प्रजापतये स्वाहा इति चतुर्धा जुहुयात् | ततो भार्ययया सह उत्थाय वह्निं प्रदक्षिणीकृत्य ह्रीं दुर्गाशिवाभ्यां स्वाहा ह्रीं ब्राह्मीब्रह्मभ्यां स्वाहा | इति त्रिधा हुत्वा अश्मारोहणसप्तपदीगमने अमन्त्रकं कारयेत् | रात्रौ चेद्धोमस्तदा स्त्रीभिः सह चन्द्रमरुन्धतीञ्च पश्येत् || ततः स्विष्टिकृद्धोमादिदक्षिणान्तं कर्म्म समापयेत् || इति विवाहः || इति श्रीप्राणतोषिण्यां द्वितीये धर्मकाण्डे संस्काररूपग्रन्थिकथनं नाम प्रथमः परिच्छेदः || वक्ष्यमाणवचनैर्दीक्षाया अपि संस्काररूपत्वात् संस्कारमध्ये वक्तव्यत्वमुचितम् | तस्या गुरुमूलतया त्वादौ गुरुप्रकरणमुच्यते | तत्र गुरुलक्षणं शारादायां द्वितीयपटले || मातृतः पितृतः शुद्धः शुद्धभावो जितेन्द्रियः | सर्वागमानां सारज्ञः सर्वशास्त्रार्थतत्त्ववित् | परोपकारनिरतो जपपूजादितत्परः | अमोघवचनः शान्तो वेदवेदाङ्गपारगः | योगमार्गार्थसन्धायी देवताहृदयङ्गमः | प्. १६९) इत्यादिगुणसम्पन्नो गुरुरागमसम्मतः | देवतावत् हृदयङ्गमो मनोहर इत्यर्थः || विश्वसारतन्त्रे द्वितीयपटलेऽपि || सर्वशास्त्रपरो दक्षः सर्वशास्त्रार्थवित् सदा | सुवचाः सुन्दरः स्वाङ्गः कुलीनः शुभदर्शनः | जितेन्द्रियः सत्यवादी ब्राह्मणः शान्तमानसः | पितृमातृहिते युक्तः सर्वकर्मपरायणः | आश्रमी देशस्थायी च गुरुरेवं विधीयते || आश्रमी गृहस्थः | तथाच मत्स्यसूक्ते महातन्त्रे त्रयोदशपटले || मध्यदेशसमुद्भूतः शान्तः सर्वगुणैर्युतः | पुत्रदारैश्च सम्पन्नो गुरुरागमसम्मतः || मध्यदेशसमुद्भूत इति श्रेष्ठत्वदर्शनार्थम् | तत्प्रमाणन्तु तन्त्रसारकारेणैव लिखितमतोऽत्र न प्रयोजनमिति गुरुलक्षणम् || रुद्रजामले पूर्वखण्डीयपञ्चदशपटलोत्तरखण्डीयद्वितीयपटलयोः | आदौ साधकदेवश्च सदाचारमतिः सदा | पशुभावस्ततो वीरः सायाह्ने दिव्यभाववान् | एतेषां भाववर्गाणां गुरुर्वेदान्तपारगः | शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् | शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् | आश्रमी ध्यानिष्ठश्च मन्त्रतन्त्रविशारदः | निग्रहानुग्रहे शक्तो वशी मन्त्रार्थजापकः || शान्त इत्याद्येतत् सर्वं रामार्च्चनचन्द्रिकायामपि केवलं शेषचरणे वशीत्यादौ गुरुरित्यभिधीयत इति पाठः || शान्तो विषयोत्कटेच्छारहितः शमादिगुणसंयुक्तः | शमस्तु श्रवणादिकव्यतिरिक्तविषयेभ्यो मनसो निग्रहः | यथा तीव्रायां बुभुक्षायां जातायां भोजनादन्यो व्यापारो मनसि न रोचते | भोजनविलम्बञ्च सहते तथा स्रक्चन्दनादिविषयेष्वत्यन्तमभिरुचिस्तत्त्वज्ञानमाधनेषु श्रवणमननादिष्वत्यन्तमभिरुचिश्च जायते इति | शान्तरूपेण प्रसिद्धो वा | दान्तस्तपःक्लेशसहः दमयुक्तो वा | दमस्तु वाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्त्तनम् | ज्ञानसाधनश्रवणादिसाधनेभ्यो विलक्षणेषु शब्दादिविषयेषु प्रवर्त्तमानानि श्रोत्रादीनि वाह्येन्द्रियाणि येन वृत्तिविशेषेण निवर्त्तन्ते स दम इत्यभिप्रायः | प्. १७०) अत - एव शान्तोऽन्तरिन्द्रियनिग्रहकर्त्ता दान्तो वहिरिन्द्रियनिग्रहकर्त्ता इति वेदान्तविद्भिरुक्तम् || वृहन्नीलमन्त्रे तृतीयपटलेऽपि | वहिरिन्द्रियहर्त्ता च गुरुः सर्वत्र दुर्लभः | अन्तरिन्द्रियहर्त्ता च गुरुः सर्वत्र शोभनः | आचारवान्महाविद्याराधनिष्ठश्च तत्परः | तत्कल्पाचारसंसक्तो गुरुरित्यभिधीयत्र इति | कुलीनः कौलः | एतेषामित्यादिवचनान्यदृष्ट्वा कुलीनः शुद्धजन्मा आचारादिनवगुणशाली वेति कश्चित् स्वबुद्ध्या व्याचष्टे एतदतीव मन्दम् | वक्ष्यमाणसारसंग्रहवचने विशुद्धमातापितृककुलीनेति द्वयोरुपादानात् | येनैवं व्याख्यायते तस्य सन्देहस्तु विष्णुमन्त्रोपदेष्टरि कुलाचाराभाव इति | स तु सन्देहः कामाख्याकुलार्णवरुद्रजामलादीनामद्रष्टुरेव स्फुरति | तत्र तु सौरगाणपत्यशैववैष्णवशाक्तानां सर्वेषां कुलावारोपदेशस्य सुस्पष्टत्वादिति तत्प्रमाणमग्रे लिखितव्यमिति | गुरुकरणे वर्जनीयप्रकरणे श्यावदन्तं कुलाचाररहितमित्यादिपञ्चाचारविवर्जितमिति च वक्ष्यमाणं तेन न दृष्टमिति | अत एव कुलीनः सर्वमन्त्राणामधिकारीति गीयते | दीक्षाप्रभुः स एवात्मा सर्वमन्त्रस्य नापरः | इति तन्त्रसारधृतं साधु सङ्गच्छते || कामाख्यातन्रे तृतीयपटलेऽपि || शान्तो दान्तः कुलीनश्च शुद्धान्तःकरणस्तथा | पञ्चतत्त्वात्मको यस्तु सद्गुरुः स प्रकीर्तितः | सिद्धोऽसाविति विख्यातो बन्धुभिः शिष्यपालकः | चमत्कारी दैवशक्त्या सद्गुरुः कथितः प्रिये ! | अश्रुतं सम्भृतं वक्ति वाक्यं साधु मनोहरम् | तन्त्रमन्त्रं समावेत्ति य एव सद्गुरुश्च सः || महानिर्वाणतन्त्रे दशमोल्लासे च || शाक्ते शाक्तो गुरुः शस्तः शैवे शिवो गुरुर्मतः | वष्णवे वैष्णवः सौरे सौरो गुरुरुदाहृतः | गाणपे गाणपः ख्यातः कौलः सर्वत्र सद्गुरुः | अतः सर्वात्मना धीमान् कौलाद्दीक्षां समाचरेत् || प्. १७१) नानाविकल्पविभ्रान्तिर्नाशमित्यादिसद्गुरुलक्षणं वक्ष्यते | इति सद्गुरुलक्षणम् || तथा || पशोर्वक्त्राल्लब्धमन्त्रः पशुरेवं न संशयः | वीराल्लब्धमनुर्वीरः कौलाच्च ब्रह्मविद्भवेत् || वृहन्नीलतन्त्रेऽपि || शैवोऽपि परविद्यानामुपदेष्टा न संशयः | वैष्णवः स्वमतस्थानां सौरः सौरविदां सताम् || गाणपत्यस्तु देवेशि ! गणदीक्षाप्रवर्त्तकः | शैवे शाक्ते च सर्वत्र दीक्षास्वामी न संशयः | कौलस्तस्मात् प्रयत्नेन कुलीनं गुरुमाश्रयेत् || इति कुलीनगुरुप्रशंसा || ननु रुद्रजामलीयोत्तरखण्डीयषष्ठपटलोक्तेन | भावस्तु त्रिविधो देव ! दिव्यवीरपशुक्रमात् | गुरवस्तिविधाश्चात्र तथैव मन्त्रदेवताः | इत्यनेन पशुगुरुविषयकमेतद्व्याख्यादीनां वामसिद्धान्तकुलमार्गानुसारिणां वचनैरामार्च्चनचन्द्रिकादिवचने पारिभाषिकं कुलीनमङ्गीकृत्य कथमेतादृग् व्याख्यानं कर्त्तव्यमिति चेन्न || महानिर्वाणतन्त्रे कौलस्य सर्वमन्त्रोपदेष्टत्वसद्गुरुत्वयोः स्पष्टमुक्तत्वात् | एतेन शान्त्या दिगुणवत्त्वे सति अभिशस्तत्वादिदोषरहितत्वं सद्गुरुत्वमिति सद्गुरुलक्षणमर्वाचीनैः कृतमप्यपास्तम् | कौलस्यैव सद्गुरुत्वेनोक्तत्वात् | अथ कुलीनः शुद्धवंशजन्मा आचारादिनवगुणशालीव इतीतरलोकप्रसिद्धकुलीनव्याख्यानेन को दोष इति चेन्न | तन्त्रशास्त्रे कूटार्थकल्पनाया निन्दाश्रुतेः | यथा महानिर्वाणतन्त्रे एकादशोल्लासे || एतस्मिन् शाम्भवे शास्त्रे व्यक्तार्थपदवृंहिते | कूटेनार्थं कल्पयन्तः पतिता यान्त्यधोगतिम् || रुद्रजामले उत्तरखण्डे द्वितीयपटले || नीरोगी निरहङ्कारो विकाररहितो महान् | तपस्वी सत्यवादी च सदा ध्यानपरायणः | आगमार्थविशिष्टज्ञो निजधर्मपरायणः | अव्यक्तलिङ्गचिह्नस्थो भावको भद्रदानवान् | लक्ष्मीमान् धृतिमान्नाथो गुरुरित्यभिधीयते || गुरुनाथाचार्ययशब्दानां व्युत्पत्तिस्तु कुलार्णवे पञ्चमखण्डे सप्तदशोल्लासे | गुह्यागमार्थतत्त्वानुसन्धानाद्बोधनादपि | प्. १७२) रुद्रादिदेवरूपत्वाद्गुरुरिन्यभिधीयते | श्रीमोक्षज्ञानदातृत्वान्नादब्रह्मात्मबोधनात् | स्थगितज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये ! | स्वयमाचरते शिष्यानाचारे स्थापयत्यपि | आचिनोति हि शास्त्रार्थानाचार्ययस्तेन कथ्यते | चराचरसमासन्नमध्यापयति यः स्वयम् | यमादियोगसिद्धत्वादाचार्यय इति कथ्यते || शाक्तानन्दतरङ्गिणीधृतसारसंग्रहे || विशुद्धमातापितृको जितेन्द्रियः सर्वागमज्ञः परदुःखकातरः | यथार्थवाग्वेदविदङ्गपारगः शान्तः कुलीनो गुरुरीरितो द्विजः || द्विज इत्युपादानान्नान्येभ्यो मन्त्रग्रहणम् | अनाचारो द्विजो यस्तु वर्णानां गुरुरेव सः || इति वचनात् | स इत्यनेनैवकारः सम्बध्यते | स एव गुरुरित्यनेन जात्यन्तरं व्यवच्छिद्यते | गुरुशब्देनैवकारः सम्बध्यते व्यावृत्तेरभावात् || कुलमूलावतारकल्पसूत्रटीकाधृतनवचक्रेश्वरे || शिवरूपं समादाय भवपाशनिवृत्तये | सिद्धान्तसारवेत्ताहं सिद्धान्तसारभेदकः | अविच्छिन्नाप्रमत्तश्च सदानुग्रहनिग्रहे | शिवोदिव्याकृतिर्देवि ! न च दृग्गोचरोऽप्यहम् | तथा श्रीगुरुरूपेण शिष्यान् शास्यामि पार्वति ! | परं संवित्तिजननं परानन्दसमुद्भवम् | तत्तत्त्वं विदितं येन स गुरुः कुलनायिके ! | भूतभव्यौ मन्त्रतन्त्रौ शाम्भवं वेत्ति यः सदा | वेधस्य षड्विधं देवि ! स गुरुः कुलनायिके ! | वर्णं कलां पदं तत्त्वं मन्त्रं भुवनमेव च | बोधयेद्यः षडध्वानं स गुरुः कुलनायिके ! | षडाधारं नवद्वारं षोडशाधारनिर्णयम् | यो जानाति विधानेन स गुरुः कुलनायिके ! | जाग्रत्स्वप्नसुषुप्तिञ्च रूपञ्च तदतीतकम् | यो वेत्ति पञ्चकं देवि ! स गुरुः कुलानायिके ! || सम्मोहनतन्त्रे प्रथमपटलेऽपि || षट्चक्रं षोडशाधारं त्रिलक्षं व्योमपञ्चकम् | स्वदेहे यो विजानाति स गुरुः कथितो बुधैः || क्रमेणैतानि व्याख्यायन्ते | प्. १७३) यः षडध्वानं शिष्यं बोधयेत् स गुरुरित्यन्वयः | अध्वानमाह वर्णमित्यादि | एतान् षडध्वनो दीक्षाप्रकरणे स्पष्टीकरिष्ये | षडाधारं षट्चक्राणि पृथिव्यादीनामाधाररूपत्वात् | नवद्वारं दृक्श्रोत्रास्यनासिकागुह्यलिङ्गच्छिद्ररूपम् | उक्तञ्च सम्मोहनतन्त्रे द्वितीयपटलेऽपि | नवद्वारं नवच्छिद्रं पुरं वपुः प्रकीर्त्तीतम् | नवपद्माणि चक्राणि त्रिसूत्रं नाडिकात्रयमिति | षोडशाधारस्वरूपमपि तत्रैव || मूलाधारस्वाधिष्ठानं मणिपूरमनाहतम् | विशुद्धमाज्ञाचक्रञ्च बिन्दुर्भूयः कलापदम् | निबोधिका तथार्द्धेन्दुर्नादो नादान्त एव च | उन्मनी विष्णुवक्त्रञ्च ध्रुवमण्डलिका ततः | इत्येतत् षोडशाधारं कथितं योगिदुर्लभमिति | विधानेन प्रयत्नेन प्राणायामादिनेति यावत् | जाग्रत्स्वप्नसुषुप्तिमिति बुद्धेरावर्त्तत्रयरूपम् | बिन्दुस्तदतीतं निरञ्जनमित्यग्रे स्पष्टीभविष्यति | त्रिलक्षादिकमपि तत्रैव स्वयम्भूर्वाण इतरस्त्रिलक्षं परिकीर्त्तितम् | पृथिव्यादीनि भूतानि कथितं व्योमपञ्चकमिति | तत्र स्वयम्भूलिङ्गं मूलाधारे वाणलिङ्गमनाहते | इतरमाज्ञाचक्रे || नवचक्रेश्वरे || पिण्डं पदं तथा रूपं रूपातीतं चतुष्टयम् | यो वा सम्यग् विजानाति स गुरुः परिकीर्तितः | पिण्डादिचतुष्टयं स्पष्टीकृतं गुरुगीतायाम् | पिण्डं कुण्डलिनीशक्तिः पदं हंसः प्रकीर्त्तितः | रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् || नवचक्रेश्वरे || यो वा पराञ्च पश्यन्तीं मध्यमामपि वैखरीम् | चतुष्टयं विजानाति स गुरुः परिकीर्त्तितः || इति गुरुविशेषलक्षणम् || रुद्रजामले उत्तरखण्डे प्रथमपटले || गुरुमूलं जगत् सर्वं गुरुमूलं परं तपः | गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी || मुण्डमालातन्त्र प्रथमपटले || गुरुरेकः शिवः साक्षात् गुरुः सर्वार्थसाधकः | गुरुरेव परं तत्त्वं सर्वं गुरुमयं जगत् | विना गुरुप्रसादेन कोटिपुरश्चरणेन किम् | प्. १७४) पिञ्छिलातन्त्रे पूर्वखण्डे प्रथमपटलेऽपि | गुरुमूलमिदं शास्त्रं नान्यः शिवतमः प्रभुः | अत-एव महेशानि ! यत्नतो गुरुमाश्रयेत् || इति गुरुमाहात्म्यम् || रुद्रजामले पूर्वखण्डे चतुर्दशपटले || गुरुं विना यस्तु मूढः पुस्तकादिविलोकनात् | जपबन्धं समाप्नोति किल्विषं परमेश्वरि ! | न माता न पिता भ्राता तस्य को वा गतिः प्रिये ! | गुरुरेको वरारोहे ! पापं नाशयति क्षणात् | गुरुं विना यतस्तन्त्रे नाधिकारः कथञ्चन | अत - एव प्रयत्नेन गुरुः कर्त्तव्य उत्तमः || इति शास्त्रे गुरोरावश्यकत्वम् | जामले || गुरुरेकः शिवः प्रोक्तः सोऽहं देवि ! न संशयः | गुरुस्त्वमपि देवेशि ! मन्त्रोऽपि गुरुरुच्यते | अतो मन्त्रे गुरौ देवे न हि भेदः प्रजायते | कदाचित् ससहस्रारे पद्मे ध्येयो गुरुः सदा | कदाचित् हृदयाम्भोजे कदाचिदृष्टिगोचरे || मुण्डमालातन्त्रे || देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया | तदा सिद्धो भवेन्मन्त्रः प्रकटे हानिरेव च || पार्वत्युवाच || ऐक्यज्ञानं महादेव ! कथमुत्पद्यते प्रभो ! | नराकृतिं गुरुं मन्ये देवता ध्यानरूपिणी | मन्त्रश्चाक्षररूपो हि कथमैक्यं भवेच्छिव ! || शिव उवाच || एकजातिस्वरूपेण स्वभावादेकजन्मतः | एतेषां भावयोगे तु एकसाधनमेव हि | गुरोर्जातश्च मन्त्रश्च मन्त्राज्जाता तु देवता | अत - एव वरारोहे ! देवतायाः पितामहः | पितुश्च भावनाद्देवि ! यथा चैव पितुः पितुः | तदुद्भवस्तोषमेति विपरीते विपर्यययः || अयमभिप्रायः | एकजातिस्वरूपेणेति निराकारस्वरूपेणेति तात्पर्ययम् || तथा हि महाकालस्यैव गुरुत्वेन वक्ष्यमाणत्वान्मन्त्रस्य ध्वनिमयत्वाद्देवताया आकारस्य कल्पितत्वाच्च त्रयाणां निराकारत्वमवगन्तव्यम् | एकप्रकारसाधनत्वेनेति वा | गुरोर्जातश्च मन्त्रश्चेत्यनेन यथा पुत्रपौत्राभ्यां पितुरंशजत्वेनैक्यं तथा गुरुमन्त्रदेवतानामिति मन्तत्रयेणैक्यं दर्शितम् || यद्वामातृकाभेदतन्त्रे दशमपटले || प्. १७५) श्रीदेव्युवाच || नराकृतिं गुरुं नाथ ! मन्त्रवर्णात्मकं सदा | ध्यानानुरूपिणं देवमेकत्वं वा कथं वद || श्रीशिव उवाच || गुरुवक्त्रान्महामन्त्रो लभ्यते साधकोत्तमैः | यद्देवाज्जायते वीजस्तस्य मुक्तिर्भवेद्ध्रुवम् | देवतायाः शरीरं हि वीजादुत्पद्यते प्रिये ! | गुरोराज्ञानुसारेण चान्यमूर्त्तिस्तु जायते | गुर्वादिभावनाद्देवि ! भावसिद्धिः प्रजायते | अत - एव महेशानि ! चैकत्वं परिकथ्यते || मुण्डमालातन्त्रे || मन्त्रे वा गुरुदेवे वा न भेदं यस्तु कल्पते | तस्य तुष्टा जगद्धात्री किन्न दद्याद्दिने दिने || इति गुरुमन्त्रदेवतानामेकत्वप्रकारकथनम् || गुरुतन्त्रे || गुरुः कर्ता गुरुर्हर्ता गुरुः पाता महीतले | गुरुसन्तोषमात्रेण तुष्टाः स्युः सर्वदेवताः | वामकेश्वरतन्त्रे एकपञ्चाशत्पटलेऽप्येतद्वचनम् | किन्तु पातेत्यत्र गुरुर्दातेति पाठः | गुरौ तुष्टे शिवस्तुष्टो रुष्टे रुष्टस्त्रिलोचनः | गुरौ तुष्टे शिवा तुष्टा रुष्टे रुष्टा च सुन्दरी | अतो गुरुर्महेशानि ! संसारार्णवलङ्घने | कर्त्ता पाता च हर्त्ता च गुरुर्मोक्षप्रदायकः || इति गुरुतुष्ट्यादिफलम् || शाक्तानन्दतरङ्गिणीधृतरुद्रजामले | गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः | उकारः शम्भुरित्युक्तस्त्रितयात्मा गुरुः स्मृतः || कङ्कालमालिनीतन्त्रे प्रथमपटले || निर्गुणञ्च परंब्रह्म गुरुरित्यक्षरद्वयम् | महामन्त्रं महादेवि ! गोपनीयं परात्परम् || गुरुतन्त्रे || गुरुरित्यक्षरं यस्य जिह्वाग्रे देवि ! वर्त्तते | तस्य किं विद्यते मोहः पाठैर्वेदस्य किं वृथा | गकारोच्चारणमात्रेण ब्रह्महत्या व्यपोहति | उकारोच्चारमात्रेण मुच्यते जन्मपातकात् | रेफोच्चारणमात्रेण उकारोच्चारणात् पुनः | विसर्गोच्चारणात् कोटिजन्मजं पातकं हरेत् | गुरुरित्यक्षरं देवि ! जपतो मम निश्चितम् | ब्रह्महत्या पुरा मुक्ता सत्यमेतन्न संशयः | परशुरामो मातृबधात् देवेन्द्रो ब्रह्महिंसनात् || पातकादपि मुक्तोऽभूत् गुरोरुच्चारमात्रतः || प्. १७६) इति गुरुशब्दोच्चारणफलम् || तत्रैव || ब्रह्मा विष्णुश्च रुद्रश्च पार्वती परमेश्वरी | इन्द्रादयस्तथा देवा यक्षाद्याः पितृदेवताः | गङ्गाद्याः सरितः सर्वा गन्धर्वाः सर्पजातयः | स्थावरा जङ्गमाश्चान्ये पर्वताः सार्वभौतिकाः | एते चान्ये च तिष्ठन्ति नित्यं गुरुकलेवरे | श्रीगुरोस्तृप्तिमात्रेण तृप्तिरेषाञ्च जायते || इति गुरौ तृप्ते जगत्तृप्तिकथनम् || तत्रैव || न गुरोरधिकं शास्त्रं न गोरोरधिकं तपः | न गुरोरधिको मन्त्रो न गुरोरधिकं फलम् | न गुरोरधिका देवि न गुरोरधिकः शिवः | न गुरोरधिका मूर्त्तिर्न गुरोरधिको जपः || विश्वसारतन्त्रीयगुरुगीतायाम् || गुरोर्मूर्त्तेः सदा ध्यानं गुरोस्तत्त्वं सदा जपेत् | काशीक्षेत्रं निवासोऽस्य जाह्नवी चरणोदकम् | गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम् | तथा | ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् | मन्त्रमूलं गुरोर्वाक्यं सिद्धिमूलं गुरोः कृपा | तथा | मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि | कालमृत्युभयाच्चा?पि गुरूरक्षति पार्वति ! || गुप्तसाधनतन्त्रे द्वितीयपटले || गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः | गुरुस्तीर्थं गुरुर्यज्ञो गुरुर्दानं गुरुस्तपः | गुरुरग्निर्गुरुः सूर्ययः सर्वं गुरुमयं जगत् || इति सर्वेभ्यो गुरोराधिक्यकथनम् || किं दानेन किं तपसा किमन्यत्तीर्थसेवया | श्रीगुरोरर्च्चितौ येन पादौ तेनार्च्चितं जगत् | ब्रह्माण्डभाण्डमध्ये तु यानि तीर्थानि सन्ति वै | गुरोः पादतले तानि निवसन्ति हि सन्ततम् | इत्यनेन गुरुपादार्च्चनवशात् विश्वपूजासिद्धिः स्पष्टमवगम्यते || इति गुरुपूजने जगत् पूजनसिद्धिकथनम् || पिञ्छिलातन्त्रे || गुरुस्तु द्विविधः प्रोक्तो दीक्षाशिक्षाप्रभेदतः | आदौ दीक्षागुरुः प्रोक्तः शेषे शिक्षागुरुर्मतः | यन्मुखात्तु महामन्त्रः श्रूयतेऽभ्यस्यतेऽपि वा | स गुरुः परमो ज्ञेयस्तदाज्ञा सिद्धिदायिनी | कुलमूलावतारकल्पसूत्रटीकाधृतकुलागमे || प्. १७७) प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा | शिक्षको बोधकश्चैव षडेते गुरवः स्मृताः | पञ्चैते कार्ययभूता स्युः कारणं बोधको भवेत् || इति गुरुभेदकथनम् | तहा | तत्त्वज्ञैरुपदिष्टा ये तत्त्वज्ञास्ते न संशयः | पशुभिश्चोपदिष्टा ये देवि ! ते पशवः स्मृताः | अभिज्ञश्चोद्धरेन्मूर्खं न मूर्खो मूर्खमुद्धरेत् | शिलां सन्तारयेल्लौहो न शिला तारयेच्छिलाम् || अत-एव गुरुतन्त्रे || गुरवो बहवः सन्ति शिष्यवितापहारकाः | तमेकं दुर्लभं मन्ये शिष्यहृत्तापनाशकम् | एकः श्रेष्ठो भवेत्तेषां भुक्तिमुक्तिप्रदायकः | इति तत्त्वज्ञगुरुकरणवीजम् || योगिनीतन्त्रे पूर्वखण्डे प्रथमपटले || श्रीदेव्युवाच || गुरुः को वां महेशान ! वद मे करुणामय ! | त्वत्तोऽप्यधिक एवायं गुरुस्त्वया प्रकीर्त्तितः | श्री-ईश्वर उवाच || आदिनाथो महादेवि ! महाकालो हि यः स्मृतः | गुरुः स एव देवेशि ! सर्वमन्त्रेषु नापरः | शैवे शाक्ते वैष्णवे च गाणपत्ये तथैन्दवे | महाशैवे च सौरे च स गुरुर्नात्र संशयः | मन्त्रवक्ता स एव स्यान्नापरः परमेश्वरि ! | मन्त्रप्रदानकाले हि मानुषे गिरिनन्दिनि ! | अधिष्ठानं भवेत्तस्य महाकालस्य शङ्करि ! | अतो न गुरुता देवि ! मानुषे नात्र संशयः | मन्त्रदाता शिवः पद्मे यद्ध्यानं कुरुते गुरोः | तद्ध्याननं कुरुते देवि ! शिष्योऽपि शीर्षशङ्कजे | तद्ध्यानं शिष्यशिरसि चोपदिष्टं न चान्यथा | इति कामाख्यातन्त्रे तृतीयपटले शेषार्द्धम् || अत-एव महेशानि ! एक एव गुरुः स्मृतः | अधिष्ठानवशात्तस्य मानुषस्य महेश्वरि ! | माहात्म्यं कीर्त्तितं तस्य सर्वशास्त्रेषु शङ्करि ! || कामाख्यातन्त्रे तृतीयपटलेऽपि || अत-एव महेशानि ! कृतो हि मानुषो गुरुः | मानुषे गुरुता देवि ! कल्पना न तु मुख्यतः | मोक्षो न जायते देवि ! मानुषे गुरुभावनादिति || तथा | अत-एव गुरुर्नैव मनुजः किन्तु कल्पना | दीक्षादौ साधकानाञ्च वृक्षादौ पूजनं यथा | प्. १७८) ननु यदि मानुषश्चेन्न गुरुस्तदा | अविद्यो वा सविद्यो वा गुरुः परमदैवतम् | इत्यादितन्त्रसारधृतवचनस्य का गतिरिति चेत् सत्यं प्रागुक्तवृक्षादिवन्माननीयत्वेनोक्तम् | न तु वस्तुतस्तथात्वे वक्ष्यमाणगुरौ मनुष्यबुद्धीत्यादिवचनं गुरौ मनुष्यताबुद्धिमित्यादितन्त्रसारकारधृतञ्च न सङ्गच्छते | घटस्य छिद्रव्रणादिदोषवन्महापातकादिदोषो मनुष्यस्य इति सुधीभिर्ध्येयम् || गुरुतन्त्रेऽपि || एक एव गुरुर्देवि ! सर्वत्र परिगीयते | भेदस्तस्य न कर्त्तव्यः सर्वं गुरुमयं जगत् || इति वचनाद्गुरोर्नित्यत्वेन गुरुमरणे त्रिरात्राशौचमिति वदन्तो मूर्खा एव | अशौचादेः स्मृत्युक्तत्वेन गुरुमरणाशौचं स्मृत्युक्तगुरुपरं वैदिकगुरुपरं वा | यदि च मत्स्यसूक्तादिवचनानुसारेण तान्त्रिकगुरुपरमप्यङ्गीकुर्वते | तदपि कुलागमप्रोक्तप्रेरकादिगुरुपरम् | पश्वाचारयुक्तशिष्यस्य कर्त्तव्यत्वेनोक्तं वेति केचित् | न तु बोधकगुरुपरमिति सुधीभिर्येयम् | विशेषं शृणु वक्ष्यामि माहात्म्यं गुरुगोचरम् | पशुमन्त्रप्रदाने तु मर्ययादा दशपौरुषी | वीरमन्त्रप्रदाने तु पञ्चविंशतिपौरुषी | महाविद्यासु सर्वासु पञ्चाशत्पौरुषी मता | ब्रह्मयोगप्रदाने तु मर्यादा शतपौरुषी | अयमभिप्रायः | पाश्वाचारादिमतप्रदेयमन्त्रो यदि शिष्येण गुरुतो गृहीतस्तदनन्तरं शिष्यसन्तत्या गुर्वन्तराद् यदि मन्त्रो गृहीतस्तथापि पैतृकगुरुत्यागजन्यदुरदृष्टशालिना पैतृकनुरुदशमादिवंशपर्ययन्तं स्वीयदशमादिवंशावधिकेन गुरुवन्मर्ययादा कार्यया | अन्यथा प्रत्येकेन प्रत्येकतो यदि मन्त्रो गृह्यते तदा तेषां सर्वेषां गुरुतया वंशमर्ययादाकल्पनमनर्थकं स्यादिति त्यक्तगुरुवंशमर्ययादाकथनम् | यद्वा वक्ष्यमाणकामाख्यातन्त्रोक्तवचनेन लुब्धदुष्टादिगुरुत्यागस्य वैधत्वेन यदि शिष्येण स गुरुस्त्यज्यते तथापि तद्वंशमर्ययादार्थमेतदुक्तम् | दिव्यवीरगुर्वोरपि दोषदुष्टत्वे स्थाज्य?त्वं वक्ष्यते | प्. १७९) एवञ्च गुरुत्यागाद्भवेन्मृत्युरित्यादितन्त्रसारकारधृत- वचनमदुष्टादिगुरुत्यागे बोध्यम् || शाक्तानन्दतरङ्गिणीधृतमहिषमर्दिनीतन्त्रे || मानवस्य महेशानि ! सङ्क्षेपात्विगदामि ते | गुरुः परगुरुश्चैव परापरगुरुस्तथा | श्वगुरुः परमेशानि ! साक्षाद्वश्च न संशयः | तत्पिता परमगुरुः स्वयं विष्णुः क्षितौ सदा | तत्पिता परापरगुरुर्महेश्वरसमः सदा | वृहन्नीलतन्त्रे द्वितीयपटले तु || परापरगुरूणाञ्च निर्णयं शृणु पार्वति ! | आदौ सर्वत्र देवेशि ! मन्त्रदः परमो गुरुः | परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः || कुलार्णवतन्त्रे | पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये ! | सर्वं गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा || पारम्पर्ययशब्दव्युत्पत्तिस्तु सप्तदशोल्लासे || पाशच्छेदकराद्देवि ! रञ्जनात्परतेजसः | जातिभिश्छिद्यमानाच्च पारम्पर्ययमितीरितम् || अथ स्त्रीगुरुलक्षणम् || रुद्रजामले उत्तरखण्डद्वितीयपटलपूर्वखण्डपञ्चदशपटलयोः || साध्वीचैव सदाचारा गुरुभक्ता जितेन्द्रिया | सर्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता | सर्वलक्षणसम्पन्ना रूषिका पद्मलोचना | रत्नालङ्कारसंयुक्ता स्वर्णाभरणभूषिता | शान्ता कुलीना कुलजा चन्द्रास्या सर्वबुद्धिगा | अनन्तगुणसम्पन्ना रुद्रत्वदायिनी प्रिया | गुरुरूपा शक्तिदात्री शिवज्ञानविरूपिणी | गुरुयोग्या भवेत् सा हि विधवा परिवर्जिता | स्त्रिया दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता | पुत्त्रिणी विधवा ग्राह्या केवलानन्दकारिणी | सिद्धमन्त्रं यदि तदा गृह्णीयाद्विधबामुखे | केवलं सुफलं तत्र मातुरष्टगुणं स्मृतम् | स्वयं वा स्वप्नविलये ददाति यदि मन्मनुम् | तत्राष्टगुणमाप्नोति यदि सा पुत्रिणी सती | यदि माता स्वीयमन्त्रं ददाति तनुजाय च | तदाष्टसिद्धिमाप्नोति भक्तिमार्गे न संशयः | तदेव दुर्लभं देव ! यदि मात्रा प्रदीयते | प्. १८०) आदौ भक्तिं ततो मुक्तिं सम्प्राप्य कामरूपधृक् | सहस्रकोटिविद्यार्थं जानाति नात्र संशयः | स्वप्ने वा यदि वा माता ददाति च स्वमन्त्रकम् | पुनर्दीक्षां सोऽपि कृत्वा दानवत्वमवाप्नुयात् | यदि भास्यवशेनैव जननीच्छानुवर्त्तिनी | तदा सिद्धिमवाप्नोति तत्र मन्त्रं विचारयेत् | स्वीयमन्त्रोपदेशेन न कुर्ययाद्गुरुचिन्तनम् || इति स्त्रीगुरुकथनम् || गुरौ कर्त्तव्ये वर्ज्जनीयमाह रुद्रजामलीयोत्तरखण्डीयद्वितीय- पटलपूर्वखण्डीयपञ्चदशपटलयोः || वर्ज्जयेच्च परानन्दरहितं रूपवर्ज्जितम् | निन्दितं रोगिणं क्रूरं महापातकिनं गुरुम् | अष्टप्रकारकुष्ठे च गलत्कुष्ठिनमेव च | श्वित्रिणं जनहिंसार्थं सदार्थग्राहिणं तथा | स्वर्णविक्रयिणं चौरं बुद्धिहीनं सुखर्वरम् | श्यावदन्तं कुलाचाररहितं शान्तिवर्ज्जितम् | सकलङ्कं नेत्ररोगपीडितं परदारगम् | असंस्कारप्रवक्तारं स्त्रीजितञ्चाधिकाङ्कम् | कपटात्मानमेवञ्च विशिष्टं बहुजल्पकम् | बह्वाशिनं हि कृपणं मिथ्यावादिनमेव च | अशान्तं भावहीनञ्च पञ्चाचारविवर्जितम् | दोषजालैः पूजिताङ्गं पूजयेन्न गुरुं विना | गुरुं विना न पूजयेदित्यभिधानात् गुरौ कृते यः कुष्ठादिदोषदुष्टो भवति तं पूजयेत् | गुरुकरणसमये तु यः कुष्ठादिस्तं वर्जयेदिति वचनस्य तात्पर्ययम् | तच्चोक्तं महापातकिनं गुरुं वर्जयेदिति तदपि भाविनि भूतवदुपचार इति कर्त्तव्यगुरुपरमन्यथा पूर्वापरलिखितैकग्रन्थयोर्वैषम्यं स्यात् || निरुत्तरतन्त्रे द्वादशपटले || पशुं शठञ्च धूर्त्तञ्च चुम्बकञ्च विशेषतः | धर्मार्थकाममोक्षार्थी गुरत्वेन न चार्च्चयेत् || जामले पूर्वखण्डे पञ्चदशपटले तु || गुरोर्विचारः सर्वत्र तातमातामहं विना | प्रमादाच्च यदा ताभ्यां दीक्षाविधिमुपाचरेत् | प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् | सावित्री मन्त्रजापञ्च लक्षसंख्यं जगत्पतेः | प्. १८१) विष्णोर्वा प्रणवं लक्षं प्रायश्चित्तमिति स्मृतम् | अशक्तश्चेन्महादेवि ! चायुतं प्रजपेन्मनुम् | दशसाहस्र्यजप्येन सर्वकिल्विषनाशिनी | गायत्री छन्दसां माता पापराशितुलानलः | कठिनञ्च रिपुञ्चैव सोदरं वैरिपक्षिणम् | मातामहञ्च पितरं यतिनं वनवासिनम् | वर्ज्जयित्वा च शिष्येन्द्रो दीक्षाविधिमुदाचरेत् | अन्यथा तद्विरोधेन कायनाशो भवेद्ध्रुवम् | सिद्धमन्त्रञ्च गृह्णीयाद्दुष्कुलादपि भैरवि ! | स्वप्ने तु नियमो नास्ति दीक्षासु गुरुशिष्ययोः | स्वप्नलब्धे स्त्रिया दत्ते संस्कारेणैव शुध्यति || राघवभट्टधृतमहाकपिलपञ्चरात्रे || नातिबालो न वृद्धश्च न खञ्जो न कृशस्तथा | नाधिकाङ्गो न हीनाङ्गो न खल्वाटो न दन्तुरः | वीरमित्रोदयधृतकल्पचिन्तामणौ || क्षयरोगी च दुश्चर्मा कुनखी श्यावदन्तकः | कर्णान्धः कुसुमाक्षश्च खल्वाटः खञ्जरीटकः || कर्णान्धो वधिरः | खञ्जरीटः खञ्जः || अङ्गहीनोऽतिरिक्ताङ्गः पिङ्गाक्षः पूतिनासिकः | वृद्धाण्डो वामनः कुब्जः श्वित्री चैव नपुंसकः | पूतिनासिको दुर्गन्धिनासिकः | इत्याद्यैर्देहजैर्दोषैः संयुक्तो निन्दितो गुरुः | संस्काररहितो मूर्खो वेदशास्त्रविवर्जितः | श्रौतस्मार्त्तक्रियाशून्यः शुष्कभाषः सुकुत्सितः | पुरयाजनजीवी च नरो वैद्यश्च कामुकः | क्रूरो दम्भी मत्सरी च व्यसनी कृपणः खलः | कुसङ्गी नास्तिको भीतो महापातकचिह्नितः | देवाग्निगुरुविद्यादिपूजाविधिपराङ्मुखः | सन्ध्यातर्पणपूजादिमन्त्रज्ञानविवर्ज्जितः | आलस्योपहतो भोगी धर्म्महीन उपश्रुतः | इत्याद्यैर्बहुभिर्दोषैरागमोक्तैश्च यत्नतः | वर्जनीयो गुरुः प्राज्ञैर्दीक्षासु स्थापनादिषु || मत्स्यसूक्ते त्रयोदशपटले || अपुत्रश्चासुतपत्नीकः शक्तिहीनोऽथ वामनः | कुब्जः कुष्ठः श्यावदन्तो वृषलीपतिरेव च | मातामहस्यानुजस्य सोदरस्य तथैव च | पित्रोर्मन्त्रं न गृह्णीयात्तथा चैवाश्रितस्य च | प्. १८२) कदाचिद्यदि गृह्णाति पुनः संस्कारमर्हति || त्याज्यगुरुसाह कामाख्यायां तृतीयपटले || मानुषे गुरुत्वस्य कल्पनामात्रमुक्त्वा | यथा भोक्त्रे तु भोज्यं हि स्वर्णादिपात्रके न च | दीयते च यथा देवि ! तस्मै सर्वसमर्पणम् | यदि निन्द्यञ्च तत्पात्रं स्वर्णं वापि कुलेश्वरि ! | तदा त्यजेत्तु तत्पात्रमन्यपात्रेण भोजयेत् | अतो हि मनुजं लुब्धं दुष्टं शिष्यो हि सन्त्यजेत् | सर्वेषां भुवने सत्यं ज्ञानाय गुरुरेव हि | ज्ञानान्मोक्षमवाप्नोति तस्माज्ज्ञानं परात्परम् | अतो यो ज्ञानदानं हि न क्षमेत्तं त्यजेद्गुरुम् | अन्नाकाङ्क्षी निरन्नं हि यथा सन्त्यजति प्रिये ! | ज्ञानं तत्र समाभाति स गुरुः शिव एव हि | अ ज्ञानिनं वर्ज्जयित्वा शरणं ज्ञानिनां व्रजेत् | मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् | ज्ञानलुब्दस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् || तथा | पूर्वोक्तदोषयुक्तश्चेद्दिव्यो वा वीर एव वा | तयोरपि न कर्त्तव्या शिष्येण गुरुभावना | किन्तु कार्यय हितैषित्वं गुरुताकल्पनं त्यजेत् || कौलानान्तु तत्रैव || महाविद्यां सम्प्रदाय वीराचारं ददाति न | स याति नरकं घोरं शिष्योऽपि पतितो भवेत् | पशुभावे स्थितो यो हि कालिकातारिणीमनुम् | दत्त्वाचारं वदेन्नैव नरकान्न निवर्त्तते | तस्मात् पशुगुरुस्त्याज्यः साधकैः सर्वदा प्रिये ! | यदि दैवात् पशोर्दीक्षां लभते शाक्त एव च | कौलात्तु कौलिकीं कृत्वा तन्मनुं पुनरालभेत् || इत्युक्तवचनादभिषेकादिना पुनर्गुरुः करणीय इत्यग्रेऽपि वक्ष्यते || गुरुता शिष्यत्वापेक्षणीत्यतो गुरुप्रकरणानन्तरं शिष्यप्रकरणमुच्यते || तत्र शिष्यशब्दव्युत्पत्तिस्तु कुलार्णवे पञ्चमखण्डे सप्तदशोल्लासे || शरीरमथ प्राणांश्च सद्गुरुभ्यो निवेद्य यः | गुरुभ्यः शिष्यतो योगं शिष्य इत्यभिधीयते || अथ शिष्यलक्षणम् | रुद्रजामले उत्तरखण्डे द्वितीयपटले || गुरुलक्षणमुक्त्वा | शिष्यस्तु तादृशो भूत्वा सद्गुरुं पर्ययुपाश्रयेत् || प्. १८३) कुलमूलावतारकल्पसूत्रटीकायाम् | चतुर्भिराद्यैः संयुक्तः श्रद्धावान् सुस्थिराशयः | अलुब्धः स्थिरगात्रश्च प्रेक्षाकारी जितेन्द्रियः | आस्तिको दृढभक्तिश्च गुरौ मन्त्रे च दैवते | एवंविधो भवेत् शिष्यस्त्वितरो दुःखकृद्गुरोः || चतुर्भिराद्यैः संयुक्तः शमादिचतुष्कयुक्त इत्यर्थः || शारदातिलके द्वितीयपटले || शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः | अधीतवेदः कुशलो दूरमुक्तमनोभवः | हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तनास्तिकः | स्वधर्म्मनिरतो भक्त्या पितृमातृहितोद्यतः | वाङ्मनःकायवसुभिर्गुरुशुश्रूषणे रतः | एतादृशगुणोपेतः शिष्यो भवति नापरः | समाचारतन्त्रे द्वीइयपटले || शिष्योऽपि स्वगुणैर्युक्तो गुरुभक्तिरतः सदा | धर्मकामादिसंयुक्तो गुरुमन्त्रपरायणः | सत्यबुद्धिर्गुरोर्मन्त्रे देवपूजनतत्परः | गुरूपदिष्टमार्गे च सत्यबुद्धिरुदारधीः | एवंलक्षणसंयुक्तः शिष्यश्चापि परीक्षितः || मत्स्यसूक्ते महातन्त्रे त्रयोदशपटलेऽपि | शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः | अधीतवेदः कुशलो दूरमुक्तमनोभवः | हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तनास्तिकः | स्वधर्मनिरतो भक्त्या पितृमातृहितोद्यतः | वाङ्मनःकायवसुभिर्गुरुशुश्रूषणे रतः | एतादृशगुणोपेतः शिष्यो भवति शङ्करि ! || इति शिष्यलक्षणम् || रुद्रजामलीयगुरुमाननादिप्रकारविधायकानि | गुरुः पितेत्यादिजन्महेतुरित्यादि | सद्गुरुः स्वाश्रितमित्यादिवचनान्यस्मदत्यतिवृद्धप्रपितामह-कृष्णानन्दागमवागीशेन स्वकृततन्त्रसारे लिखितान्यतो नैवात्र प्रयोजनमिति || वर्ज्यशिष्यमाह रुद्रजामलपूर्वखण्डपञ्चदशपटलोत्तर-खण्डद्वितीयपटलयोः || कामुकं कुटिलं लोकनिन्दितं सत्यवर्ज्जितम् | अविनीतमसमर्थं प्रजाहीनं रिपुप्रियम् | सदा पापक्रियायुक्तं विद्याशून्यं जडात्मकम् | प्. १८४) कलिदोषसमूहाङ्गं वेदक्रियाविवर्जितम् | आश्रमाचारहीनञ्चाशुद्धान्तःकरणोद्यतम् | सदा श्रद्धाविरहितमधमं क्रोधिनं भ्रमम् | असच्चरित्रं विगुणं परदारातुरं तथा | सम्बद्धाङ्गं समूहोग्रमभक्तं द्वैतचेतसम् | नानानिन्दावृताङ्गञ्च तं शिष्यं वर्जयेद्गुरुः || इति निन्द्यशिष्यलक्षणम् || जामले || यदि न त्यज्यते वीरो धनादिदानहेतुना | नारकी शिष्यवत् पापी तद्विशिष्टमवाप्नुयात् | क्षणादसिद्धः स भवेच्छिष्यासादितपातकैः | अकस्मान्नरकं प्राप्य कार्ययनाशाय केवलम् | विचार्यय यत्नाद्विधिवच्छिष्यसंग्रहमाचरेत् | अन्यथा शिष्यदोषेण नरकस्थो भवेद्गुरुः | इति वर्ज्यशिष्यकरणनिन्दा || शिष्यकर्त्तव्याकर्त्तव्ये उक्ते रुद्रजामले उत्तरखण्डे प्रथमपटले | यथा | न लङ्घयेद्गुरोराज्ञामुत्तरं न वदेत्तथा | दिवा रात्रौ गुरोराज्ञां दासवत् प्रतिपालयेत् || इति गुर्वाज्ञापालनविधिः || न शृणुयाद्गुरोर्वाक्यं शृणुयाद्वा पराङ्मुखः | अहितं वा हितं वापि रौरवं नरकं व्रजेत् | आज्ञाभङ्गं गुरोर्देवि ! यः करोति स मूढधीः | प्रयाति नरकं घोरं शूकरत्वमवाप्नुयात् || तथा एकविंशतिपटले || वृथा धर्मं वृथा चर्ययं वृथा दीक्षां वृथा तपः | वृथा सुकृतिमाख्यातिं गुर्वाज्ञालङ्घने नृणाम् || इति गुर्वाज्ञालङ्घनदोषः | द्वितीयपटले | आज्ञाभङ्गं तथा निन्दां गुरोरप्रियवर्णनम् | गुरुद्रोहञ्च यः कुर्यात्तत्संसर्गं न कारयेत् | कारयेत् इत्यत्र स्वार्थेणिच् न कुर्यादित्यर्थः | कुलार्णवे पञ्चमखण्डे एकादशोल्लासे || गुरुद्रव्याभिलाषी यो गुरुस्त्रीगमनोत्सुकः | स तिर्ययग्योनिमाप्नोति क्रव्याद्यैर्भक्ष्यते प्रिये ! || रुद्रजामले || गुरुद्रव्याभिलाषी च गुरुस्त्रीगो भवेद् यदि | पातकञ्च भवेत्तस्य प्रायश्चित्तं न कारयेत् || प्रायश्चित्तं न कारयेदित्यनेनात्यन्तनिषिद्धमिति ध्वनितम् || यथा | कामतो ब्राह्मणबधे निष्कृतिर्न विधीयते | इति मनुवचनतात्पर्ययमुक्तम् | प्. १८५) भविष्यपुराणे || कामतो ब्राह्मणबधे यदेतन्मनुनोदितम् | एकान्ततो विप्रबधवर्ज्जनार्थमुदीरितम् || जामले || गुरुं दुष्कृत्य रिपुवन्निर्गत्य परिवादतः | अरण्ये निर्जने देशे स भवेद्ब्रह्मराक्षसः || इति गुर्वनिष्टकरणदोषः | गुरुगीतायाम् || अशक्ता हि सुराः सर्वे अशक्ता मुनयस्तथा | गुरुशापमृताः क्षीणाः क्षयं यान्ति न संशयः || इति गुरुशापजन्यदोषः || रुद्रजामले पूर्वखण्डे चतुर्दशपटले || गुरोर्निन्दाञ्च पैशुन्यं यः शृणोति दिनान्तरे | तस्य तद्दिनजां पूजां न तु गृह्णाति सुन्दरी || इति गुरुनिन्दाश्रवणदोषः || कुलार्णवे द्वादशोल्लासे || यत्र श्रीगुरुनिन्दा स्यान्निधाय श्रवणे स्वके | सद्यस्तस्माद्विनिष्क्रमेद्दूरं न श्रवणं यथा | गुरोर्नाम स्मरेत् पश्चात् श्रवणे सायसिकिसा | इति गुरुनिन्दाश्रवणप्रतीकारः || जामले || गतश्रीश्च गतायुश्च गुरोर्निन्दाकरो नरः | कल्पकोटिशतं देवि ! नरके पतति ध्रुवम् || तथा | एवं श्रुत्वा महादेवि ! गुरुनिन्दां करोति यः | स याति नरकं घोरं यावच्चन्द्रदिवाकरौ || इति गुरुनिन्दाकरणे दोषः || गुरुतन्त्रे || गुरौ मनुष्यताबुद्धिः शिष्याणां यदि जायते | न हि तस्य भवेत् सिद्धिः कल्पकोटिशतैरपि || इति गुरौ मनुष्यज्ञानजन्यदोषकथनम् || कुलार्णवे || आज्ञाभङ्गोऽर्थहरणं गुरोरप्रियवर्णनम् | गुरद्रोहमिदं प्राहुर्यः कुर्ययात् स तु पातकी | गुरुकोपात्तु नाशः स्याद्गुरुद्रोहात्तु पातकम् | विमृत्युर्गुरुनिन्दायां गुर्वनिष्टान्महापदः | जीवेदग्निं प्रविष्टो वा नरः पीतविषोऽपि वा | मृत्युहस्तगतो वापि नापराधकरो गुरोः || इति गुर्वपराधादिदोषः || रुद्रजामले पूर्वखण्डे || गुरोस्तु सन्ततिं त्यक्त्वा न गुर्वन्तरमाश्रयेत् | गुरुनिन्दा न कर्त्तव्या न श्रोतव्या कदाचन || इति गुरुसन्ततित्यागनिषेधः || गुर्वादिमाननप्रकारश्च पुरश्चरणसोल्लासे दशमपटले || गुरुञ्च भावयेन्नित्यं सदा शिवमयं सदा | प्. १८६) गुरोः सुतञ्च चार्वङ्गि ! गणेशसदृशं सदा | गुरोः स्रुषा वरारोहे ! वाणी लक्ष्मीरिव प्रिये ! | गुरोः कुलं महेशानि ! भैरवाणां गणं यथा || कल्पसूत्रटीकाधृतकुलागमे शाक्तानन्दतरङ्गिण्याञ्च || गन्धैर्माल्यैश्च चार्वङ्गि ! पूजयेत् सर्वदा गुरुम् | गुरोः पत्नीं तथा देवि ! पूजयेद्विधिनामुना || गुरुपत्नीपदं गुरुयोषिदुपलक्षणम् | न तु पत्युर्नो यज्ञसम्बन्धे इति पाणिनिसूत्रानुसारेण विवाहसंस्कृतापरम् | सुत्रार्थस्तु पतिशब्दस्यान्ते नकारादेशो भवति यज्ञसम्बन्धे गम्यमाने | यज्ञशब्देनात्र विवाहाङ्गयज्ञ उच्यते | तथात्वे पञ्चविधगुरुयोषित्पूजाविधानं कुलार्णवोक्तमसङ्गतं स्यात्तथा च | कुलार्णवतन्त्रे पञ्चमखण्डे प्रथमोल्लासे || ऊढा धृता तथा क्रीता मूल्येन च समाहृता | सकृत् कामगता चापि पञ्चधा गुरुयोषितः | अलङ्घ्याः पूजनीयाश्चागम्याश्च गुरुयोषितः || वृहन्नीलतन्त्रे तृतीयपटले || गुरुपत्नी च युवती न संवाह्येत पादयोः | पुनर्विंशतिवर्षेण गुणदोषौ विजानता | अत-एव महेशानि ! न कुर्ययात् पादसेवनम् || कुलागमे || गुरुवद्गुरुपुत्रेषु गुरुवत्तत्सुतादिषु | पूजयेत् प्रत्यहं भक्त्या अमुना विधिना प्रिये ! || पूजाक्रमस्तु तत्रैव || गुरोरभावे चार्वङ्गि ! गुरुपत्नीं प्रपूजयेत् | अभावे अलाभे || तदभावे च चार्वङ्गि ! गुरुपुत्रं समर्चयेत् | तदभावे वरारोहे ! गुरुकन्याञ्च पूजयेत् | तदभावे च चार्वङ्गि ! गुरुस्नुषां प्रपूजयेत् | एषामभावे चार्वङ्गि ! गुरुगोत्रं प्रपूजयेत् | तदभावे वरारोहे ! तथा मातामहस्य च | मातुलं मातुलानीं वा पूजयेद्विधिनामुना || इति गुरुकुलपूजाक्रमकथनम् | तथा | पूजाकाले च चार्वङ्गि ! आगच्छेच्छिष्यमन्दिरे | गुरुर्वा गुरुपत्नी वा पुत्रो वापि समागतः | ज्येष्ठो वाप्यर्चनामध्ये शिष्यः सर्वार्चनां त्यजेत् | तमेव पूजयेच्छिष्य इति शास्त्रस्य निर्णयः || इति पूजाकाले गुर्वादावागते सति शिष्यकर्त्तव्यम् तत्रैव || प्. १८७) शिष्यस्य तद्दिनं देवि ! कोटिसूर्ययग्रहैः समम् | चन्द्रग्रहणकालं हि तद्दिनं वरवर्णिनि ! | गुरोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते | तत्क्षणाच्चञ्चलापाङ्गि ! दानं कुर्ययाद्विचक्षणः || इति गुरुदर्शनदिनप्रशंसा || गुरौ प्रीतिसमापन्ने देवता प्रीतिमाप्नुयात् | देवे च प्रीतिमापन्ने मन्त्रसिद्धिर्भवेद्ध्रुवम् || इति गुरुप्रीतिफलम् || मुण्डमालातन्त्रे || गुरुपूजां विना देवि ! इष्टपूजां करोति यः | मन्त्रस्य तस्य तेजांसि हरते भैरवः स्वयम् || रुद्रजामले || गुरुपूजां विना नाथ ! कोटिपुण्यं वृथावहम् | अतः सर्वजने ख्यातं गुरुणा सिद्धिमाप्नुयात् || राघवभट्टधृतम् || गुर्वनुक्ताः क्रियाः सुर्वा निष्फलाः स्युर्यतो ध्रुवम् | जपो होमार्च्चनविधिः कार्ययो दीक्षान्वितैस्ततः || तथा | प्रणम्य गुरुपादाब्जं ध्यात्वा च गुरुपादुकाम् | ज्ञात्वा परमतत्त्वं वै यो जपेत् कुलचण्डिकाम् | स कृतार्थः स धन्यश्च स कुलज्ञः स पण्डितः | स भावज्ञो महादेवि ! जायते नात्र संशयः || गुरुगीतायाम् || संसारसागरसमुद्धरणैकमन्त्रं ब्रह्मादिदेवमुनिसेवितसिद्धिमन्त्रम् | दारिद्र्यदुःखभयशोकविनाशमन्त्रं वन्दे महाभयहरं गुरुदेवमन्त्रम् || गुरुतन्त्रे || गुरोः सेवा गुरोर्ध्यानं गुरोः स्तोत्रं गुरोर्जपः | गुरोः पूजा गुरोस्तृप्तिर्गुरोर्भक्तिर्नृणां यदि | जन्मभाग्यवशाद्देवि ! येषां सञ्जायते क्वचित् | तेषां मन्त्रो भवेत् सिद्धो जीवन्मुक्ताश्च ते नराः | गुरोर्गेहे स्थितः शिष्यो यत् पुण्यं समुपाचरेत् | तत् पुण्यमक्षयं प्रोक्तं पुण्यतीर्थे शताधिकम् || इति गुरुगृहनिष्पादितपुण्यकर्मफलम् || तत्रैव || गुरोः पादरजो यस्तु सुधीर्मूर्द्धनि धारयेत् | स तीर्थकोटिजफलात् फलं दशगुणं लभेत् | गुरोः पादोदकं यस्तु नित्यं पिबति भक्तितः | सार्द्धत्रिकोटितीर्थानां फलं स लभते ध्रुवम् || गुप्तसाधनतन्त्रे || त्रिसन्ध्यं पिबते यस्तु गुरुपादोदकं सुधीः | प्. १८८) तस्य नास्ति पुनर्जन्म संसारे मोहवर्त्मनि | ब्रह्मा विष्णुश्च रुद्रश्च सर्वाश्च पितृदेवताः | तिष्ठति श्रीगुरोः वादपद्मार्च्चितजले शुभे | पुरोः पादोदकं यस्तु नित्यं पिबति मानुषः | धर्मार्थकाममोक्षाणामधिपो जायते च सः || योगिनीतन्त्रे || सुभक्त्या विगलत्पादप्रक्षालनजलं यदि | पिबेदमृतभावेन यः स देवीपुरं व्रजेत् || गुप्तसाधनतन्त्रे || गुरोः पादोदकं यस्तु शिरसा धारयेन्नरः | स सर्वतीर्थजं पुण्यं लभते नात्र संशयः || गुरुतन्त्रे || त्रिसन्ध्यं पूजयेद् यस्तु गन्धपुष्पैर्जगद्गुरुम् | तस्य किं मन्त्रपूजादिविधानैर्न्यासजापकैः | गुरोरन्नं महादेवि ! यस्तु भक्षणमाचरेत् | कोटिजन्मार्जितं पापं तत्क्षणात्तस्य नश्यति | न स्नानं पादशौचञ्च न चैवाचमनञ्चरेत् | प्राप्तिमात्रेण भोक्तव्यं नैव स्थानं विचारयेत् | न ब्राह्मण्यं न कौलीन्यं न जातीनां विचारणम् | न ज्ञातिसुतबन्धूनां सभ्यानां तत्र चिन्तनम् | एकस्थानस्थितं ह्यन्नं तत्तीर्थमण्डलीकृतम् | भोक्तव्यं मोक्षदं देवि ! शूद्रस्पृष्टं न चिन्तयेत् | गुरोरन्नं सुधाबुद्ध्या यस्त्वद्यान्मतिमान्नरः | शिवोऽपि तस्य देवेशि ! तुष्टो भवति नान्यथा | गुरोरुच्छिष्टकं देवि ! भक्तिमुक्तिप्रदं भवेत् | अवश्यम् वैष्णवैः शिष्येर्भोक्तव्यं तद्दिने दिने || योगिन्यां प्रथमपटले || गुरूच्छिष्टञ्च देवेशि ! तत्सुतोच्छिष्टमेव च | भोजनीयं न सन्देहो विकारश्चेदधोगतिः | तवोच्छिष्टं महादेवि ! ब्रह्मादीनां सुदुर्लभम् | गुरूच्छिष्टं तथा प्रोक्तं महापूतं परात्परम् | नन्वेतावता गुरुपत्न्युच्छिष्टं न भक्षणीयमिति चेन्न | गुरुपत्नी महेशानि ! गुरुरेव न संशय इत्येतद्वचनेन तस्या गुरुत्वेन गुरूच्छिष्टभोजनविधिना तदुच्छिष्टभोजनविधेः सिद्धत्वात् | गुरुणा गुरुपत्न्यः वा गुरुपुत्त्रेण वा प्रिये ! | सृष्टान्नं मुष्टिमात्रं वा योऽश्नीयाहर्षविंशतिम् | चिरजीवी जरारोगविमुक्तोऽसौ शिवो भवेत् || प्. १८९) गुरुतन्त्रे || गुरोरुच्छिष्टकैर्यस्तु सर्वाङ्गमनुलेपयेत् | वज्रोऽपि तस्य गात्राणि न भिनत्ति कदाचन | गुरोरुच्छिष्टमन्नं यो भक्षयेद्भक्तिंभावतः | अन्नपूर्णा जगद्धात्री तस्येश्वर्यं प्रयच्छति | इति गुरूच्छिष्टभोजनफलं तत्रैव || कदाचित् परमेशानि ! यदि तत्र भ्रमो भवेत् | न तस्य निष्कृतिर्दृष्टा कल्पकोटिशतैरपि | न भक्षयेद् यस्तु मोहाद्गुरोरुच्छिष्टकं प्रिये ! | तस्य क्रुद्धा भवेस्त्वं हि विपत्तिश्च पदे पदे || इति गुरूच्छिष्टाभक्षणजन्यदोषकथनम् || तत्रैव || पादुकां वसनं छत्रं शयनं भूषणादिकम् | दृष्ट्वा गुरोर्नमस्कुर्ययादात्मभोगं न कारयेत् || कुलार्णवे पञ्चमखण्डे द्वादशोल्लासे || पादुकामासनं छत्रं वाहनं वस्त्रचामरे | दृष्ट्वा गुरोर्नमस्कुर्यात् नात्मभोगाय कल्पयेत् | पादाप्रक्षालनं स्नानमभ्यङ्गं दन्तधावनम् | मूत्रनिष्ठीवनं क्षौरं शयनं स्त्रीनिषेवणम् | वीरासनञ्च दुर्वाक्यमासनं हास्यरोदनम् | केशमोचनमुष्णीषं कञ्चुकं लग्नतां तथा | पादप्रसारणं वादं कलहं दूषणं प्रिये ! | अङ्गभङ्गाङ्गवाद्यादिकरास्फालविधूननम् | द्यूतकुक्कुटमल्लादियुद्धमित्यादि चाम्बिके ! | गुरुसिद्धमहासिधपीठक्षेत्राश्रयेषु च | नाचरेदाचरेन्मोहात् देवताशापमाप्नुयात् | उपचारं विना विष्ठेद् गुर्वग्रे नेच्छया विशेत् || इति गुरुसमीपे महापीठादौ पादप्रक्षालनादिनिषेधः || योगिनीतन्त्रे पूर्वखण्डे प्रथमपटले || सुरां यद्यप्यसंस्कारां गुरोराज्ञावशात् पिबेत् | प्रायश्चित्तं न तत्रास्ति वेदेऽपि स्थितमेव हि | अपि तन्त्रविरुद्धं वा गुरुणा कथ्यते यदि | तत्सम्मतं भवेद्वेदैर्महारुद्रचचो यथा | इति गुर्वाज्ञया निषिद्धाचरणे दोषाभावः | निर्गतं यद् गुरोर्वक्त्रात् सर्वं शास्त्रं तदुच्यते | गुरुकार्यये स्वयं शक्तो नापरं प्रेरयेत् प्रिये ! | रुद्रजामले | बन्धुभृत्यपुरैर्भृत्यैः सहितोऽप्यतिभक्तिमान् | गच्छन् तिष्ठन् स्वपन् जाग्रत् जपन् जुह्वत् प्रपूजयेत् | प्. १९०) गुर्वाज्ञामेव कुर्वीत तद्गतेनान्तरात्मना | अभिमानो न कर्त्तव्यो जातिविद्याधनादभिः | सर्वदा सेवयेन्नित्यं शिष्यः श्रीगुरुसन्निधौ || इति गुर्वग्रे माननिषेधः || तत्रैव || सदा च पादुकामन्त्रं जिह्वाग्रे यस्य वर्त्तते | अनायासेनं धर्मार्थंकाममोक्षं लभेन्नरः || श्रीगुरोश्चरणाम्भोजं ध्यायेद् यश्च सदैवतम् | भुक्तये मुक्तये वीरो नान्यो भक्तस्ततोऽधिकः | विद्याङ्गमासनं मन्त्र मुद्रां तन्त्रादिकं प्रभो ! | सर्वं गुरुमुखाल्लब्धं सफलं नान्यथा भवेत् || वाक्यभेदेनान्वयः || कम्बले कमले वापि प्रासादे संस्थिते तथा | दीर्घकाष्ठे तथा पृष्ठे गुरोरेकासनं त्यजेत् | श्रीगुरोः पादुकामन्त्रं मूलमन्त्रं स्वपादुकाम् || शिष्याय नैव देवेश ! प्रवदेद्यस्य कस्यचित् | यद्यदात्महितं वस्तु तद्द्रव्यं नैव वञ्चयेत् | गुरोर्लब्धैकवर्णो यस्तस्य तुष्यामि सुव्रत ! | भक्त्या वित्तानुसारेण गुरुमुद्दिश्य यत् कृतम् | तयोरेव फलं देव ! तुल्यामाढ्यदरिद्रयोः | स्वल्पे महति वा पुण्यमिति तृतीयचरणे कुलार्णवे पञ्चमखण्डे द्वादसोल्लासे पाठः || सर्वस्वमपि यो दद्याद् गुरुभक्तिविवर्जितः | नरकं तदवाप्नोति भक्तिरेव हि कारणम् | कुलार्णवे तु | शिष्यो न फलमाप्नोति इति तृतीयचरणे पाठः | गुरुभक्त्या च शक्रत्वं मद्भक्त्या शूकरो भवेत् || गुरुं विना मययेव या भक्तिस्तयेति तात्पर्ययम् | गरुभक्तिपरं नास्ति सर्वशास्त्रेषु तत्त्वतः || इति गुरुभक्तिफलम् || धिग्धनं धिग्बलं तेषां धिक्कुलं धिग्विचेष्टितम् | तेषां नोत्पद्यते भक्तिर्गुरुदेवे महेश्वरि ! | इति भक्त्यनुत्पत्तौ दोषः | जामले || गुरुस्त्रीपुत्त्रबन्धूनां दोषं नैव प्रकाशयेत् | भक्षयेन्न च तद्द्रव्यं दत्तं नैव परित्यजेत् | गुरुगीतायाम् || गुरुणा दर्शिते मार्गे मनःशुद्धिञ्च कारयेत् | गुरुणा सदसद्वापि यदुक्तं तन्न लङ्घयेत् | गुरोरग्रे न वक्तव्यमसत्यञ्च कदाचन || पिच्छिलातन्त्रे || प्. १९१) पैत्रं गुरुकुलं यस्तु त्यजेद्वै धर्ममोहितः | स याति नरकं घोरं यावच्चन्द्रार्कतारकम् || कुलार्णवे पञ्चमखण्डे एकादशोल्लासे || ब्रह्मादिस्तम्बपर्यन्तं यस्य या गुरुसन्ततिः || तस्य मे सर्वशिष्यस्य कौलः पूज्यो महीतले | इति निश्चितबुद्धिर्यः स भवेदावयोः प्रियः || श्रीगुरुं कुलशास्त्राणि पूजास्थानानि यानि च | भक्त्या श्रीपूर्वकं देवि ! प्रणम्य च प्रकीर्त्तयेत् | गुरुं नाम्ना न भाषेत जपकालादृते प्रिये ! | श्रीनाथदेवस्वामीति विवादे साधने वदेत् | अथ गुरुशुश्रूषा | तथा द्वादशोल्लासे || आत्मार्थमान्यसद्भावैः शुश्रूषा स्याच्चतुर्विधाः | शुश्रूषया धिया देवि ! शिष्यः सन्तोषयेद्गुरुम् | पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् | केवलं गुरुशुश्रूषा त्वत्कृपाकारिणी प्रिये ! | मद्भक्तिसहिता चेत् सा सर्वकामफलप्रदा | क्षीयन्ते सर्वपापानि वर्द्धन्ते पुण्यराशयः | सिध्यन्ति सर्वकार्ययाणि गुरुशुश्रूषया प्रिये | यदात्महितं वस्तु तत्तद्वित्तमवञ्चयन् | गुरुदेवार्चको यस्तु तस्य पुण्यं न गण्यते | गुरुमित्रसुहृद्दासीदासाद्यान्नावमानयेत् | न निन्देदस्य समयान् वेदशास्त्रागमादिकान् | तथा | विविक्षुर्देशिकावासं सान्तचित्तोऽतिभक्तिमान् | वाहनं पादुकां छत्रं चामरं व्यजनादिकम् | ताम्बूलं वेशमुत्सृज्य प्रविशेच्च शनैः शनिः || देशिकव्युत्पत्तिस्तु सप्तदशोल्लासे || देवतारूपधारित्वाच्छिष्यानुग्रहकारणात् | करुणामयमूत्तित्वाद्देशिकः कथ्यते प्रिये ! || देशिकावासं गुर्वावासमित्यर्थः | तथा | रिक्तहस्तश्च नोपेयाद्राजानं दैवतं गुरुम् | फलपुष्पाम्बरादीनि यथाशक्त्या समर्पयेत् || इति श्रीप्राणतोषिण्यां द्वितीये धर्मकाण्डे गुरुशिष्यप्रकरणरूपशाखाद्वयकथनं नाम द्वितीयः परिच्छेदः | दरपतिजयचर्ययास्वरोदयधृतब्रह्मजामले || अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडिकम् | तत्र वेधवशाज्ज्ञेयं विवाहादिशुभाशुभम् | त्रिनाडीवेधनक्षत्रमश्विन्यार्द्रा युगोत्तरा | हस्तेन्द्रमूलवारुण्यः पूर्वाभाद्रपदास्तथा | याम्यः सौम्यो गुरुर्योनिश्चित्रामित्रजलाह्वयम् | धनिष्ठा चोत्तराभाद्रमध्यनाडी व्यस्थिता | कृत्तिका रोहिणी सर्पो मघा स्वातीविशाखके | उत्तरा श्रवणा पौष्यक्रोडनाडी व्यवस्थिता | अश्विन्यादिनाडीवेधर्क्षे षष्ठं द्वितीयकं क्रमात् | याम्यादितुर्ययं तुर्ययञ्च कृत्तिकादौ द्विषट्ककम् | एवं निरीक्षयेद्वेधं कन्यामन्त्रे गुरौ सुरे | पुण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे | एकनाडीस्थधिष्ण्याणि यदि स्युर्वरकन्ययोः | तदा वेधं विजानीयाद् गुर्वादिषु तथैव च | प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो व्यधः | प्रशस्तं जन्मभं यस्य तस्य नामर्क्षतो वदेत् | द्वयोर्जन्मभयोर्वेधे न कर्त्तव्यं कदाचन | एकनाडीस्थिता चेत् स्याद्भर्त्तृनाशाय चाङ्गना | एकनाडीस्थिता यत्र गुरुर्मन्त्रश्च देवता | तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् | प्रभुः पुण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम् | एकनाडीगता त्याज्या भव्या वेधविवर्ज्जिता || इत्यादिवचनाद् गुरुशिष्यमन्त्राणां नाडीनक्षत्रविचारोऽवश्यकरणीय इति || दीक्षायां कर्तव्यायां चक्रादिविचारस्यावश्यकत्वम् | तत्तु अस्मद्गोष्ठीगरिष्ठक्ष्णानन्दागमवागीशेन स्वकृततन्त्रसारे सर्वं लिखितमतो नात्र प्रयोजनम् || यत्तु नात्र सिद्धाद्यपेक्षास्तीत्यादिवचनमात्रप्रदर्शिभिरिदं प्रशंसापरं सर्वत्र विचारस्यावश्यकत्वमिति तन्त्रसारकारस्य स्वकपोलकल्पितमित्युपहसितम् | तैः रुद्रजामलोत्तरख्ण्डीयचतुर्थपटलाद्युक्तं न दृष्टं न श्रुतञ्च तद्यथा | कालीतारादिमन्त्रस्य सिद्धादीन्नैव शोधयेत् | तथापि शोधयेन्मन्त्रं प्रशंसापरमेव तत् | विचाराभावप्रतिपादकवचनमात्रं यत्यादिपरं न गृहस्थपरमित्यग्रे वक्ष्यते || प्. १९३) चक्रविचारप्रतिप्रसवस्त्वन्नदाकल्पे द्वितीयपटले उक्तो यथा || हरचक्रादिचक्रनरकमुक्त्वा || नवचक्रविशुद्धात्मा मन्त्रोऽभीष्टाय कल्प्यते | उपासिता यदि भवेत् पैतृकी पुरुषाःक्रमात् | तदा तद्ग्रहणे धीरो विचारं नैव कारयेत् | तत्तु मन्त्रञ्च वनिताश्रयेद्भाग्यवशाद्यदि | तदा भर्त्तुर्विचारेण विचारोऽस्या न तु स्वतः | कुलचक्रे समुत्पन्ने वीरान् माहेश्वरीमुखात् | कृपया दीयमानस्य विचारो नास्ति भैरव ! | स्वान्तःकरणवृत्तैर्वा यत्र श्रद्धा गरियसी | सैवोपास्या प्रयत्नेन विचारस्तत्र निष्फलः || दीक्षाकर्म्मणि मण्डपकरणस्यावश्यम्भावेन भूमिपरीक्षां विना मण्डपादिकरणनिषेधदर्शनेन चादौ भूमिपरीक्षोच्यते || तत्तु राघवघट्टधृतमहाकपिलपञ्चरात्रे || तत्र भूमीं परीक्षेत वास्तुतत्त्वविशारदः | स्फुटिता च सशल्या च वल्मीकारोहिणी तथा | दूरतः परिवर्ज्या भूः कर्त्तुरायुर्धनापहा || स्फुटिता चेत् चकारेणोषरेति न लभ्यते | स्फुटिता मरणं कुर्ययादूषरा धननाशिनी | सशल्या क्लेशदा नित्यं विषमा शत्रुतो भयम् || इति वर्जनीयभूमिकथनम् || तत्रैव || ईशकोणप्लवासा च कर्त्तुः श्रीदा मुनिश्चितम् | पूर्वप्लवा वृद्धिकरी धनदा तूत्तरप्लवा | विद्वेषं मरणं व्याधिं कुर्यादग्निप्लवा मही | धर्मराजप्लवा भूमिर्नित्यं मृत्युभयप्रदा | गृहक्षयकरी सा च भूमिर्या नै-ऋतप्लवा | धनहानिकरी पृथ्वी कीर्त्तिता वरुणप्लवा | वातप्लवा तथा भूमिर्नित्यमुद्वेगकारिणी | इति दिक्प्लवभूमिशुभाशुभे || तत्रैव | श्वेता तु ब्राह्मणी भूमिरक्ता वै क्षत्रिया स्मृता | वैश्या पीता तु विज्ञेया शूद्रा कृष्णा प्रकीर्त्तिता | ब्राह्मणी घृतगन्धा स्यात् क्षत्रिया रक्तगन्धिका | क्षीरगन्धा भवेद्वैश्या शूद्रा विड्गन्धिनी क्षितिः | मधुरा ब्राह्मणी भूमिः कषाया क्षत्रिया स्मृता | वैश्या तिक्ता च विज्ञेया शूद्रा स्यात् कटुका मही | प्. १९४) ब्राह्मणी भूः कुशोपेता क्षत्रिया स्याच्छवाकुला | कुशकाशाकुला वैश्या शूद्रा सर्वतृणाकुला || इति ब्राह्मण्यादि भूमिज्ञानकरणकथनम् तत्रैव | सिता पीता तथा रक्ता कृष्णवर्णसमन्विता | स्थिरोदका दृढा स्निग्धा भूमिः सर्वसुखावहा | शीतस्पर्शोष्णकाले च वह्निस्पर्शा हिमागमे | वर्षासु चोभयस्पर्शा सा शुभा परिकीर्त्तिता | तद्धृतहयशीर्षषञ्चरात्रेऽपि || सुरभीणां रतिर्यत्र सवत्सानां वृषैः सह | सुन्दरीणां रतिर्यत्र पुरुषैः सह सत्तमः ! | काश्मीरचन्दनामोदा कर्पूरागुरुगन्धिनी | कमलोत्पलगन्धा च जातिचम्पकगन्धिनी | पाटला मल्लिकागन्धा नागकेशरगन्धिनी | दधिक्षीराज्यगन्धाढ्या मंदिरासवगन्धिनी | सुगन्धिव्रीहिगन्धाढ्या शुभगन्धयुता च सा | सर्वेषामेव वर्णानां भूमिः साधारणी मता | इति शुभभूमिकथनम् | मदग्रजरामलोचनविद्याभूषणकृतवास्तुयागप्रदीपिका-धृतहयशीर्षपञ्चरात्रे || ज्ञात्वा भूमीं परीक्षेत पूर्वोदक्प्लवनां शुभाम् | असङ्कटां तथाच्छन्नां कृतैस्तोयपरिप्लुताम् | सम्पूर्यय मार्गे खाते तु तथाधिकमृदं शुभाम् | कुसुमप्रकरस्तद्वद्यस्यां न ग्लानिमृच्छति | न निर्वाति तथा दीपः शीघ्रं पुष्पं न शीर्यते | श्वेतारुणा पीतकृष्णा विप्रादीनां विशिष्यते || प्रशस्यते इत्यर्थः || त्याज्या भूमिः क्षारगन्धा पूतिगन्धा च या भवेत् | मधुरा च कषाया च अम्ला च कटुका च या | कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च सम्भृता | सम्भृता अत्यन्तसङ्कीर्णा || तथाधिकमृदमित्याद्युक्तविवरणमुक्तं प्रयोगसारे || वितस्तिमात्रविस्तारं निर्माय विवरं भुवि | निक्षिपेत्तां मृदं तस्मिन् तासु शिष्टासु शोभनम् | समासु मध्यमं विद्यान्नूनास्वधममुच्यते | परीक्ष्यैवं प्रयत्नेन त्यक्त्वा भूमीं कनीयसमीम् | अङ्गारतुषकेशास्थिहीनं कत्वाथ भूतलम् | अङ्गारेत्यादिनिषिद्धद्रव्यमात्रोपलक्षणम् | हीनं कृत्वेत्यनेन शल्योद्धारक्रमः सूचितः | प्. १९५) अकरणे दोषोऽपि | अतएव कुण्डकरणे दुष्टा || खन्यमाने यदा कुण्डे पाशो न प्राप्यते भुविम् | तदापमृत्यवे चास्थिकेशाङ्गारैर्धनक्षयः | भस्मनाग्निभयं प्रोक्तं तुषैः प्रोक्ता दरिद्रता | इति दुष्टफलमुपदर्शितवान् || शुभफलमपि स एव | गोशृङ्गं पीतमण्डूकः शङ्खः शूक्तिश्च कच्छपः | शम्बूकश्च प्रशस्ताः स्युर्ये चान्ये रत्नजातयः || अथ शल्योद्धारधनोद्धारौ || स्वरोदयधृतब्रह्मजामले || अहिचक्रं प्रवक्ष्यामि यथा सर्वज्ञभाषितम् | द्रव्यं शल्यं तथा शून्यं येन जानन्ति साधकाः | निधिर्निर्वर्त्तनैकस्थः सम्भ्रान्तो यत्र भूतले | तत चक्रमिदं स्थाप्यं स्थानद्वारमुपस्थितम् || ऊर्द्ध्वरेखाष्टकं लेख्यं तिर्ययक् पञ्च तथैव च | अहिचक्रं भवेत्येवमष्टाविंशतिकोष्ठकम् | तत्र पौष्णाश्वियाम्यर्क्षं कृत्तिकामघभाग्यभम् | उत्तराफाल्गुनी लेख्यं पूर्वपंक्त्या भसप्तकम् || अहिब्रध्नाजपा दक्षं पतभं ब्रह्मसर्पभम् | पुष्यं हस्तं समालेख्यं द्वितीयां पंक्तिमास्थितम् | अभिजिद्विष्णुवस्वृक्षं सौम्यं रौद्रपुनर्वसू | चित्रभञ्च तृतीयायां पंक्तौ धिष्ण्यस्य सप्तकम् | विश्वर्क्षं तोयभं मूलं ज्येष्ठा मैत्रं विशाखभम् | स्वातीं पंक्त्यां चतुर्थ्यान्तु कृत्वा चक्रं विलोकयेत् | एवं सञ्जायते चक्रं संस्थाने पन्नगाकृति | द्वारदेशे मघायाम्यौ द्वारस्था कृत्तिका मता | अश्वीशपूर्वाषाढादित्रिकपञ्चतुष्टयम् | पौष्णप्रौष्ठपदा चेन्दोर्भानि शेषाणि भास्वतः | १ | २ | ३ | ६ | ७ | ८ | ९ | १० | २० | २१ | २२ | २७ | २५ | इति चन्द्रस्य | ४ | ५ | ११ | १२ | १३ | १४ | १५ | १६ | १७ | १८ | १९ | २३ | २४ | २६ | इति सूर्ययस्य | उदयादिगता नाड्यो भघ्नाः षष्ट्याप्तशेषके | दिनेन्दुभुक्तयुक्तोऽसौ भवेत्तत्कालचन्द्रमाः | चन्द्रवत् साधयेत् सूर्ययमृक्षस्थं चेष्टकालिकम् | पश्चाद्विलोकयेत्तौ च स्वस्वर्क्षे वान्यतः स्थितौ | चन्द्र-ऋक्षे दायर्केन्दू तदास्ते नियतं निधिः | प्. १९६) भानु-ऋक्षस्थिते तौ तु तदा शल्यं विनिर्दिशेत् | स्वस्वभे द्वितयं ज्ञेयं नास्ति किञ्चिद्विपर्ययये | स्थितं न लभ्यते द्रव्यं चन्द्रे क्रूरग्रहान्विते | पुष्टे चन्द्रे भवेत्पुष्टः क्षीणचन्द्रेऽल्पको निधिः | ग्रहदृष्टिवशात् सोऽपि विज्ञेयो नवधा बुधैः | हेम ताम्रञ्च तारारं रत्नकांस्यायसं त्रपु | नागं चन्द्रे विजानीयाद् भास्करादिग्रहेक्षिते | मिश्रे मिश्रं भवेद् द्रव्यं शून्यं दुष्टिविवर्जिते | सर्वग्रहेक्षिते चन्द्रे विज्ञेयोऽसौ महानिधिः | हेम तारञ्च ताम्रारं पाषाणं मृण्मयायसम् | सूर्ययादिग्रहगे चन्द्रे द्रव्यभाण्डं प्रजायते | शुभक्षेत्रगते चन्द्रे द्रव्यलाभो न संशयः | पापक्षेत्रे न लाभः स्याज्ज्ञातव्यं ज्योतिषां बुधैः | भुक्तराश्यंशमानेन भूमानं कार्मिकैः करैः | नीचे विघ्नं परे नीचे जलस्थोऽसौ भवेन्निधिः | उच्चस्थे ऊर्द्ध्वगं द्रव्यं नवांशकक्रमेण च | परमोच्चे परे तुङ्गे भित्तिस्थमृक्षसंक्रमे | चन्द्रांशभुक्तमानेन द्रव्यसंख्या विधीयते | तस्माच्चेज्जायते वृद्धिः षड्वर्गेषु बलक्रमात् | अधिष्ठितं भवेद्द्रव्यं यत्र चन्द्रो ग्रहान्वितः | तदधिष्ठायको ज्ञेयो भास्करादिग्रहैः क्रमात् | ग्रहा ह्युपग्रहाश्चैव क्षेत्रपालश्च मातृका | दीपेशो भीषणो रुद्रो यक्षो नागः क्रमान्मतः | ग्रहहोमश्च कर्त्तव्यो मुखे नारायणे बलिः | क्षेत्रपाले सुरा मांसं मातृकायां महाबलिः | दीपे प्रदीपजा पूजा भीषणे भीषणार्च्चनम् | रुद्रे रुद्रजपो जप्यो यक्षे यक्षादिशान्तिकम् | नागे नागगणाः पूज्या गणनाथेन संयुताः | लक्ष्मीं धरादितत्त्वानि सर्वकार्ययेषु पूजयेत् | एवं कृते विधानेन दुःसाध्यः साध्यते निधिः | निधिप्राप्त्या नरो लोके पूज्यते सर्वदा बुधैः || अस्यार्थः || सर्वज्ञभाषितं श्रीसदाशिवभाषितम् | अहिचक्रम् अहं प्रवक्ष्यामि प्रकर्षेण कथयिष्यामीत्यन्वयः | येन चक्रेण द्रव्यं शल्यं तदुभयं शून्यं द्रव्यशल्यहीनं स्थानं पण्डिता जानन्ति भविष्यत्सामीप्ये वर्त्तमाननिर्देशात् ज्ञास्यन्तीति तात्पर्ययम् || प्. १९७) निधिरिति निवर्त्तनैकस्थो दीर्घप्रहस्ततः द्विशतहस्तमाने भूतले दशाधिकद्विशतहस्तपरिमिते वा यत्र सम्भ्रान्तो भ्रमविषयो निधिस्तत्र इदं चक्रं स्थाप्यम् | निवर्त्तनप्रमाणन्तु सिद्धान्तशिरोमणौ लीलावत्यभिधे पाटीगणिते तथा करणाद् दशकेन विंशः निवर्त्तनं विंशतिवंशसर्गाख्यः क्षेत्रं चतुर्भिश्च भुजैर्निबद्धमिति | स्वरोदयटीकाकारस्तु || सप्तहस्तेन हस्तेन त्रिंशद्दण्डो निवर्त्तनमित्याह | तदुभयमतं प्रामाण्यम् | अस्य दीर्घतः प्रहस्ततश्च एकादशवार्षिकनवाङ्गुलैश्चतुर्दशहस्तैश्च परिमितद्वयमबधार्ययम् | स्वरोदयटीकाकृन्मते दीर्घप्रहस्तादिकमेतदनुसारेण पण्डितैर्विविच्य कर्त्तव्यम् | चक्रं कीदृशं स्थानद्वारमुखस्थितं क्षेत्रादौ द्वाराज्ञाने एवं प्रजायते | चक्रे प्रस्तारं पन्नगाकृतिरित्युपसंहारवचनार्थतो भाद्रादित्रिषु मासेषु पूर्वादिचतुर्दिक्षु शिरः कृत्वा नागः शेते तेन तत्तन्मासि प्रश्ने सति तस्यां तस्यां दिशि अहिबलचक्रमुकं कृत्तिकानक्षत्रव्यवस्थितं कृत्वा व्यवहरणीयमित्युपदेशः | ऊर्द्ध्वेति || ऊर्द्ध्वरेखाष्टकं ऊर्द्धा च क्रमेण रेखाष्टकं लेख्यम् | तथैव पञ्चरेखास्तिर्ययक्क्रमेण लिखेत् | एवमष्टाविंशतिकोष्ठम् | तत्र कोष्ठेषु पौष्णो रेवती अश्विनी याम्यर्क्षं भरणी कृत्तिका मघा भाग्यभं पूर्वफल्गुनी उत्तरफल्गुनी चेति नक्षत्रसप्तकं प्रथमपंक्त्यां लेखनीयम् | अहिब्रध्नेति || अहिब्रध्नः उत्तरभाद्रपदः अजपादः पूर्वभाद्रपदः शतभिषा ब्राह्मं रोहिणी सर्पभमश्लेषा पुष्या हस्ताश्चेति नक्षत्रसप्तकं द्वितीयपंक्तिमास्थितं लेख्यम् | विधिरिति | विधिः अभिजित् विष्णुः श्रवणा सौम्यं मृगशिरा रौद्र आर्द्रा पुनर्वसु चित्रा चेति नक्षत्रसप्तकं तृतीयपंक्तौ | विश्वक्षमुत्तराषाढा मूलं ज्येष्ठा अनुराधा विशाखा स्वाती चेति नक्ष?त्रसप्तकं चतुर्थपंक्तौ | एवं कृत्वा अर्थादालोक्य चक्रं विलोकयेदिति | प्. १९८) एवमनेन प्रकारेण कृत्तिकानिक्षत्रानुक्रमस्थित्या पन्नगाकृतिः सर्पाकृतिः | द्वारशाखेति मघाभरण्यौ | द्वारशाखे द्वारोभयपार्श्वस्थिते | कृत्तिकाद्वारस्थनागमुखम् | अश्वीशेति | अश्विनी ईश आर्द्रा पूर्वाषाढा एतानि आदिभूतानि कृत्वानुक्रमेण त्रिपञ्चचतुष्टयं नक्षत्रं यथा अश्विनी भरणी कृत्तिका इति त्रीणि | आर्द्रा पुनर्वसु पुष्या अश्लेषा मघा चेति पञ्च | पूर्वाषाढोत्तराषाढा अभिजित् श्रवणेति चत्वारि नक्षत्राणि | अश्विनी भरणी कृत्तिकार्द्रा पुनर्वसु पुष्या अश्लेषा मघा पूर्वाषाढा उत्तराषाढा अभिजित् श्रवणा रेवती पूर्वभाद्रपदा एतानि नक्षत्राणि | इन्द्रोश्चन्द्रस्य | शेषाणि भानि रोहिणी मृगशिराः पूर्वफल्गुन्युत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूला धनिष्ठा शतभिषा उत्तरभाद्रपदसंज्ञकानि | भास्वतः सूर्ययस्य ज्ञातव्यानि || उदयादीति | उदयो नक्षत्रप्रवृत्तिसमयस्तदादिः | इष्टसमयेन च यावन्तो दण्डाश्चन्द्रेण भुक्तास्तदवधिगता नाड्यो भघ्नाः सप्तविंशत्या पूरिताः षष्ट्या हृताः कार्ययाः | गृहीतभागेनाप्तशेषके आप्ते लब्धे शेषे चासौ तत्कालचन्द्रमा भवति | स किम्भूतः दिनेन्दुभुक्तयुक्तः | दिने दिने इन्दुना चन्द्रेण भुक्तेन नक्षत्रेण युक्तः | सप्तविंशत्यधिके सप्तविंशतिमपास्य अधिकमश्विनीतो भुक्तनक्षत्रसंख्या भवति | एवं सुर्ययोऽपि स्वभुक्ताश्विन्यादिनक्षत्रयोगेन तात्कालिको भवति | एवमेव स्वरोदयटीकायां नरहरिणा व्याख्यातम् | सूर्ययभुज्यमाननक्षत्रज्ञानन्तु मानसपञ्जिकागणनवमश्लोकेनोक्तम् | सङ्क्षेपतः प्रवक्ष्यामि तत्कालेन्दुं परिस्फुटम् | येन विज्ञानमात्रेण बुध्यते च शुभाशुभम् | अहोरात्रस्य मध्ये तौ विश्रान्तौ धिष्ण्यमण्डले | स चैव प्रश्नकाले च यात्राकाले विशेषतः | दण्डेश्च पञ्चभीराशिरेव स्युर्द्वादश क्रमात् | लग्नवद्भुक्तभागस्य त्यागाच्छेषः क्रमोत्क्रमः | प्. १९९) प्रवासः सुस्थता मृत्युर्हास्यो जयो ज्वरो रतिः | शून्यता ह्रासिता क्रीडा सुप्तिर्भुक्तिश्च मेषतः | एताश्च द्वादशावस्थाः शशाङ्कस्य दिने दिने | शुभाशुभेषु कार्ययेषु फलं नामानुरूपतः || नक्षत्रमेकं प्रतिपञ्चदण्डक्रमेण द्वादशचन्द्रास्तात्कालिका भवन्ति चेन्न | यस्य नक्षत्रस्य उदयादिगता नाडी ग्राह्या तस्यादौ पञ्च दण्डान् व्याप्य तस्य नक्षत्रस्य चन्द्रो भवति | तत्परपञ्चदण्डान् व्याप्य तत्परचन्द्रमा भवति | एवं क्रमेण द्वादश चन्द्रमसो भवन्ति | कस्यचिन्मते सूर्ययोदयावधिषष्टिदण्डात्मककाले द्वादश चन्द्रमसो भवन्ति | तन्मते सूर्ययोदयावधिपञ्चदण्डे यन्नक्षत्रं तस्य चन्द्रमा भवति | तत्परपञ्चपञ्चदण्डे क्रमेण चन्द्रमा दिवारात्रौ द्वादशचन्द्रास्तात्कालिका भवन्ति | यात्रायामेवेति | उदयादिगता इत्यस्यार्थः | षष्ट्याप्तश्च शेषः षष्ट्याप्तशेषकं तस्मिन् षष्ट्याप्तशेषके | एतेन षष्ट्या दण्डषष्ट्या हृतशेषके चेति यावत् | तस्मिन् षष्ट्या हृतलब्धाङ्को दिनेन्दुभुक्तयुक्तस्तत्कालचन्द्रमा भवति | तत्षष्ट्या हृतभागशेषाङ्के उदयादिगतनाडीयुक्तेन यः संख्याङ्को भवति स तस्य चन्द्रमसो भोग्यदण्डो भवतीति भावः | शेषक इति स्वार्थे कः | अत्र यदि शेषो न लब्धस्तदा उदयादिगता नाडीमात्रसंख्याङ्कस्तस्य भोग्यदण्ड इति भावः | एतेन खण्डनक्षत्रस्यैवं भोगवशात्तात्कालिकचन्द्रस्य स्थाननिश्चयो बोद्धव्यः | षष्ट्याप्तशेषकैरिति पाठे तु षष्ट्याप्तेन षष्ट्या हृतलब्धाङ्केन दिनेन्दुभुक्तयुक्तश्चेत् तत्कालचन्द्रमा भवति | शेषकैः षष्ट्या हृतभागशेषाङ्कैरुदयादिगतानाडीसंख्याङ्कयुक्तेन यः संख्याङ्कः स तस्य चन्द्रमसो भोग्यदण्डो भवति || चन्द्रवदिति || ऋज्ञस्थं नक्षत्रस्थं चेष्टनाडीकं प्रश्नसमय इष्टदण्डस्थं कृत्वा एकद्वित्रिदिनक्रमेण प्रत्येकं दिनं दण्डानां सार्द्धचतुष्कं सङ्कलयय ग्राह्यम् | एवं क्रमेण नक्षत्रस्य प्रश्नकाले सूर्ययेण यावन्तो दण्डा भुक्तास्तानेव सप्तविंशतिसंख्यया सङ्गुण्य षष्ट्या हरणाल्लब्धं शेषञ्च भवति लब्धञ्च सूर्ययभुक्तनक्षत्रसंख्यया संयोज्य सप्तविंशत्यधिके सति सप्तविंशतिमपास्यावशिष्टं भुक्तनक्षत्रं तत्संख्या अश्विनीतो भवति | प्. २००) षष्टिहरणशेषं भुज्यमाननक्षत्रम् | तत्र कोष्ठे तन्नक्षत्रस्थतात्कालिकः सूर्यो वेधनीयः पश्चात् स्वनक्षत्रचन्द्रनक्षत्रयोर्व्यवस्थितश्चिन्तनीयः | नक्षत्रे सूर्ययभुक्तषष्टिदण्डपूर्णता तु चत्वारिंशद्दण्डन्यूनचतुर्दशदिनेन सकलनक्षत्रभोगः प्रत्यहं सप्तदशपलाधिकाश्चत्वारो दण्डा भवन्ति न्यूनभोग्येन किञ्चित् पले ह्रसति | तेन नक्षत्रभोगप्रवृत्तिसमयादारभ्य प्रश्नसमयपर्ययन्तं यावन्तो दण्डास्तेषु प्रतिषष्टि चत्वारो दण्डाः सप्तत्रिंशत्पलानि षष्टिमानेन तदनुमानेन न्यूनता सूक्ष्मकालस्थसूर्ययमण्डलादिग्रहनक्षत्रतात्कालिकीकरणे पैतामहश्लोकौ लिख्येते || ऋक्षप्रवेशा दिष्टान्तनाड्यः षष्ट्या भताडिताः | ऋक्षप्रदेशादात्यागघटिकाभिर्विभाजिताः | लब्धं दण्डादि यत्र तु तद्भग्नं षष्टिभिर्हृतम् अश्व्यादिसूर्यभुक्तेन युक्तस्तात्कालिको रविः | पश्चात्तात्कालिकीकरणानन्तरं सूर्ययाचन्द्रमसौ स्वस्वर्क्षव्यवस्थितौ स्वनक्षत्रे वापरनक्षत्रे स्थितौ विलोकयेत् | चन्द्र इति चन्द्र-ऋक्षे अश्वीशेत्यादिकथितनक्षत्रे यदि अर्केन्दू तात्कालिकौ स्तस्तदा निधिर्नियतं निश्चितमस्ति चेद्भानुनक्षत्रे सूर्ययनक्षत्रे तौ सूर्ययाचन्द्रमसौ स्थितौ तदा शल्यं भवति | स्वस्वभ इति स्वस्वभे चन्द्रे रवौ च स्वस्वनक्षत्रे स्थितौ द्वितीयं निधिः | शल्यञ्च चन्द्रस्थाने निधिं सूर्ययस्थाने शल्यं वदेत् || विपर्ययये चन्द्रनक्षत्रे सूर्यये सूर्ययनक्षत्रे चन्द्रे स्थिते सति न किञ्चित् निधिः शल्यञ्च नास्तीत्यर्थः | क्रूरान्विते तात्कालिकचन्द्रे स्थिते द्रव्यं न लभ्यते पारिशेष्यात् शुभग्रहयोगे लभ्यते इति || पुष्ट इति || चन्द्रपुष्टे शुक्लपक्षैकादशीपर्ययन्तं पुष्टस्तत्र पुष्टोऽतिशयितो निधिर्भवेत् | प्. २०१) क्षीणचन्द्रे तु निधिरल्पक इति | क्षीणेन्दुश्च कृष्णैकादशीतः शुक्लपञ्चमीं यावदिति || उभयपक्षषष्ठीदशमीपर्ययन्तं न तु मध्यबलत्वम् | तेन मध्यत्वं द्रव्यस्य ग्राह्यम् | एवं व्यवस्थितौ किं द्रव्यमित्याकाङ्क्षायामाह || हेमेति || सूर्ययादिना वीक्षिते तात्कालिके चन्द्रे हेमादिद्रव्यं विजानीयादित्यर्थः | तत्र सूर्ययवीक्षिते हेम सुवर्णं स्थूलचन्द्रेक्षिते तारं रजतं कुजेक्षिते ताम्रं बुधेक्षिते आरं पित्तलं जीवेक्षिते रत्नं शुक्रेक्षिते कांस्यं शनैश्चरेक्षिते आयसं लौहविकारः राहुवीक्षिते वङ्ग इति केतुवीक्षिते नागं सीमकमिति प्रसिद्धं द्रव्यम् || मिश्रेति || मिश्रैर्नानाग्रहैर्दृष्टे मिश्रं नानाप्रकारं वदेत् | ये ये ग्रहाः पश्यन्ति तस्य तस्य द्रव्याणि भवन्तीति तात्पर्ययम् | दृष्टिवर्जिते चन्द्रे शून्यं न किमपीत्यर्थः | सर्वग्रहेक्षिते चन्द्रे असौ महानिधिर्विज्ञेय इति | असौ निधिः ग्रहाणां सूर्ययादिग्रहाणां दृष्टिवशान्नवधा नवप्रकारो बुधैर्ज्ञातव्य इति || द्रव्याधारमाह हेमेति || चन्द्रे सूर्ययादिराशिस्थे द्रव्यभाण्डमाधारो भाजनं प्रजायते इत्यर्थः | यथा सूर्ययगृहे सिंहे हेम | चन्द्रगृहे कर्कटे रजतम् | कुजगृहे मेषे वृश्चिके वा ताम्रम् | बुधगृहे कान्यायां मिथुने वा आरम् | गुरुगृहे धनुषि मीने वा पाषाणः | शुक्रगृहे वृषे तुलायां वा मृण्मयम् | शनिगृहे मकरे कुम्भे वा आयसं लौहम् | एवं राहुगृहं कन्या तत्र बुधदृष्टिविहीने वङ्गम् | केतुगृहे मीने जीवानलोकिते सीसकमित्यपि ज्ञेयम् || शुभक्षेत्र इति || शुभाश्चन्द्रबुधगुरुशुक्रास्तेषां क्षेत्रे राशौ चन्द्रे सति द्रव्यस्य लाभो न संशय एव | एवं पापक्षेत्रे पापग्रहराशिगे सति तदा न लाभः | इति स्वरविद्भिर्ज्ञातव्यमित्यर्थः || भुक्तेति | भुक्तराश्यंशमानेन तात्कालिकचन्द्रेण यावन्तो राश्यंशा भुक्तास्तन्मानेन तत्संख्यया कार्मिकैर्बद्धमुष्टिभिः करैर्हस्तैर्भूमानं धृतद्रव्यगतभूमानं भुक्तांशकसंख्यकहस्तप्रमाणं कर्त्तव्यं खांते द्रव्यमस्तीति वक्तव्यम् | प्. २०२) नीचे नीचराशिवृश्चिकस्थे चन्द्रे तदेव मानं द्विघ्नं द्विगुणितं परें नीचे वृश्चिकतृतीयांशस्थे च चन्द्रे असौ निधिर्जलस्थो वक्तव्यः || तावत् खातन्तु यावज्जलस्थं द्रव्यं लभ्यते || उच्चस्थे इति | वृषराशिद्वितीयांशस्थे चन्द्रे नवांशकक्रमेण यावन्तो नवांशा भुक्तास्तावन्तः पूर्ववदूर्द्ध्वगं परमोच्चे वृषतृतीयांशस्थे चन्द्रे अत्युच्चप्रदेशे द्रव्यमस्तीति | ऋक्षसंक्रमे तात्कालिकनक्षत्रशेषपलगते भित्तिस्थं भवति || चन्द्रांशेति || चन्द्रांशभुक्तकालेन तात्कालिकचन्द्रेण राशेर्यावन्तोऽंशा भुक्तास्तन्मानेन द्रव्यसंख्या विधीयते | प्रत्येकं भुक्तांशे दशसंख्या च षड्वर्गेषु गृहे होराद्रेक्काणनवांशद्वादशांशत्रिंशांशेषु बलक्रमाद्दशगुणे वृद्धिः यदि स्वकीयषड् वर्गभागे तिष्ठति तदा अंशादुदितद्रव्यं दशगुणं स्यात् | अधिष्ठितमिति वर्णप्रश्ने चन्द्रो ग्रहान्वितो भाति तत्र द्रव्यधिष्ठितं भास्करादिग्रहैः प्रत्येकं सहिते क्रमात्तदधिष्ठायको द्रव्याधिष्ठितो ज्ञेयः | यथा चन्द्रे सूर्ययान्विते ग्रहस्थूलचन्द्रसहिते उपग्रहः कुजसहिते क्षेत्रपालः बुधसहिते मातृका गुरुसहिते दीपेशः शुक्रसहिते भीषणः शनिसहिते रुद्रः राहुसहिते यक्षः केतुसहिते नाग इति क्रमात् || ग्रह इति | ग्रहे अधिष्ठिते हेमग्रहस्यैव मुखे मुखग्रहः नारायणो नारायणसम्बन्धी बलिः पूजोपहारादिरिति || क्षेत्रपाले अधिष्ठिते तस्मै सुरा मद्यं मांसञ्च देयमिति | मातृकायामधिष्ठितायां महाबलिः | मानुषबलिस्तदभावे छागादयोऽपि अविरुद्धा बलित्वेनोपकल्प्याः | दीपेशे अधिष्ठिते दीपजा दीपप्रधाना पूजा | भीषणे भीषणार्च्चनं भयजनकार्च्चनम् | लोहितपुष्पादिकृते रुद्रेऽधिष्ठिते रुद्रजापो रुद्रमन्त्रस्य जपः जाप्यो रुद्राध्यायः | यक्षेऽधिष्ठिते यक्षादिशाकं यक्षादिपूजनं | नागेऽधिष्ठिते नागगणाः पूज्याः | प्. २०३) गणनाथेन गणेशेन संयुताः प्रतिशान्तिके गणेशपूजा | लक्ष्मीधरादिभूत्यादिपञ्चविंशतिसंख्यकानि सर्वकार्ययेषु पूजयेत् || एवमिति | विमाने यथाविधि क्रमेण एवं कृते पूजाहोमादौ दुःसाध्यो निधिः साध्यते | एतन्निरूपकस्य दृष्टप्रयोजनमाह एवं प्रकारेण नरो मनुष्यो निधिप्राप्त्या वन्दनीयः नमस्करणीयः स्तुत्यो वा भवत्यत्र न संशयः इति || अथवा महाकपिलपञ्चरात्रोक्तक्रमेण शल्योद्धारः कर्त्तव्यः | स क्रमो यथा | प्रासादारम्भकाले च गृहादौ च विशेषतः | शल्योद्धारस्तु कर्त्तव्यो यदीच्छेच्छुभमात्मनः | प्रासादारम्भकाले च यदङ्गं स्पृशते पुमान् | वास्तुदेहे दृढं तत्र शल्यं दद्याद्विचक्षणः | कण्डूयति शिरः पुंसि शिरःशल्यं समुद्धरेत् | शल्यं तत्रास्ति विज्ञेयं खन्यमाने करत्रये | अग्निदाहश्च रोगश्च धनहानिश्च जायते | यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः | बाहौ कण्डूयमाने तु निर्दिशेल्लौहशृङ्खलम् | हस्तद्वयेन मानं तल्लक्षणं कथितं तव | स्वामिनो मरणं विद्याद्विदेशगमनं तथा | यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः | ऊरौ कण्डूयमाने तु कांस्यशल्यं विनिर्दिशेत् | हस्तैकेन च सन्तिष्ठेल्लक्षणं कथितं तव | असती च भवेद्भार्यया यशोहानिः प्रजायते | यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः | हस्ते कण्डूयमाने कङ्कालञ्च विनिर्दिशेत् | त्रिहस्तेन तु सन्तिष्ठेत् खन्यमाने न चान्यथा | अग्निदाहश्च रोगश्च पीडा च मरणं भवेत् | यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः | पृष्ठे कण्डूयमाने तु बाहुशल्यं विनिर्दिशेत् | हस्तेनैकेन सन्तिष्ठेन्नात्र कार्यया विचारणा | स्वामिनाशो भवेत्तत्र भार्यया वा जायतेऽसती | पदे कण्डूयमाने तु हस्तशल्यं विनिर्दिशेत् | सार्द्धहस्तेन सन्तिष्ठेल्लक्षणं गदितं तव | अङ्गनाशो राजदण्डः शस्यहानिश्च जायते | यत्नेनोत्पाटयेच्छल्य यदीच्छेत् सिद्धिमात्मनः | प्. २०४) कुक्षौ कण्डूयमाने तु पाषाणं तत्र निर्दिशेत् | हस्तद्वितयमानेन लक्षणं गदितं तव | भुजङ्गदंशस्तत्र स्यात् तस्माच्छल्यं समुद्धरेत् | जानौ कण्डूयमाने तु भस्म तत्र विनिर्दिशेत् | हस्त द्वयेन सन्तिष्ठेल्लक्षणं गदितं तव | अग्निदाहो मनस्तापं क्लेशदुःखभयानि च | करोत्येवंविधं कर्म्म तस्मात्तं वै समुद्धरेत् || ज्योतिषे || सुनिश्चितां मन्दिरभूमिमादौ निखाय तोयावधियत्नतस्ताम् | कुर्ययाद्विशल्यामथवा न मानं स्याद्वाथवा प्रश्नवशाद्विधिक्षः | दूर्वाप्रबालाक्षतपुष्पपाणिः शुचिः शुचिं दैवविदं समेत्य | पृच्छेद्विनीतो मधुरस्वरेण शल्यस्य तत्त्वं भवने तदीशः | तत्प्रश्नस्यादिमो वर्णः सन्धार्ययो यत्नतोऽथ वा | क्रमात् पु.पापरादेव फलानां ब्राह्मणादितः | क्रमादित्यनेन ब्राह्मणः पुष्पनाम वदेत् क्षत्रियो नदीनाम वैश्यो देवनाम शूद्रः फलनाम इत्यायातम् | प्रणवो धरणौ धारिणी करौ न तदनन्तरम् | भूत्यै नमश्च इत्येष मन्त्रो वह्निप्रियान्तकः | वह्निप्रिया स्वाहा | मन्त्रेणानेन कठिनीमभिमन्त्र्य विभाजयेत् | नवधा सदनक्षेत्रं तया पश्चाद्विलेखयेत् | वकचत-एहाः शपया नव चेत् प्रश्नाक्षराणि जायन्ते प्रागादिकोष्ठनवके वर्णास्ते शल्यमाख्यान्ति | प्रश्ने वकारः पुरतो नरास्थि ब्रवीति शल्यं मरकप्रदायि || १ || क्षौणीशदण्डोरगहेतुमृत्युप्रदं ककारः खरशल्यमग्नौ || २ || याम्यां चकारः प्लवगास्थिवेश्म प्रभोर्विनाशावहमाह शल्यम् || ३ || रक्षोदिशि श्वास्थिगृहस्थितानां महद्भयं वक्ति सुनिश्चितं तः || ४ || एः पाशिदिश्यस्थिशिशोर्ब्रवीति मृत्युप्रवासाहवमाह शल्यम् || ५ || हो वायुकोणे नररूपमाह दारिद्र्यमिष्टक्षयकृद्विधत्ते || ६ || धनपदिशि शकारः प्राह विप्रास्थिवित्तक्षयकृत् || ७ || अथ पकारो वक्ति ऋक्षास्थिशम्भौ || ८ || तदिह कुलविनाशं गोधनानाञ्च हानिं वितरति गृहनाथस्यापि गुप्तस्य देवैः | प्. २०५) यो मध्यभागे भसितं कपालं कालायसञ्चाह कुलक्षयाय || ९ || यत्नादपास्यान्यधुना प्रमाणं सर्वत्र तथ्यं कथयामि शल्ये | इन्द्ररक्षोजलेशाने शल्यं सार्द्धकरे कटौ | वह्न्यन्तककुवेरेषु पुरुषे मध्यवातयोः || देवीपुराणे || पुरुषाधःस्थितं शल्यं न गृहे दोषदं भवेत् | प्रसादे दोषदं शल्यं भवेद् यावज्जलान्तिकम् || इति शल्योद्धारः || पूर्वादिज्ञाननिश्चयमेव मण्डपादि कुर्ययादन्यथा दोष उक्तो राघवभट्टधृतवचनेन यथा | यदि कुर्ययाद् यथा दृष्टं विपन्नो निरयं व्रजेत् | भानोर्गत्या दिशो ज्ञात्वा कुर्ययात् कर्माणि देशिकः | वास्तुवैषम्यतो यत्र सम्यङ् न ज्ञायते किल | तत्र शङ्कुं प्रतिष्ठाप्य जानीयात् शुद्धदिक्स्थितिम् || शङ्कुप्रमाणन्तु ज्योतिस्तत्त्वे | अर्काङ्गुलाथ सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका | शङ्कुसंज्ञा भवेत्तस्यास्तच्छायां परिकल्पयेत् || राघवभट्टधृतम् || तद्गत्या दिक्परिज्ञानं शृणु वक्ष्ये यथाविधि | सुसमे भूतले कृत्वा वृत्तं भ्रमणरूपतः | तन्मध्यबिन्दौ शङ्कुन्तु स्थापयेद् द्वादशाङ्गुलम् | अग्रच्छायान्वयवशाद्वृत्ते | पूर्वापराह्वयोः कृत्वा चिह्ने तमभितस्तथा | सुसमानपरिभ्रान्त्या कार्ययं वृत्तद्वयं पुनः | तयोः संश्लेषसञ्जातमध्यदक्षोत्तरे स्थिते | सन्धिद्वये तु प्राक् प्रत्यक् सूत्रं मध्ये च विन्यसेत् | सूत्रदक्षोत्तरं तेषामग्रैः प्रागादि कल्पयेत् || क्रियासारेऽपि || कृत्वा भूमिं समां तत्र वृत्तं हस्तमितं समम् | द्वादशाङ्गुलमानोच्चं शङ्कुं खादिरनिर्मितम् | अलाभे यज्ञकाष्ठस्य तत्र संस्थापयेत् सुधीः | तच्छाया संश्पृशेद्यत्र तन्मध्ये मध्यमं स्मृतम् | तिर्यक् प्रसारयेत् सूत्रं मध्ये याम्योत्तरे स्मृते | कोणाः स्युरन्ये चत्वारश्चतुःसूत्रप्रसारणात् | एवमाशापरिज्ञानं समाख्यातं सदा स्फुटम् | प्. २०६) ज्ञात्वैवं मण्डपादीनि कुर्ययात् सम्यग् विचारतः || महाकपिलपञ्चरात्रे तु विशेषः | विषुवेऽनुगते सूर्यये शङ्कुमानं समाचरेत् | खादिरं विन्यसेच्छङ्कुं द्वादशाङ्गुलविस्तृतम् | इति पूर्वादिदिग्ज्ञाननिर्णयः || शङ्कुनिखननप्रकारोऽपि तत्रैव | निश्चलीकृत्य हन्तव्यं गृहीत्वा लौहमुद्गरम् | अष्टधा च समाहन्यात् प्रशस्तं क्रमतो लघु | हन्यमाने यदा शङ्कौ हस्तात् पतति मुद्गरः | तदा ताडयितुः शोको जायते दुस्तरो महान् || इति शङ्कुनिखननप्रकारः || शङ्कुसूत्रकरणमपि तत्रैव || मौञ्जकौशेयकार्पासं प्राणिबालजमेव वा | चतुर्यवपरीणाहं सूत्रं शङ्कौ तु वेष्टयेत् | वेष्ट्यमानं यदा सूत्रं शङ्कुं मुञ्चति लक्षणम् | पुत्त्रस्य मरणं विद्यात् छिन्ने वैश्यविनाशनम् || तत्रापि नारसिंहेन होमेनाशुभनाशनमिति || तथा || शङ्कुं सारं भूमेः प्रोक्तं तस्याग्रं चित्रवृत्तकम् | तस्य वृत्तादिनादौ तु स्थापयेत् समभूतले | शङ्कुद्विगुणमानेन तन्मध्ये वर्त्तुलं लिखेत् | पूर्वापराह्णयोश्छाया यदा तन्मण्डलान्तगा | तद्बिन्दुद्वयगं सूत्रं पूर्वपरा दिगिष्यते | बिन्दुद्वयान्तरभ्रान्तशरफद्वयपुच्छगम् | दक्षिणोत्तरगं सूत्रमेवं सूत्रद्वयं न्यसेत् | तदग्राण्यपरान्तानि सूत्राणि च विनिक्षिपेत् || सूत्राणि स्थापयेत् प्राज्ञः प्रागुत्तरमुखानि चेति || हयशीऋषपञ्चरात्रेऽपि || भूमिं तोयसमां कृत्वा दर्पणोदरसन्निभाम् | द्वादशाङ्गुलमानेन तत्र वृत्तञ्च भ्रामयेत् | मध्ये तु निश्चलं शङ्कु स्थाप्य छायां निरीक्षयेत् | वृत्तरेखा या वाह्यस्था शङ्कुच्छाया प्रकल्पिता | प्रवेशनिर्गमे तस्यां शङ्कुच्छायां निरूपयेत् | शङ्कुच्छायाग्रचिह्नाभ्यां प्राक्प्रतीच्यौ प्रसाधयेत् | रात्रौ तु प्राचीसाधनं यथा || कृत्तिका श्रवणा पुष्या चित्रास्वात्योर्यदन्तरम् | एतत् प्राच्या दिशो रूपं युगमात्रोदिते पुर इति || त्रिकाण्डमण्डलेऽपि || श्रवणस्योदये प्राची कृत्तिकायास्तथोदये | प्. २०७) चित्रास्वात्यन्तरे चन्द्रसूर्यययोः | इति शङ्कुप्रकरणम् || अथ मण्डलप्रकरणम् | विश्वसारे द्वितीयपटले || दीक्षार्थं मण्डपं कूर्यात् सुन्दरं सुमनोहरम् | नानावर्णैश्चित्रवर्णैश्चित्रितं सुमनोहरम् | भित्तिस्तम्भादिसर्वेषु स्वर्णरत्नविभूषितम् | नानावर्णैश्चित्रवर्णैश्चित्रितं मणिमण्डपम् | वितानपत्रशालप्यैरलङ्कुर्ययाद्विधानतः | पताकाभिर्ध्वजं कुर्ययाच्चतुर्दिक्षु मनोहरम् | अष्टौ कुम्भानष्टदिक्षु मण्डपं रचयेत् सुधीः || अत्रेतिकर्त्तव्यता उक्ता शारदातिलके द्वितीयपटले || पुण्याहं वाचयित्वा तु मण्डपम् रचयेच्छुभम् || पुण्याहमिति यजमानस्य | पुण्याहं भवन्तोऽधिब्रुवन्तु एवं स्वस्ति भवन्त इति ऋद्धिं भवन्त इति त्रिभिः पुण्याहवाचनम् || तदुक्तं राघवभट्टधृतबौधायनेन || पुण्याहं स्वस्ति ऋद्धिमित्योङ्कारपूर्वं त्रिस्त्रिरेकैकामाशिषं वाचयित्वेति | आशिषं वाचयित्वेति निर्देशात् सुतरां यजमाननामोल्लेख आयाति | तेन नामोल्लेखमकृत्वा केवलं पुण्याहमित्यादिवचनमनुभवविरुद्धमिति | शारदायाम् || पञ्चभिः सप्तभिर्हस्तैर्नवभिर्वा मितान्तरम् | षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः | अष्टहस्तसमुच्छ्रायाः संस्थाप्य द्वादशाभितः | पञ्चहस्तप्रमाणास्ते निञ्छिद्रा ऋजवः शुभाः || मध्यस्तम्भस्याष्टहस्तपरिमाणमितरेषां द्वादशानां पञ्चहस्तपरिमाणमिति || तत्पञ्चमांशं निखनेन्मेदिन्यां मन्त्रवित्तमः || नारिकेलदलैर्वंशैश्छादयेत्तत्समन्ततः || वंशैर्वंशदलैरुभयत्र बहुवचननिर्देशेनेत्यादिबहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायाच्छादनोपयुक्तमन्यदपि लभ्यते | द्वारेषु तोरणानि स्युः क्रमात् क्षीरिमहीरुहाम् | स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैः पृथक् पृथक् | दशाङ्गुलप्रमाणेन तत्परीणाह ईरितः | तिर्ययक् फलकमानं स्यात् स्तम्भानामूर्द्धमानतः | प्. २०८) मूलानि कल्पयेन्मध्ये तोरणे हस्तमानतः | दिक्षु ध्वजानि बध्नीयात् लोकपालसमप्रभान् | वितानदर्भमानाद्यैरलङ्कुर्वीत मण्डपम् || क्षीरिमहीरुहामिति अश्वत्थोडुम्बरप्लक्षवटानाम् || तदुक्तं राघवभट्टधृतेन || न्यग्रोधतोरणं पूर्वे याम्ये तूडुम्बरं मतम् | पश्चिमेऽश्वत्थसम्भूतमुत्तरे प्लक्षतोरणम् || पूर्वे वा प्लक्षसम्भूतं न्यग्रोधञ्चोत्तरे मतमिति || तोरणकरणकारणन्तु महाकपिलपञ्चरात्रे | देवास्तोरणरूपेण संहिता यज्ञमण्डपे | विघ्नविध्वंसनार्थञ्च रक्षार्थं त्वध्वरस्य च | अध्वरस्य यज्ञस्य | इति मण्डपादिकरणम् || अथाङ्कुरार्णपणम् | प्रपञ्चसारे पञ्चमपटले || सप्ताहतो वा नवमाहतो वा प्रागेव दीक्षादिवशाद्यथावत् | सपालिकापञ्चमुखीशरावचतुष्टये वीजनिवापयुक्तम् | अन्यस्मिन् भवने च भूतलतले शुद्धे स्थले मण्डलं कुर्ययात् प्राग्वरुणायतं पदचतुष्कोणे तु भानूदयम् | पीतारक्तसितासितं प्रतिपदं वह्न्यादिसप्तान्तिकम् याम्योदीच्यसमायतं प्रणिगदन्त्यन्येऽपि तन्मन्त्रिणः | वैष्णव्यस्त्वथ पालिका अपि चतुर्विंशाङ्गुलिव्यापका वैरिञ्च्यो घटिकास्तु पञ्चवदनाद्यष्टाङ्गुलोच्छ्रायकाः | शैवाः स्युर्द्विषडङ्गुला अपि शरावास्त्रा जलक्षालिताः सूत्रैश्च प्रकलयय पंक्तिषु च ताः प्रोक्तक्रमाद्विन्यसेत् || पृथगपि शालीतण्डुलपूर्णासु सदर्भबद्धकूर्च्चासु | मृद्बालुकाकरीषैः क्रमेण पूर्णानि पात्राणि || शालीकङ्कुश्यामाकतिलसर्षपमुद्गमाषनिष्पावाः | खल्वाढकीसमेता वीजानि विदुः प्ररोहयोग्यानि || प्रक्षाल्य तानि निवपेदभिमन्त्र्य मूलवीजेन साधकवरस्त्वपि पात्रकेषु | विप्राशिषा च विधिवत् प्रतिपाद्यमानशङ्खादिमुख्यतमपञ्चकनिस्वनैश्च || हारिद्राद्भिः सम्यगभ्युक्ष्य वस्त्रैराच्छाद्याद्भिः सिच्यतां पञ्चघोषैः | सायं प्रातः शर्वरीषु प्रदद्यादुक्तैर्द्रव्यैस्तद्बलिं साधकेन्द्रः || भूतपितृयक्षनागब्रह्मशिवा देवताश्च विष्ण्वन्ताः | प्. २०९) ताभ्यः क्रमेण रात्रिषु सप्त सुरान् वसु वा तद्बलिर्देयः || लाजतैलरक्तरजनीदधिशक्त्वन्नानि भूतक्रूराख्यम् | पैत्र्यं तिलतण्डुलकं सान्नपूपं करम्भलाजकं याक्षम् || नारिकेलोदकशक्तुपिष्टं नागं पद्माक्षतञ्च वैरिञ्च्यम् | अन्नापूपं शैवं दुग्धान्नञ्च वैष्णवेयम् || यदि नवरात्रं क्रमेण बलिरुक्तं | तारादिकैर्नमोऽन्तैः स्वैः स्वैरपि नामभिर्बलिमन्त्रः | पात्राणि त्रिविधान्यपि परितः पुनरष्टदिक्षु बलिकॢप्तिः | वीजारोपणकर्म्म प्रथितमिदं सार्वकामिकं भवति | सार्वकामिकमित्युपादानाद्वक्ष्यमाणदीक्षायामित्यादि-वचनाच्चास्यावश्यकत्वम् | एतेषामर्थस्तु विश्वसारशारदावक्ष्यमाणप्रमाणैः स्पष्टीभविष्यत्यतोऽत्र व्याख्या न कृता | विश्वसारतन्त्रे तृतीयपटले च | जाताङ्कुराः प्रकुर्वीत चतुर्दिक्षु च पालिकाः | पालिकाः पञ्च मुख्यश्च शरावाश्च ततः क्रमात् | षोडशद्वादशाष्टाभिरङ्गुलीभिः क्रमादिमाः | सुगन्धितोयपूर्णेन जाताङ्कुरमुदाहृतम् | सुधावीजेन वीजानि निक्षिपेत्तत्र सर्वतः | आचार्ययो विधिना कुर्ययात् सर्वशास्त्रार्थपारगः | श्यामाकमाषकङ्ग्वश्च व्रीहयः सर्वतः स्मृताः | दीक्षायाः सप्तमे पूर्वं दिवसे संयतः सदा | सप्तरात्रेषु कुर्वीत पूजनं सर्वदेवताः | नानोपहारबलिभिः पूजयेत् परमेश्वरि ! | प्रणवाद्या नमोऽन्ताश्च पूजयेत् सर्वतः सुधीः | भूतानि पितरो यक्षा नागा ब्रह्मा शिवो हरिः | क्रमेण पूजयेत् सर्वान् सप्तरात्रिषु देशिकः | सप्तानामपि रात्रीणां देवताः सर्वसम्मताः | उपहारैः पूजयेत्तान् तानि वक्ष्यामि पार्वति ! | लाजैश्च पूजयेद्भूतान् गन्धपुष्पादिचन्दनैः || भूताधिपं भूतगणं भूतेशञ्च क्रमेण तान् | तैलहरिद्रादधिशक्तुभिः पूजोपहारकैः | तण्डुलान् तिलसम्मिश्रान् सान्नपूपैः प्रपूजयेत् | पितॄणां पूजयेन्नित्यं कथितं पद्मयोनिना | करम्भलाजौ यक्षेभ्यो नारिकेलोदकान्वितम् | शक्तुं पिष्टञ्च नागेभ्यः पूजयेद्विधिनामुना | प्. २१०) पङ्कजातपतण्डुलदूर्वाशालिभिरुत्तमा | पूजयेत् कथिता तेवि ! ब्रह्मणः सर्वसम्मता | सापूपमन्नं सर्वाय सर्वतन्त्रस्य सम्मतम् | गुडोदकं गुडान्नञ्च नानारससमन्वितम् | दधि दुग्धं पायसान्नं दद्यात् प्रियतमं महत् | विष्णवे च निवेद्याथ सर्वसिद्धिं लभेन्नरः || अत्र बलिद्रव्याधिक्यदर्शनात् प्रागुक्तप्रपञ्चसारोदितबलिद्रव्यमुपलक्षणमात्रं शक्ताशक्तपरं वा | शारदातिलके तृतीयपटलेऽपि || प्रागेव दीक्षादिवशात् सप्तभिर्विधिवद्दिनैः | सर्वमङ्गलसम्पत्त्यै विदध्यादङ्कुरार्पणम् | मण्डलस्योत्तरे भागे शालां पूर्वापरायताम् | गूढां कुर्ययात्ततस्तस्यां मण्डलं रचयेत् सुधीः | पञ्चहस्तप्रमाणानि पञ्चसूत्राणि पातयेत् | पूर्वापरायतान्येषामम्भरुं द्वादशाङ्गुलम् | दक्षिणोत्तरसूत्राणि तद्वदेकादशार्पयेत् | पदानि तत्र जायन्ते चत्वारिंशत् प्रमार्ज्जयेत् | पंक्त्या वीथीश्चतस्रोऽन्तश्चतुष्कोभयपार्श्वयोः | वीथ्यौ द्वे च चतुष्कोष्ठमेकमत्रावशिष्यते | पदानि रञ्जयेत्तानि श्वेतपीतारुणासितैः | रजोभिः श्यामलेनाथ वीथीरापूरयेत् सुधीः | पात्राणि त्रिविधान्याहुरङ्कुरार्पणकर्म्मणि | पालिकाः पञ्चमुख्यश्च शरावाश्च ततः क्रमात् | प्रोक्ताः स्युः सर्वतन्त्रेषु हरिब्रह्मशिवात्मकाः | एषामुत्सेधतोऽन्वेयैः षोडशद्वादशाष्टभिः | अङ्गुलैः क्रमशस्तानि शुभान्यावेष्ट्य तन्तुना | प्रक्षाल्य देशिकस्तेषु पादेष्वाहितशालिषु | सगन्धदर्भकूर्च्चेषु पश्चिमादि निवेशयेत् | करीषबालुकामृद्भिस्तानि पात्राणि पूरयेत् | सुधावीजेन वीजानि दुग्धैः प्रक्षाल्य तत्त्ववित् | मूलमन्त्रत्रिजप्तानि पञ्चघोषपुरःसरम् | आशीर्वाग्भिर्द्विजातीनां मङ्गलाचारपूर्वकम् | निर्वपेत्तेषु पात्रेषु देशिको यतमानसः | शालिश्यामाढकीमुद्गतिलनिष्पात्रसर्षपाः | कुलत्थकङ्गुमाषाश्च वीजान्यङ्कुरकर्म्मणि | हरिद्राद्भिः समभ्युश्य वरुन्नैराच्छाद्य देशिकः | बलिं विविधपात्राणां दिक्षु पूर्वादितः क्षिपेत् | प्. २११) प्रणवाद्यैर्नमोऽन्तैश्च रात्रौ रात्रीशनामभिः | भूतानि पितरो यक्षा नागा ब्रह्मा शिवो हरिः | सप्तानामपि रात्रीणां देवताः समुदीरिताः | भूतेभ्यः स्युर्लाजतिलहरिद्रादधिशक्तवः | शाल्यः पितृभ्यः सतिलास्तण्डुलाः परिकीर्त्तिताः | करम्भलाजौ यक्षेभ्यो नारिकेलोदकान्वितम् | शक्तुं पिष्टञ्च नागेभ्यो ब्रह्मणे पङ्कजाक्षतम् | सपूपमन्नं सर्वाय विष्णवे स्याद्गुडौदनम् | ततो लोकेश्वरेभ्योऽपि विधिवद्वितरेद्बलिम् | दीक्षायामभिषेकेषु नववेश्मप्रवेशने | उत्सवेषु च सम्पत्त्यै विदध्यादङ्कुरार्पणम् || एतेषामर्थः || दीक्षादिवशात् पाकसप्तभिर्दिनैरित्यनेन दीक्षादिनमष्टमं यथा भवति तथा कर्त्तव्यमित्युक्तम् | विधिवदित्यनेन नवभिः पञ्चभिस्त्रिभिर्वा इत्यायातम् || तदुक्तं सिद्धान्तशेखरे || प्रतिष्ठायाञ्च दीक्षायां स्थापने चोत्सवे तथा | सम्प्रोक्षणे च शान्त्यर्थं विवाहे मौञ्जिबन्धने | सर्वमङ्गलकार्ययेषु कारयेदङ्कुरार्पणम् || महाकपिलपञ्चरात्रेऽपि || पुण्याहघोषणं कृत्वा ब्राह्मणैः सह देशिकः | मङ्गलाङ्कुरयज्ञञ्च कुर्ययात्तत्रैव वाहनि || प्रशस्तयागदिवसात् पुरस्तात् सप्तमेऽहनि शुभे नवमे वा | पञ्चमेऽठ सुदिने सुमुहूर्ते मङ्गलाङ्कुरविधिं विदधीत || गुरुर्विशुद्धः प्रागेव शुद्धाहात् सप्तमेऽहनि | सङ्कल्प्योपोष्य कर्त्तव्यमङ्कुरारोपणं शुभम् | कुर्ययान्नान्दीमुखश्राद्धं पूर्वेद्युः स्वस्तिवाचनम् | स्वगृह्योक्तप्रकारेण तदेतद्विदधीत वै | संहितायामपि || सर्वत्राभ्युदयश्राद्धमङ्कुरोत्पादनं तथा | आदावेव प्रकुर्वीत कर्म्मणोऽभ्युदयात्मनः || शालामिति विंशत्या तु करैर्मानं दशायामेन विष्तृतेति शालाया उत्तममानम् | अत्रैतावत्याः प्रयोजनाभावादर्द्धेन मध्यममानेन शाला कार्यया | तेन दशहस्तदीर्घा पञ्चहस्तायामा अत्र शाला कर्त्तव्या तामेव पूर्वापरायातामिति | दीर्घप्रहस्तचतुरस्ररूपां गूढां कपाटादिपरिवृतां दक्षिणैकद्वारवतीं निवाताञ्च कुर्ययात् | प्. २१२) तदुक्तं प्रयोगसारे || अर्वादुदक्स्थितां कृत्वा निवातां तां कुटीं दृढामिति | तत्र मण्डलकरणप्रकारमाह | पञ्चहस्तेति पूर्वपश्चिमक्रमेण पञ्चसूत्राणि पातयित्वा द्वादशाङ्गुलान्येकैकान्तरितान्येकादशसूत्राणि दक्षिणोत्तरक्रमेण पातयेत् तेन चत्वारिंशत्कोष्ठा भवन्ति | मार्जयेदिति पश्चादन्वेति || पंक्त्यावाह्य चतस्रो वीथीर्मार्ज्जयेत् मार्ज्जनप्रकारस्तु || प्रथमं पूर्वस्यां चतुष्कोष्ठात्मिकामेकां वीथीम् ततो दक्षिणस्यामष्टकोष्ठात्मिकामपराम् पश्चिमायां चतुष्कोष्ठात्मिकामन्याम् उत्तरस्यामष्टकोष्ठात्मिकामितराञ्च मार्जयेत् | ततः अन्तश्चतुष्कस्य उभयपार्श्वयोर्द्वे वीथ्यौ द्विद्विकोष्ठरूपे पुनर्मार्जयेत् | तेनात्र मण्डले चतुष्कोष्ठत्रयमवशिष्यते | तानि शिष्टानि चतुष्कोष्ठत्रयस्थानि द्वादशपदानि प्रत्येकं चतुष्कोष्ठं श्वेतादिभीरजोभीरञ्जयेत् | तत्र वायुपदे श्वेतं आग्नेये पीतं नैर्-ऋते अरुणं ईशाने कृष्णम् | ततः श्यामलेन वीथीरापूरयेत् | पत्राणीति स्थूलान्युच्चानि शरावाण्येव पालिकाशब्देनोच्यन्ते | पालिका एव नीचाः पञ्चमुखस्थिताः पञ्चमुख्य उच्यन्ते शरावाः प्रसिद्धा एव | पालिका हरिरूपाः पञ्चमुख्यो ब्रह्मरूपाः शरावाः शिवरूपाः | एतेन हरिब्रह्मेशा एषु पात्रेषु पूज्या इत्युक्तं भवति | तदुक्तं सारस्वततन्त्रे || प्रोक्तेषु तेषु पात्रेषु ब्रह्मविष्णुशिवान् यजेत् || सिद्धान्तशेखरेऽपि || सम्पूजयेत् शरावेषु रुद्रं चन्दनपुष्पकैः | पालिकासु तथा विष्णुं ब्रह्माणं घटिकासु चेति | उत्सेधत औन्नत्येन || महाकपिलपञ्चरात्रे || पालिका वक्त्रविस्तारा षोडशाङ्गुल उच्यते | भवेत्कण्ठविलञ्चास्या गुदेऽष्टाङ्गुलविस्तृतम् | पादपीठस्य विस्तारः षडङ्गुल उदाहृतः | चतुरङ्गुल उत्सेधस्तत्सन्धिश्चाङ्गुलद्वयम् | तत्सन्धेश्च भवेन्नाहः पादपीठार्द्धमेव च | भवेत् पञ्चमुखी चैवं घटिका सर्वकामदा | प्. २१३) चरतुङ्गुलविस्ताराण्याहुर्वक्त्राणि पञ्च वै | चत्वारि च चतुर्दिक्षु ऊर्द्ध्वमेकं यथाविधि | घटिकायामविस्तारो द्वादशाङ्गुल उच्यते | आचार्ययाः कथयन्त्येके षोडशाङ्गुलमेव वा | द्वादशाङ्गुलविस्तारं शरावस्य मुखं स्मृतम् | चतुरङ्गुलविस्तारमधस्तान्मूलमुच्यते | राघवभट्टधृतम् | तालमात्रमपि पञ्चमुखी स्याद्व्यासतोच्छ्रयमिता घटिका स्यात् | दिक्षु तन्मुखचतुष्टयमेकं मध्यमन्तु समवर्त्तितमागम् | अलविस्तृतमुखे तु शरावं व्यासतोच्छ्रयगतार्द्धमिताङ्घ्रिः | दण्डमस्य चरङ्गुलनाहं कण्ठमध्यविलवर्ज्जमदग्रम् | सम्भवे कनकरूप्यताम्रतो मार्त्तिकाण्यभिनवान्यथवा स्युः || सिद्धान्तशेखरे तु || यथासम्भवमानन्तु पालिकादि समाचरेदित्युक्तम् | शुभानीति कृष्णवर्णव्रणादिरहितानीति राघवभट्टः | तन्तुनेति त्रिगुणेन पूर्वं प्रक्षालनं पश्चात्त्रिगुणतन्तुना वेष्टनम् | दर्भकूर्च्चमग्रे वक्ष्यमाणम् | पश्चिमादीति पश्चिमचतुष्के पालिकाचतुष्टयम् मध्यमचतुष्के पञ्चमुखीचतुष्टयम् पूर्वचतुष्के शरावचतुष्टयं निवेशयेत् | तन्मध्ये आग्नेयादिस्थापनम् | देशिक इत्यनेनोक्तम् || तदुक्तं प्रयोगसारे || एवं कृत्वा साधकस्तु तत्र पात्राणि विन्यसेत् | वह्न्यादीशानपर्ययन्तं चतुष्केषु पृथक् पृथक् | करीषेत्यादि || करीषं शुद्धगोमयचूर्णम् || एतैरुत्तरोत्तरं सर्वाण्यपि पात्राणि पूरयेत् | तदुक्तं हयशीर्षपञ्चरात्रे || पूरयेदुत्तरोत्तर इति | प्रयोगसारेऽपि | मृद्बालुकाकरीषैश्चोर्द्ध्वतः पात्राणि पूरयेदिति || अत्र विशेषः सिद्धान्तशेखरे || गन्धादिभिश्च कुद्दालं पूजयित्वा दिनान्तरे | गीतनृत्यसमायुक्तं गजवाजिसमन्वितम् | गुर्वादयो रथारूढा गजारूढास्तथा परे | गत्वा तीरं तडागस्य नद्याः पुष्पवनस्य वा | तत्र शुद्धं भुवो भागं दर्भैः सम्मार्ज्य वास्त्रतः | अभ्युक्ष्य चार्घ्यतोयेन तत्तन्मन्त्रमनुस्मरन् | हृदा भूमिं समावाह्य गन्धपुष्पैः समर्च्चयेत् | कुद्दालीमन्त्रमन्त्रेण खात्वा भूमिमथो मृदम् | प्. २१४) गृहीत्वा वामदेशेन पूरयेत् कांस्यपात्रके | हृदा मृदन्तु सम्मृज्य वस्त्रेणाच्छाद्य धारयेत् | पुरं वा निलयं वापि सर्वमङ्गलनिस्वनैः | गुरुः प्रदक्षिणं कृत्वा मण्डपं वानयेत्ततः | तत्तत्कर्म्म दिवाकाले कुर्ययाद्रात्रौ न बुद्धिमान् | तेषु वीजारोपणमाह सुधेति || सुधावीजेन वमितिमन्त्रेण | दुग्धैः प्रक्षाल्येति | महाकपिलपञ्चरात्रे तु विशेषः || द्वादशाक्षरमन्त्रेण क्षालयित्वा तु वारिणेति || सारस्वतमतेऽपि || वीजानि तानि प्रक्षाल्य जलक्षीरेण च क्रमादिति | एतत्सर्वं तन्त्रविदित्यनेन सूचितम् | मूलेति मूलमन्त्रेण अभिजप्तानि अष्टोत्तरशतमित्यर्थः | तदुक्तं महाकपिलपञ्चरात्रे || सख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिष्विति || पञ्चघोषस्तु || पटहकांस्यमृदङ्गमुखवाद्यशङ्खाः | मङ्गलाचारेति | चतुरङ्गैः सुप्रसिद्धहुलहुलध्वन्यादिभिः | ततस्तानि वीजान्येकीकृत्य रात्रौ प्राङ्मुख उदङ्मुखो वा मूलमन्त्रेण पालिकादिषु निर्वपेदित्युक्तम् | तदुक्तं सिद्धान्तशेखरे | वीजमुख्येन मूलेन प्राङ्मुखो वाप्युदङ्मुखः | वापयेत् सर्ववीजानि पालिकादिष्वनुक्रमात् | वीजानामधिपः सोमस्तस्माद्रात्रौ तु निर्वपेत् || सारस्वतमतेऽपि || वीजेभ्यो दैवतेभ्यश्च स रात्रौ कान्तिमान् यतः | तस्माद् गुरुस्तु वीजानि निशायामेव वापयेदिति || वीजान्याह शालीति | शालयो हैमन्तिकाः श्यामाः श्यामाकाः | कान्यकुब्जभाषायां साम्बा इति | गौडभाषायां शामा इति प्रसिद्धिः | आढकी तुवरी अरहर इति गौडभाषाप्रसिद्धिः | निष्पावा वोरा इति गौडभाषाप्रसिद्धिः | सारस्वतमते प्रत्येकं वीजेषु देवतापूजोक्ता यथा | स्कन्दं प्रियङ्गौ निष्पावे वायुमग्निं कुलत्थके | आढक्यां निर्-ऋतिं सोमं मुग्धे ! वैवस्वतं तिले | प्रजापतिं शालिवीजे त्वनन्तं सर्षपेऽर्च्चयेत् | इमं श्यामे च माषे च वरुणन्तु नगात्मजे ! इति | प्. २१५) सिद्धान्तशेखरे तु प्रत्यहं सोमपूजाजाप्युक्ता यथा | सोमं सम्पूजयेन्नित्यमधिवासदिनावधि | अधिवासदिने प्राप्ते सोममुल्लासयेद्गुरुरिति | हरिरिन्द्रेति तत्तन्मन्त्रे उक्तः | प्रयोगसारे | त्रिपञ्चकाय सर्वाय शङ्कराय शिवाय च | सर्वलोक प्रधानाय शाश्वताय नमो नमः | विकीर्ययानेन मन्त्रेण हरिद्रा चूर्णमिश्रितम् | तोयं प्रवर्षयेत्तेषु सिञ्चेत् तोयैर्दिनं प्रति | प्रतिदिनमित्यर्थः | वस्त्रैर्नूतनवस्त्रैः | बहुवचनं कपिञ्जलाधिकरणन्यायेन त्रित्वे पर्ययवस्यति | आच्छाद्येति पात्रचतुष्टयमेकैकेन रात्रौ बलिं क्षिपेदित्यन्वयः | प्रातः पुनः स्थलमार्जनादि कृत्वा द्वितीयरात्रादौ बलिदानं प्रणवाद्यैरिति तत्र मन्त्रः | ओं भूतेभ्यो नम एवमन्यत्रापि मन्त्रः | महाकपिलपञ्चरात्रे तु विशेषः | ततो गन्धविमिश्रेण सिञ्चेद्वै शुद्धवारिणा | त्रिरात्रन्तु यथान्यायं पञ्चरात्रमथापि वा | सारस्वतमते तु | प्ररूढान्यङ्कुराण्यन्यो न वीक्षेत कदाचन | आचार्यय एव प्रविशेत् शिष्यो वापि तदा ज्ञयेति || सिधान्तशेखरेऽपि || वस्त्रैराच्छाद्य यत्नेन सुगुप्तानि च कारयेत् | सप्तसु रात्रिषु पृथग्बलिद्रव्याण्याह भूतेभ्य इति | करम्भो दधिशक्तवः | अक्षता अखण्डतण्डुला इति राघवभट्टः | श्राद्धतत्त्वधृतवचने अक्षता यवा इति | यदा नवसु रात्रिषु बलिदानं तदा रात्रिद्वये बलिदानम् | द्रव्यं देवता च पुरैवोक्तम् | तत्तद्दिशि पायसादिना बलिर्विधेयः | तत्रेशानपूर्वयोर्मध्ये ब्रह्मणे नैर्-ऋतपश्चिमयोर्मध्येऽनन्ताय बलिर्देयः || अथाङ्कुरपरीक्षा || सिद्धान्तशेखरे | यजमानाभिवृद्ध्यर्थमङ्कुराणि परीक्षयेत् | सम्यगर्द्धं प्ररूढानि कोमलानि सितानि च | धूम्रवर्णान्यपूर्वाणि तथा तिर्ययग्गतानि च | श्यामलानि च कुब्जानि वर्जयेदशुभानि तु | आवृष्टिं कुरुते कृष्णं धूम्राभं कलहं तथा | अपूर्वं जननाशञ्च कुभिक्षं श्यामलाङ्कुरम् | तिर्ययग्गते भवेद्व्याधिः कुब्जे शत्रुभयं तथा | प्. २१६) सारस्वतमतेऽपि || प्ररूढैरङ्कुरैः कर्त्तुर्निर्दिशेच्च शुभाशुभम् | श्यामैः कृष्णैरङ्कुरैरर्थहानिस्तिर्ययग्रूढैर्व्याधिरान्दोलितैस्तैः | कुब्जैर्दु.खं दुष्प्ररूढैर्मृतिश्च रोगं भुग्ने स्थानदेशेष्टहानिरिति || अशुभे चाङ्करे जाते शान्तिहोमं समाचरेत् | मूलमन्त्रेण जुहुयाद् गुरुश्च ब्राह्मणैः सह | अघोरास्त्रेण चास्त्रेण शतं वाथ सहस्रकमित्यङ्कुरारोपणम् || इति श्रीप्राणतोषिण्यां द्वितीये धर्मकाण्डे गुरुशिष्यविचाराद्यङ्कुरारोपणान्तकर्मकथनरूप-पल्लवकथनं नाम तृतीयः परिच्छेदः | दीक्षाव्युत्पत्तिस्तु रुद्रजामले | ददाति शिवतादात्म्यं क्षिणोति च मलत्रयम् | अतो दीक्षेति सम्प्रोक्ता दीक्षातन्त्रार्थवेदिभिः || लघुकल्पसूत्रे च || दीयते परमं ज्ञानं क्षीयते पापपद्धतिः | तेन दीक्षोच्यते मन्त्रे स्वागमार्थबलाबलात् | योगिनी तन्त्रे तृतीयभागे षष्ठपटलेऽपि | दीयते ज्ञानमत्यर्थं क्षीयते पाशबन्धनम् | अतो दीक्षेति देवेशि ! कथिता तत्त्वचिन्तकैः | मनसा कर्मणा वाचा यत् पापं समुपार्जितम् | तेषां विशेषकरणी परमज्ञानदा यतः | तस्माद्दीक्षेति लोकेऽस्मिन् गीयते शास्त्रवेदकैः | विज्ञानफलदा सैव द्वितीया लयकारिणी | तृतीया मुक्तिदा चैव तस्माद्दिक्षेति धीयते || विश्वसारतन्त्रे द्वितीयपटले च || अथ दीक्षां प्रवक्ष्यामि शृणुष्व कमलानने ! | यस्य विज्ञामात्रेण देवत्वं लभते नरः | दिव्यज्ञानं यतो दद्यात् कुर्ययात् पापक्षयं ततः | तस्माद्दीक्षेति सा प्रोक्ता सवतन्त्रस्य सम्मता || अथ दीक्षामाहात्म्यम् | रुद्रजामलपूर्वखण्डे तृतीयपटले || देवि ! दीक्षाविहीनस्य न सिद्धिर्न च सङ्गतिः | तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् | विचारं चक्रसारस्य करणीयमवश्यकम् | अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत् | प्. २१७) तस्माद्दीक्षां प्रयत्नेन सदा कुर्ययाच्च तान्त्रिकीम् || पञ्चदशपटले || अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः | न भवन्ति प्रिये ! तेषां शिलायामुप्तवीजवत् | कल्पसूत्रटीकाधृतकुलार्णवतन्त्रे || रसेन्द्रेण यथा विद्धमयः सुवर्णतां व्रजेत् | दीक्षाविद्धस्तथैवात्मा शिवत्वं लभते प्रिये ! | दीक्षाग्निदग्धकर्मासौ यायाद्विच्छिन्नबन्धनः | गतस्तस्य कर्मबन्धो निर्जीवश्च शिवो भवेत् | गतं शूद्रस्य शूद्रत्वं विप्रस्यापि च विप्रता | दीक्षासंस्कारसम्भिन्ने जातिभेदो न विद्यते | शिवलिङ्गे शिलाबुद्धिं कुर्वन् यत्पापमाप्नुयात् | दीक्षितस्यापि पूर्वत्वं स्मरन् तत्पापमाप्नुयात् | दार्वश्मलौहमृद्रत्नजातिलिङ्गं प्रतिष्ठितम् | यथोच्यते तथा शुद्धाः सर्वे वर्णाश्च दीक्षिताः | येन पूजितमात्रेण चाब्रह्मभुवनान्तिकम् | पूजितं तेन सर्वं स्याद्दीक्षितेन न संशयः | दीक्षितस्य न कार्ययं स्यात्तपोभिर्नियमव्रतैः | न तीर्थगमनेनापि न च शारीरयन्त्रणैः || पञ्चमखण्डे षष्ठोल्लासेऽपि | गवां सर्पिः शरीरस्थं न करोत्यात्मपोषणम् | स्वकर्मचरितं दण्डं पुनस्तामेव पोषयेत् | एवं सर्वशरीरस्थसर्पिर्वत् परमेश्वरि ! | विना चोपासनाद्देवि ! न ददाति फलं नृणाम् || पुरश्चरणरसोल्लासे प्रथमपटले | न च दीक्षापरं ज्ञानं न च दीक्षापरं तपः | न च दीक्षापरं कालं तस्माद्दीक्षा गरीयसी || इति दीक्षाप्रशंसा || दीक्षायां वारतिथिनक्षत्रमासादिभद्राभद्रे अस्मदत्यतिवृद्धप्रपितामहकृष्णानन्दागमवागीशेन तन्त्रसारे लिखिते ते तत्र द्रष्टव्ये | विशेषस्तु पुरश्चरणरसोल्लासे || दीक्षायां चञ्चलापाङ्गि ! न कालनियमः क्वचित् | सद्गुरोर्दर्शनादेव सूर्ययपर्व च सर्वदा | शिष्यमाहूय गुरुणा कृपया यदि दीयते | तत्र लग्नादिकं किञ्चिन्न विचार्ययं कदाचन | एतत् सर्वं दिव्यवीरविषयम् | तथा च इतः पूर्वम् | दिव्यवीरगुरुं लब्ध्वा दीक्षां कृत्वा विचक्षणः | प्. २१८) ततः समाहितो भूत्वा पुरश्चर्ययां करिष्यति | इत्युक्तम् एतेन पशुगुरुतो दीक्षायां सर्वं विचार्ययमित्यायातम् | कल्पसूत्रटीकाधृतकुलार्णवे || द्विजोऽपि दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः | द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रस्य निर्णयः | ज्येष्ठत्वेन च ते पूज्या नावमान्याः कथञ्चन || इति दीक्षाज्येष्ठत्वादिकथनम् || कुलार्णवेऽपि || दीक्षां विना न मोक्षः स्यात् प्राणिनां शिवशासनात् | सा च न स्याद्विनाचार्ययमित्याचार्ययपरम्परा | उपासनाशतेनापि यां विना नैव सिध्यति | तां दीक्षामाश्रयेद् यत्नात् श्रीगुरोर्मन्त्रसिद्धये || महाकपिलपञ्चरात्रनारायणीययोः || मन्त्रो यः साधयेदेकं जपहोमार्चनादिभिः | क्रियाभिर्भूरिभिर्यस्य सिध्यन्त्यन्येऽल्पसाधनात् | सम्यक् सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन | बहुमन्त्रवतः पुंसः का कथा हानिरेव सः | इत्येकमन्त्रसाधनफलं राघवभट्टधृतम् || पुस्तके लिखितो मन्त्रो येन सुन्दरि ! जप्यते | न तस्य जायते सिद्धिर्हानिरेव पदे पदे || षट्कर्मदीपिकाधृतमपि || पुस्तके लिखिता विद्या येन सुन्दरि ! जप्यते | सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि | राघवभट्टधृतम् || द्विजानामनुपेतानां षट्कर्माध्ययनादिषु | यथाधिकारो नास्तीहस्याच्चोपनयनादनु | तथाचादीक्षितानाञ्च मन्त्रदेवार्चनादिषु | नाधिकारोऽस्त्यतः कुर्ययादात्मानं शिवसंस्कृतमिति || दीक्षाया अकरणे दोषकथनम् || नारायणीये || यदृच्छया श्रुतं मन्त्रं छन्नेनापि छलेन वा | पत्रेक्षितं वा यथावत्तज्जघन्यमनर्थकृत् || इति निन्द्यदीक्षाकथनम् || राघवभट्टेऽपि || विप्रस्य विधिवद्दीक्षामभिषेकाव्रसानिकाम् | श्रुत्वा तन्त्रं गुरोर्लब्धं साधयेद्दीक्षितं मनुम् | गुरुमुख्याः क्रियाः सर्वा भुक्तिमुक्तिफलप्रदाः | तस्मात् सेव्यो गुरुर्नित्यं मुक्त्यर्थं सुसमाहितैः | गुर्वनुक्ताः क्रियाः सर्वा निष्फलाः स्युर्यतो ध्रुवम् | प्. २१९) जपो होमार्चनविधिः कार्ययो दीक्षान्वितैर्नरैः || इति दीक्षाविधिकथनम् || मूलसूत्रम् || दीक्षास्तिस्रः शाक्ती शाम्भवी मान्त्री चेति | तत्र शाक्ती शक्तिप्रवेशनात् शाम्भवी चरणविन्यासात् मान्त्री मन्त्रोपदिष्टा सर्वाश्च कुर्ययादेकैकमित्येके | एतद्व्याचक्षते श्रीशङ्कराचार्ययाः | शाक्तीति शक्तिः कुण्डलिनी परचिद्रूपा तस्याः क्रियासमभिव्याहारेण कुलाकुलभेदाद्ब्रह्मनाड्यां परशम्भुमेलनं शक्तिप्रवेशः | शाम्भवी चरणविन्यास्यादिति ते चरणाश्चत्वारः शुक्लरक्तमिश्रपरस्वरूपाः | मान्त्री मन्त्रोपदिष्टेति | तदुक्तं रुद्रजामले || शाक्ती शक्तिभवा दीक्षा शक्तिः श्रीपरकुण्डली | तस्याः प्राणविलोमेन प्रवेशः परशाम्भवे | चरणद्वयसम्भूता शाम्भवी शीघ्रसिद्धिदा | मान्त्री मन्त्रोद्भवा दीक्सा तच्छक्तिः स्वात्मसम्भवा | मन्त्रयन्त्रार्च्चनादुक्त क्रियाभिर्भोगमोक्षदा | चरणद्वयं शिवशक्तिरूपम् | तत्र सत्त्वप्रधानः शुक्लः रजःप्रधानो रक्तः तमःप्रधानो मिश्रः | गुणातीतो निर्वाणः | साक्षात् परमानन्दनिर्भरः सदाशिवस्वरूपः | सहस्रदलकमलकर्णिका-मध्यवर्त्ति- चन्द्रमण्डलगतपीयूषधाराप्लाव्यमानाश्चिन्तनीयाः | उक्तञ्च भगवता दत्तात्रेयेण || भ्रूमध्यगौ विधिहरौ तव शुक्लरक्तौ पादौ रजोमलगुणौ खलु सेव्यमानौ | सृष्टिस्थिती वितनुतो हृदये तृतीयमाद्यं भजन् हरति विश्वमुदग्रमुग्रः | तूर्यं तवार्ययचरणं निरुपाधिबोध्यम् सान्द्रामृतं शिवपदे सततं नतोऽस्मि || रुद्रजामले || त्रिविधा सा भवेद्दीक्षा प्रथमा आणवी परा | शाक्ती च शाम्भवी चान्या सद्यो मुक्तिविधायिनी | मन्त्रार्चनासनन्यासध्यानोपचारकादिभिः || दीक्षा सा आणवी प्रोक्ता यथाशास्त्रोक्तरूपिणी | सिद्ध्यै च शक्तिमालोक्य तया केवलया शिशोः | निरुपायं कृता दीक्षा शाक्तेयी परिकीर्त्तिता | प्. २२०) अभिदन्धिं विनाचार्ययशिष्ययोरुभयोरपि | देशिकानुग्रहेणैव शिष्यता व्याप्तिकारिणी || षडन्वयमहारत्नेऽपि || त्रिविधा सा भवेद्दीक्षा प्रथमा आणवी परा | शाक्तेयी शाम्भवी चान्या सद्योमुक्तिविधायिनी | मन्त्रार्चनासनध्यानस्थापनोपासनादिभिः | कृता दीक्षा सा त्वाणवी प्रोक्ता यथाशास्त्रोक्तरूपिणी | सिद्ध्यै स्वशक्तिमालोक्य तया केवलया शिशोः | निरुपायं कृता दीक्षा शाक्तेयी परिकीर्त्तिता | अभिसन्धिं विनाचार्ययशिष्ययोरुभयोरपि | देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी | सेयन्तु शाम्भवी दीक्षा शिवादेशनकारिणी | वायवीयसंहितायामपि | शाम्भवी चैव शक्ती च मान्त्री चैव शिवागमे | दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना | गुरोरालोकमात्रेण स्पर्शात् सम्भाषणादपि | सद्यः संज्ञा भवेज्जन्तोर्दीक्षा सा शाम्भवी मता | शाक्ती ज्ञानवति दीक्षा शिष्यदेहं प्रविश्य तु | गुरुणा ज्ञानमार्गेण क्रियते ज्ञानचक्षुषा | मान्त्री क्रियावती दीक्षा कुम्भमण्डलपूर्विका || इति नामक्रियाभेदाद्दीक्षाभेदकथनम् || दीक्षाभेदान्तरन्तु शारदायां चतुर्थपटले || चतुर्विधा सा सन्दिष्टा क्रियावत्यादिभेदतः | क्रियावती वर्णमयी कलात्मा वेधमययपि || प्रयोगसारे || मन्त्रमार्गानुसारेण साक्षात्कृत्वेष्टदेवताम् | गुरुश्चोद्बोधयेच्छिष्यं मन्त्रदीक्षेति सोच्यते || सूत्रान्तरमाह सर्वाश्च कुर्ययादेकैकां वेत्येके || रुद्रजामले || आणवी बहुधा दीक्षा शाम्भवी च तथा पुनः | एकैका वापि विद्वद्भिः पठ्यते शास्त्रकोविदैः | शिवशक्तिसमायोगाज्जन्मान्तरकृतात् शुभात् | शिवपूजानुसन्धानात् कर्मसाम्यं यदा भवेत् | शिव एव तदा साक्षादाणव्या दीक्षया भवेत् | इति दीक्षाफलकथनम् || विश्वसारतन्त्रे || चतुर्विधा तु सा दीक्षा ब्रह्मणा भाषिता पुरा | क्रियावती कलावती वर्णवेधमयी गुनः | प्. २२१) ताः क्रमेणापि कथ्यन्ते सर्वसम्पत्प्रदाः शुभाः || एवं सर्वासां दीक्षाणां मानसादिकैवल्यान्तं समानमेव फलम् || तदुक्तं रुद्रजामले || सर्वासासेव दीक्षाणां मुक्तिः फलमखण्डितम् | अविरोधाद्भवत्येषा प्रासङ्गिक्यस्तु भक्तयः || अथाधिवासविधिः || तत्रादौ गृहप्रवेशानन्तरं विघ्ननिवारणपूर्वकं सूर्ययः सोमादि पठित्वा भूरसीत्यादि मन्त्रैर्घटस्थापनं कुर्ययात् | तदुक्तं विश्वसारतन्त्रे तृतीयपटले || गुरुणा वात्मना शिष्यः सर्वं कुर्ययाद्विधानतः | गुरुणा कारयेत् कर्म शिष्यः सर्वं हरेत् सुधीः | चन्दनागुरुकर्पूरैर्धूपयेद् यागमण्डपम् | गृहं प्रविश्य विधिना तत्र विघ्नान् विनाशयेत् | कृताञ्जलिपुटो भूत्वा मन्त्रमेनं समुच्चरेत् | ओं सूर्ययः सोमो यमः कालो महाभूतानि पञ्च च | एते शुभाशुभस्येह कर्मणो नव साक्षिणः | घटस्यारोपणं कुर्ययान्मन्त्रेणानेन देशिकः | घटारोपणमन्त्रोऽयं सर्वतन्त्रेषु सम्मतः | ओं भूरसि भूमिरस्यदितिरसि विश्वधा या विश्वस्य भुवनस्य धर्त्री पृथिवीं यच्छ पृथिवीं दृंह पृथिवीं मा हिंसीः भूमिशोधनमित्युक्तं सर्वतन्त्रसमन्वितम् | मन्त्रेणानेन देवेशि | शुक्लधान्यं विनिक्षिपेत् | ओं धान्यमसि धिनुहि देवान् धिनुहि यज्ञं धिनुहि यज्ञपतिं धिनुहि मां यज्ञनम् | ओं प्राणो मन्त्रो दा नाम त्वा कामाय मत्वा दीर्घा ननु प्रमितिदशानुमेषां देवो वः सविता हिरण्यपाणिः | प्रतिगृह्णात्यच्छिद्रेण शिलाचक्षुषे त्वा मही मां पयोऽसि | हस्तमानं घटं कृत्वा नवरत्नोदरेण च | घटं संस्थापयेत्तत्र मन्त्रेणानेन देशिकः | ओं आजिघ्र कलसं मह्यात्मा विशन्तुन्दवम् | पुनरूर्जानि वर्त्तस्व सा नः || सहस्रं धुक्षोरुधारा पयस्वती पुनर्माविशता द्रयिः | मन्त्रेणानेन देवेशि ! घटं संस्थापयेत्ततः | मुक्तामाणिक्यवैदूर्ययगोमेदवज्रविद्रुमान् | पद्मरागं मरकतं नीलञ्चैव क्रमान्नव | नवरत्नानि तत्रैव निक्षिपेद् विभावावधि | प्. २२२) मेरुतन्त्रेऽपि | पुष्पं नीलञ्च वैदूर्ययं विद्रुमं मौक्तिकं तथा | ततो मरकतं वज्रं गोमेदं पद्मरागकम् | प्रोक्तानि नवरत्नानि देशिकैर्मन्त्रवित्तमैः | ओं आप्यायस्व समेतु ते विश्वतः सोमवृष्ट्यं भवावाजस्य सङ्गये | मन्त्रेणानेन देवेशि ! जलं दद्याद्घटोपरि | ओं धन्नना गा धन्नना जिञ्जयेम धन्नना तीव्राः समदो जयेम | धनुः शत्रोरपकामं कुणोतु धन्ननाः सर्वाः प्रदिशो जयेम | मन्त्रेणानेन देवेशि ! शाखां दद्याद्घटोपरि | ताम्बूलं श्रीफलं दद्यात् कदलीं वा विशेषतः || ओं श्रीश्च ते लक्ष्मीश्च पत्न्या अहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ | व्याप्तमिष्टुमीशानमुं म ईशानः सर्वलोकमहेशानः || मन्त्रेणानेन देवेशि ! घटे पुष्पं विनिक्षिपेत् | सफलं शालिचूर्णञ्च शरावञ्च घटोपरि | विनिक्षिप्याथ विधिना क्षीरशाखिसमन्वितम् | सुवस्त्राच्छादनं कुर्ययान्मन्त्रेणानेन साधकः | ओं वस्त्रञ्च पावनं श्वेतं बहुतन्तुविनिर्मितम् | मया निवेदितं भक्त्या वस्त्रञ्च प्रतिगृह्यताम् | क्वाथितो जम्बुचूर्णेन इन्द्रबल्लीदलेन च | घटं संवेष्ट्य विधिना सिन्दूरादिविभूषितम् | स्थापयेत्तं घटं मन्त्रमुच्चार्य यत्नतः सुधीः || क्वाथितो जम्बु चूर्णेनेति प्रदर्शनार्थमुक्तमन्येनापि तद्विशेषो मेरुतन्त्रे तृतीयप्रकाशे || पञ्चाशदोषधीः क्वाथैः पूरयेत्तदनन्तरम् | एकेन सहितास्ताश्च वर्णौषध्यः क्रमादिमाः | चन्दनञ्चापि रक्ताख्यचन्दनञ्चागुरुस्तथा | कर्पूरोशौरकुष्ठानि बालकञ्चापि केशरम् | कक्कोलकं जातिफलं जटामांसीं मुरां तथा | ग्रन्थिकं रोचना जातीपत्रं पिप्पलविल्वकौ | पृश्निपर्णी चित्रकञ्च करङ्गं कत्तृणं तथा | कट्फलञ्चापि गुञ्जा च दद्रुहं वककाश्मरी | पद्मकोषं शङ्खपुष्पी मयूरस्य शिखा तथा | प्लक्षोऽग्निमन्थश्च तथा मुद्गपर्णी कुशाः पुनः | पाषाणभेदकः कृष्णशङ्खपुष्पी च रोहिणी | श्योणाकोवृहती चैव पाटली मुखकर्णिका | प्. २२३) तुलसी शिखरा इन्द्रवल्ली भृङ्गाभिधा पुनः | ततोऽपराजिता तालमूली चापि कृताञ्जली | दूर्वा श्रीदेवकन्याख्या भार्ग्याख्या भद्रमुस्तकम् | लवङ्गरहिताश्चैताः पञ्चाशत्संख्यका इति || यद्यपि प्रथमकाण्डे पञ्चाशदोषधयो निरूपितास्तथाप्येकपञ्चाशत्त्वप्राप्त्यर्थमुक्तस्य दुरूहत्वनिवृत्तये क्रमभेदज्ञापनाय च पुनर्दर्शिताः | दुग्धवृक्षत्वचः क्वाथैर्ब्रह्मवृक्षोद्भवैस्तथा | गन्धपङ्कप्रसूनादिवासितैर्वाशृतैर्जलैरिति | ततो घटं स्थिरीकुर्ययात् यावद्दीक्षाविधिर्भवेत् | ओं स्थिरो भव विडङ्ग आशुर्भव वायवर्वन् पृथुर्भव सुषदस्थमग्ने पुरीशराहनः | मन्त्रेणानेन देवेशि ! स्थिरीकरणमुत्तमम् | ततः कृताञ्जलिर्भूत्वा मन्त्रमेनं पठेत्ततः | ओं गुरुभ्यो गणपतिभ्यश्च वो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः | व्रातेभ्यो व्रातपतिभ्यश्च नमः | नमो गृह्येभ्यो गृह्यपतिभ्यश्च वो नमः | पुण्याहं वाचयेदादौ स्वस्तिवाचनपूर्वकम् || ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षोऽरिष्टनेमिः | स्वस्ति नो वृहस्पतिर्दधातु || अस्त्राय फडिति मन्त्रेण भौमान् विघ्नान् विदारयेत् | दिव्यदृष्ट्या दिव्यविघ्नान् दूरयेच्च चतुर्दिशि दिव्यदृष्टिलक्षणं तत्रैव | अनिमेषाक्षिदृष्टिश्च दिव्यदृष्टिः प्रकीर्त्तिता | माषभक्तेन चान्नेन यावकेन च संयुतम् | अजाकर्णस्य रक्तेन दुग्धेन मधुरेण च | माषभक्तबलिं दद्याद्भूतप्रेतपिशाचके | ओं भूताः प्रेताः पिशाचाश्च पातालभूतले स्थिताः | पर्वताग्रे तथा वृक्षे गृहक्षेत्रादिषु स्थिताः | तुष्टा भवन्तु ते सर्वे मम गृह्णन्त्विमं बलिम् | यजेच्च रक्तकुसुमैरक्तमाहिंषशोणितैः | मत्स्यमांसादिभिर्भृष्टैर्दुग्धैश्च विधिनामुना | बलिं दद्याच्च तत्रापि तदा मङ्गलमारभेत् | दीक्षाया धर्म्मकर्म्मरूपत्वेन तत्र विघ्ननिरास उक्तो योगिनीतन्त्रे उत्तरखण्डेऽष्टमपटले | तीर्थे प्रासादकरणे धर्मारम्भे विशेषतः | प्. २२४) व्रतयज्ञसमारम्भे विघ्नानि निवसन्ति वै | तानि सम्पूजयेदादौ बलिभिर्मोदकादिभिः | अन्यथा जायते विघ्नमिति जानीहि मे प्रिये ! | अथापराणि विघ्नानि शरीरे निवसन्ति वै | मानसाज्ञाननिर्हारास्तानि शृणु मम प्रिये ! | कश्चिन्निवर्त्तको देवि ! कश्चित् प्रवर्त्तकस्तथा | सन्निकर्षं विदूरं वा सहस्रं फलमेव वा | पापानुसरणञ्चैव आलस्येनापि दूषणम् | शोकमोहज्वराव्याधितारुण्यं धनलालसा | कलहं भार्ययया सार्द्धं दुर्भिक्षं गृहसङ्गटम् | नानाव्रतसमाकीर्णं धार्मिकोऽस्मीतिमानसः | प्राप्तशोकस्तु धर्म्मस्य कारणे हीनपत्निकम् | वृक्षपत्रञ्च तुलसी धात्री वृक्षफलं तथा | शालग्रामं शिलाखण्डं प्रतिमां दारुजां तथा | मानुषं ब्राह्मणञ्चैव स्वयम्भूवर्त्तुलां शिलाम् | शङ्खं शम्बूकभेदञ्च खड्गस्य मांससम्भवम् | दृष्ट्यादावाभवेदेवं तीर्थजातं जलं तथा | गङ्गायां वा नदीरूपं पुण्यक्षेत्रञ्च भूमिकाम् | इत्येतानि च विघ्नानि संयान्ति च पुनः पुनः | पूजयित्वा विधानेन द्वारदेशे न साधयेत् | कवचेनैव वीजेन सप्तकृत्वो जपेन च | निःसार्यय विघ्नान् तान् सर्वान् तदा रक्षां दिशेत् पुनः || विश्वसारतन्त्रे || आत्मानं रक्षयेत् तत्र वह्निप्राचीरयोगतः | वह्निवीजे चतुर्दिक्षु प्राचीरं भावयेद्धिया | तदा तालत्रयं दद्याद्वह्निवीजेन देशिकः | ऊर्द्ध्वोर्द्ध्व क्रम योगेन गुरूंश्च प्रणमेत्ततः | ओं गुरुभ्यो नमो नित्यं तदा च गुरुपादुकाम् | परं परापरं देवि ! परात्परमतः परम् | क्रमेण प्रणमेद्धीमान् ओंकारादि उदीरितान् | गणेशं दक्षिणे नत्वा सम्मुखे चेष्टवताम् | गणेशं स्थापयेत्तस्य पूर्वोक्ते तु घटे सुधीः | आवाहम्यहं देवं गणेशं शिवनन्दनम् | व्याघ्रचर्माम्बरधरं व्यालयज्ञोपवीतिनम् | गणकोट्या परिवृतं देवं मोदकभोजनम् | अविघ्नेशं महाकायं सर्वलोकैकपूजितम् | बलिनं सर्वशान्त्यर्थं रौद्रमावाहयाम्यहम् | प्. २२५) एह्येहि भगवन् ! देव ! सर्वविघ्नविनाशक ! | इमां पूजां गृहाण त्वं सर्वं मे सफलं कुरु | सिन्दूररक्तपुष्पाद्यैः पूजयेच्छिवनन्दनम् | अञ्जल्यावाहयेदादौ सर्वत्रायं विधिः स्मृतः | स्वागतादि ततः प्रश्नं प्रत्युत्तरसमन्वितम् | आसनन्तु ततो दत्त्वा पाद्यमर्घ्यं निवेदयेत् | ओं पाद्यं सुवासितं देव ! सर्वभूतसुखावहम् | दूरयात्राश्रमहरं पाद्यं तत्प्रतिगृह्यताम् | पाद्यं नमः पादयुगे स्वाहार्घ्यं शिरसि स्थितम् | मधुपर्कं स्वधान्ते तु पुनराचमनीयकम् | स्नानीयञ्च नमो ब्रूयात् पुनर्गन्धादिकं ततः | वस्त्रं यज्ञोपवीतञ्च नमोऽन्ते परिकल्पयेत् | अन्नं भक्ष्यं स्वधान्ते तु धूपं दीपं विधानतः | क्रमेण निक्षिपेत्तत्र देवाय विधिनामुना | अर्घ्यपात्रे प्रदायार्घ्यं ततः शृणु वरानने ! | अर्घ्योदकं भवेच्छङ्खे स्यामाकयवदूर्वके | नानागन्धसमायुक्तं कुशांश्च तिलसर्षपम् | विष्णुक्रान्ताञ्च यवकं षडर्घ्योऽयं प्रकीर्त्तितः | ओं काण्डाच्चैव मन्त्रेण अर्घ्यं दद्याच्च साधकः | पाद्यमन्त्रेण कुर्वीत तथा चाचमनीयकम् | ओं नमः स्वाहासमायुक्तं ब्रह्मत्वफलहेतवे | मया निवेदितं भक्त्या मधुपर्कं गृहाण मे | मूलमन्त्रेण सर्वत्र ओंकारादिनमोऽन्विते || छान्दसत्वान्न वर्णनाशः | ओंकारादिनमोऽन्वितेन मूलमन्त्रेणेत्यर्थः || दध्ना च मधुसर्पिर्भ्यां मधुपर्कं प्रकीर्त्तितः | यज्ञोपवीतमन्त्रेण दद्याद्यज्ञोपवीतकम् | यज्ञोपवीतमन्त्रस्तु || ओं यज्ञोपवीतं परमं पवित्रं वृहस्पतेर्यत् सहजं पुरस्तात् | आयुष्यमग्रं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः || ओं नानारत्नैश्च घटितं विश्वकर्मादिनिर्मितम् | सर्वाङ्गशोभाभरणं गृहाण फलहेतवे | ओं वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः | आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् | ओं सुप्रकाशो महादीपः सर्वतस्तिमिरापहः | सवाह्याभ्यान्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् | प्. २२६) प्रदीपावलिभिः कुर्ययान्निकटे धूपदीपकौ | प्रक्षालनाय हस्तस्य पश्चात्पात्रं क्षिपेत् सुधीः | शातकुम्भप्रपूर्णेन मण्डपं रचयेत् सुधीः | गणेशं पूजयित्वा च अर्कं विष्णुं शिवं शिवाम् | पूजयेद्विधिना तत्र घटे सर्वसमृद्धये | कूर्च्चमुष्टिं क्षिपेदादौ फड्मन्त्रेण तु साधकः | तिलान् कुशान् सर्षपांश्च कूर्च्चमुष्टिः प्रकीर्त्तिता | विकिरान् प्रक्षिपेत्तत्र सप्त सप्त शराणुना || विकिरा दीक्षायां बक्ष्यन्ते || शराणुना अस्त्रमन्त्रेण | ततो गुरुः स वेद्यान्तु गत्वा स्वस्यासने विशेत् || मेरुतन्त्रे तृतीयप्रकाशे || सञ्चिन्त्यमन्त्रेण मूर्तिमेवं तस्मिन् गुरूत्तमः | तस्यां मूर्त्तौ समावाह्य पूजयेदिष्टदेवताम् | स्मृत्वा मूलमनुं मन्त्री सम्यङ्नाडीमुखात्ततः | निर्गमस्य च चैतन्यं नासिकाग्रविनिर्गतम् | अञ्जलौ मातृकापद्मे महः पुष्पान्विते गुरुः | मस्तकास्तं समुत्थाप्य तस्यामावाहयेत्ततः | संस्थापनं सन्निधानं सन्निरोधं ततश्चरेत् | सम्मुखीकरणञ्चापि सकलीकरणं ततः | ततोऽवगुण्ठनं कार्ययममृतीकरणं ततः | परमीकरणं कुर्ययात् क्रमशः स्वस्वमुद्रया | क्रमाद्विदध्याच्च तत उपचारान् प्रकल्पयेत् | आसनादि प्रभूतानां उपचारान् प्रकल्प्य च | ततो मन्त्रविधानेषु प्रोक्ताङ्गावरणान्यपि || पुनः पूर्वादिकाष्ठासु क्रमादस्त्रादिकान् यजेत् | लोकपालान् मण्डलेषु कुम्भोपरि च तत्र वा | ऐरावतं पुण्डरीकं वामनं कुमुदाञ्जनौ | पुष्पदन्तं सार्वभौमं सुप्रतीकं तदग्रतः | सर्वान्ते लोकपालानां तदस्त्राणां प्रपूजनम् | इन्द्रादिपूजनात् पूर्वं ब्राह्म्यादिपूजनमपि | तथा च विश्वसारे || अष्टदिक्षु चाष्ट कुम्भान् क्वाथतोयप्रपूरितान् | ब्राह्म्यादिमातृकाः पूज्याः सर्वतन्त्रसमन्विताः | ज्ञात्वा ज्ञानविधानेन गन्धपुष्पान्नवारिभिः | दण्डं कमण्डलुकरमक्षसूत्राभयं तथा | बिभ्रती कनकच्छायां ब्राह्मी कृष्णाजिनोज्ज्वला || १ || शूलं कपालं परशुं नृणां पोतं मनोहरम् | प्. २२७) वहन्ती हेमसङ्काशा ध्येया माहेश्वरी शुभा || २ || अङ्कुशं दण्डखट्वाङ्गं पाशञ्च दधती करैः | ध्येया बन्धूकसङ्काशा कौमारी शर्म्मदायिनी || ३ || चक्रं घण्टां गदां खड्गं बिभ्रती सुमनोहरा | तमालश्यामला ध्येया वैष्णवी शर्म्मदायिनी || ४ || मुषलं करबालञ्च खेटकं दधती हलम् | करैश्चतुर्भिर्वाराही ध्येया कालघनच्छविः || ५ || अङ्कुशं तोमरं विद्युत् कुलिशं बिभ्रती करैः | इन्द्रनीलनिमेन्द्राणी ध्येया सर्वसमृद्धिदा || ६ || शूलं कपालं नृशिरः कपालं दधती करैः | मुण्डस्रङ्मण्डिता ध्येया चामुण्डा रक्तविग्रहा || ७ || अक्षस्रजं वीजपूरं कपालं पङ्कजं करैः | वहन्ती हेमसङ्काशा महालक्ष्मीहरिप्रिया || ८ || मेरुतन्त्रे | विधाय पूजामेवं हि धूपदीपनिवेद्यकैः | कृते निवेद्ये च ततो मण्डलं परितः क्रमात् | प्रबालाङ्कुरपत्राणि स्थापनीयानि मन्त्रिणा | वेदिकाया दक्षभागे कृत्वा स्थण्डिलमुत्तमम् | संस्थाप्य वह्निं संस्कृत्य वैश्वदेवं समारभेत् | यथाविधि ततस्तत्र गन्धाद्यैर्देवतां यजेत् | ततः प्रणवपूर्वाभिर्हुत्वा व्याहृतिभिः पुरा | जुहुयान्मूलमन्त्रेण पायसेन घृतेन च | पञ्चविंशतिभिः पश्चाद्धुत्वा व्याहृतिभिः पुरा | सम्पूज्य तां चन्दनाद्यैः पीठमूर्तौ नियोजयेत् | अग्निं विसृज्य शिष्टेन पायसेन बलिं हरेत् | पार्श्वदेभ्यश्चन्दनादिपुष्पाक्षतसमन्वितम् | तत उत्थाप्य नैवेद्यं तत्स्थलं शोधयेत् सुधीः | पुनर्यजेच्चोपचारैः पञ्चभिर्दर्शयेत्ततः | दर्पणं व्यजनं छत्रं चामरं मुखवासकम् | सहस्रञ्च जपेन्मन्त्री मूलमन्त्रं समाहितः || विश्वसारे || जलं समर्प्य विधिना तदा कुर्वीत मङ्गलम् | द्विजस्त्रीणां ब्राह्मणानामाशीर्वादं प्रगृह्य च | जयशब्दैर्ब्रह्मशब्दैर्ब्राह्मणान् परितोष्य च | बन्धुवर्गं प्रतोष्याथ अधिवासं ततो दिशेत् | मन्त्रेणानेन द्रव्येण क्रमेण देशिकोत्तमः | अधिवासं अकुर्वीत शिष्यस्य सावधानतः | प्. २२८) ओंकारं पूर्वमुच्चार्यय नमोऽन्तेन समर्पयेत् | ओं भूरसीति च मन्त्रेण मृत्तिकां प्रक्षिपेत्ततः | ओं गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् | ईश्वरीं सर्वभूतानां त्वामिहोपह्वये श्रियम् | गन्धं दद्याच्च विधिना मन्त्रेणानेन साधकः | ओं प्रपर्वतस्य वृषभस्य पुष्टां वावश्चरन्ती शशि च इयानाता आवृत्तमदधागुदक्ता | अहिं व्रध्नमनुरीषमणाविष्णोर्विक्रमणमसि विष्णोर्विक्रान्तमसि विष्णोः क्रान्तमसि वैष्णवे त्वा || मन्त्रेणानेन विधिना शिलां दद्याद्विचक्षणः | धान्यमन्त्रेण धान्यस्य दानं तन्त्रेषु सम्मतम् | ओं काण्डात् काण्डात् प्ररोहन्ती पुरुषं पुरुषः पवि | एतान् दूर्वे प्रतनु सहस्रेण शतेन च | मन्त्रेणानेन देवेशि ! दूर्वां दद्याद्विधानतः | ओं श्रीश्च तेति च मन्त्रेण पुष्पं दद्याद्विधानतः | ओं याः फलिनीति च मन्त्रेण फलं दद्याद्विचक्षणः | ओं दधिक्राव्रोऽत्यकार्षं जिष्णोरश्वस्य वाजि वः | सुरभीनो मुखाकरत् प्रणतानंसितायत् | मन्त्रेणानेन तं ध्यात्वा अधिवासं समादिशेत् | ओं घृतवती भुवनानामभित्रियोर्वी पृथ्वीमधुदुघे सुपेशसा | द्यावापृथिवी वरुणस्य धर्मणा विष्कभीते अजरे भूरिरेतसा | मन्त्रेणानेन देवेशि ! दद्याच्छिष्यस्य मस्तके | ओं स्वस्ति न इति मन्त्रेण स्वस्तिकं विनिवेदयेत् | ओं सिन्धोरिव प्राध्वने सुघनासो वातप्रमीयपतन्ती जिह्वा घृतस्य धारा अरुषो न वाजीकाष्ठाभिन्दन्नूर्मिभिः पिन्नमानः | इति मन्त्रेण सुन्दूरं दद्याच्च शिष्यमस्तके | ओं शङ्ख ! त्वं शङ्खपुण्यानां मङ्गलानाञ्च मङ्गलम् | विष्णुता विधृता नित्यं मम शान्तिप्रदो भव | शङ्खस्पर्शनमन्त्रोऽयं सर्वतन्त्रस्य सम्मतः | ओं समिधोऽङ्गनं कृदरं मतीनां घृतमग्ने मधुमत् पिन्नमानः | वाजीवहन् वाजिनं जातवेदा देवानां वाक्षिप्रियमादधन्त | मन्त्रेणानेन देवेशि ! कज्जलं विनिसज्जयेत् | प्. २२९) ओं युञ्जन्ति व्रध्नमरुषं चरन्तं परितस्थुषः | रोचन्ते रोचना दिवि | रोचनां परितो दद्यान्मन्त्रेणानेन सुन्दरि ! | ओं अन्नषते अन्नस्य नो धेह्यन्नमीरस्य शुष्मिणः | प्रदातारं तार्ष ऊर्ज्जं नो धेहि द्विपदेशं चतुष्पदे | विश्वकर्म्मणे स्वाहा | मन्त्रेणानेन देवेशि ! स्पर्शनं परिकीर्त्तितम् | ओं हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः प्रतिरेक आसीत् | स दाधार पृथिवीं द्यामुतेमां कस्मैदेवाय हविषा लिधेम वा | मन्त्रेणानेन देवेशि ! काञ्चनं परितो न्यसेत् | ओं रूपेण वै रूपमर्त्यानां पुथोमा विश्ववेदा विभजतु मुत्तमस्य यथा वेदश्चन्द्रदक्षिणापश्यव्यन्तरीक्षं यत् सुषदुच्चैः | मन्त्रेणानेन देवेशि ! रूप्यं दद्याद्विधानतः | ओं असौ यस्ताम्रोऽरुण उत बभ्रुः सुमङ्गलः | ये चैनं रुद्रा अभितो दिक्षु श्रिताः | सहस्रशो वै यां हेलषीमहे | मन्त्रेणानेन देवेशि ! ताम्रं दद्याद्विधानतः | ओं रक्षोहनो बल्गहनः प्रोक्षयामि वैष्णवान् रक्षोहनो बल्गहनो बलयामि वैष्णवान् रक्षोहनो बल्गहनो वस्तृणामि वैष्णवान् रक्षोहनो बल्गहन उपदधामि वैष्णवं रक्षोहनो बल्गहनः पययमामि वैष्णवीन् वैष्णवमसि वैष्णवाः स्थ | मन्त्रेणानेन सिद्धार्थं दत्त्वा बालस्य मूर्द्धनि | ओं आकृष्णेन रजसा वर्त्तमानौ निवेशयन्न मृतं मर्त्यञ्च | हिरण्मयेन सविता रथेना देवो याति भुवनानि पश्यन् | मन्त्रेणानेन देवेशि ! दर्पणं प्रतिपदयेत् | ओं मनोज्योतिर्जुषतामाज्यस्य वृहस्पतिर्यज्ञमिमं तनोतु | अरिष्टं यज्ञमिमं दधातु विश्वे देवाः स इह मादयन्ता मोम्प्रतिष्ठ | मन्त्रेणानेन देवेशि ! दीपं दद्याद्विधानतः || ओं प्रतिपदसि प्रतिपदेत्वा अनुपदसि अनुपदे त्वा सम्पदसि सम्पदे त्वा तेजोऽसि तेजसेत्वा तेजोमयि धेहि | ओं प्रशस्तमात्रमसि भूतपात्रे शिरसार्थं मम कुरु सर्वं देवीचरयुगलं वन्दनीयम् || शारदातिलके चतुर्थपटले || प्. २३०) अस्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके ! | तण्डुलान् शालिसम्भूतान् मूलमन्त्राभिमन्त्रितान् | प्रसृतीनाञ्च दशभिः क्षिप्त्वा चान्त्रमौं जपेत् | प्रक्षाल्य प्रात्रवदनं विधाय कवचानुना | प्राङ्मुखो मूलमन्त्रेण देशिकेन्द्रश्चरुं पचेत् | श्रुवेणाज्येन संस्विन्ने दद्यात्तप्ताभिमारणम् | मूलेन पश्चात्तत्पात्रं कवचेनावतारयेत् | अस्त्रजप्ते कुशास्तीर्णे मण्डले विधिवद्गुरुः | तं विभज्य त्रिधा भागमेकं देवाय कल्पयेत् | अन्यदग्नौ च जुहुयादपरं देशिकः स्वयम् | शिष्येण सार्द्धं भुञ्जीत विहिताचमनं ततः | आचान्तं शिष्यमादाय सकलीकृत्य देशिकः | तालप्रमाणं हृज्जप्तं क्षीरिवृक्षादिसम्भवम् | दन्तकाष्ठं तदा दद्याच्छिष्याय नियतात्मने | दन्तान् विशोध्य स पुनस्तत् प्रक्षाल्य विसज्जने | यथाविधि तमाचान्तं शिखाबन्धाभिरक्षितम् | विधाय सार्द्धममुना वेद्यां दर्भान्तरे गुरुः | शयीत तस्यां तां रात्रिमधिवासः समीरितः || विशेषस्तु मेरुतन्त्रे तृतीयप्रकाशे अनुसन्धेयः || इति अधिवासविधिः || अथाङ्गुरारोपणप्रयोगः | तत्र दीक्षादिवशात् प्राक् नवमे सप्तमे पञ्चमे शुभे तस्मिन् वह्निमण्डपप्रान्तरे पञ्चहस्तमितानि प्रञ्चसूत्राणि पूर्वपश्चिमक्रमेण पातयित्वा दक्षिणोत्तरक्रमेण द्वादशाङ्गुलान्तरितान्येकादशसूत्राणि पातयेत् तेन चत्वारिंशत्कोष्ठा भवन्ति | तेषां वहिश्चतुस्रो वीथीर्मार्ज्जयेत् | मार्ज्जनप्रकारश्च प्रथमं पूर्वस्यां चतुष्कोष्ठात्मिकामेकां वीथीं ततो दक्षिणस्यामष्टकोष्ठात्मिकामपरां पश्चिमायां चतुष्कोष्ठात्मिकामन्यामुत्तरस्यामष्टकोष्ठात्मिकामित-राञ्च मार्ज्जयेत् | ततोऽन्तश्चतुष्कस्य पूर्वपश्चिमपार्श्वयोर्द्वे वीथ्यौ द्विकोष्ठात्मिके पुनर्मार्जयेत् | तेन मण्डले चतुष्कोष्ठात्मकं कोष्ठत्रयमवशिष्यते | ततश्चतुष्कोष्ठत्रयस्थानि द्वादशपदानि प्रत्येकं चतुष्कोष्ठं श्वेतादिभीरजोभीरञ्जयेत् | प्. २३१) तत्र वायुपदे श्वेतमाग्नेये पीतं नैर्-ऋते अरुणमीशाने कृष्णम् | ततः श्यामलेन मार्जितवीथीरापूरयेत् | तेषु पदेषु पालिकापञ्चमुखीशरावाणां सुप्रक्षालितं त्रिगुणसूत्रसूत्रवेष्टितं शुष्कगोमयचूर्णबालुकामृद्भिरुत्तरोत्तरपरिपूरितम् | हरिब्रह्मरुद्रस्वरूपं कृष्णवर्णव्रणादिरहितं पश्चिमादिक्रमेणाग्निकोणमारभ्येशानकोणपर्ययन्तं प्रत्येकं चतुष्कोष्ठेषु स्थापयेत् | ततः पश्चिमदिशि पालिकाचतुष्के विष्णुं मध्ये पालिकाचतुष्के ब्रह्माणं पूर्वस्यां शरावचतुष्के रुद्रं ध्यात्वावाह्य पूजयेत् | ततो वमिति मन्त्रेण विष्णुविषये ओं नमो भगवते वासुदेवायेति मन्त्रेण दुग्धेनाम्भसा च वीजानि प्रक्षाल्य वीजोपरि दातव्यमन्त्रमष्टोत्तरशतं जपेत् | ततः कङ्कौ स्कन्दं निष्पावे वायुं कुलत्थे वह्निमाढक्यां निर्-ॠतिं मुद्गे सोमं तिले वैवस्वतं शालौ प्रजापतिं सर्षपेऽनन्तं श्यामाके सूर्ययं माषे च वरुणं सम्पूज्य वीजानि मिश्रयित्वा तत्र सोमं पूजयित्वा प्राङ्मुख उदङ्मुखो वा | ओं त्रिपञ्चकाय सर्वाय शङ्कराय शिवाय च | सर्वलोकप्रधानाय शाश्वताय नमो नमः | इति मन्त्रेण तेषु पात्रेषु वीजानि निर्वपेत् | ततो हरिद्राचूर्णमिश्रितजलेन गन्धमिश्रितजलेन च तानि सिञ्चेत् | उक्तप्रकारजलसेचनं सोमपूजनञ्चाधिवासदिनपर्ययन्तं प्रत्यहं कुर्ययात् | ततो नूतनवस्त्रत्रयेण तानि पात्राण्याच्छाद्य प्रत्येकरात्रिषु देवताभ्यो बलिं दद्यात् | तत्र प्रथमरात्रौ ओं भूतेभ्यो नम इति मन्त्रेण गन्धपुष्पे दत्त्वा लाजतिलदधिशक्तुभिर्बलिं दद्यात् | ततः स्थानमार्ज्जनादि कुर्ययात् | द्वितीयरात्रौ ओं पितृभ्यो नम इति गन्धपुष्पे दत्त्वा सतिलान्नतण्डुलैर्बलिं दद्यात् | तृतौयरात्रौ ओं यक्षेभ्यो नम इति गन्धपुष्पे दत्त्वा दधिशक्तुलाजैर्बलिं दद्यात् | चतुर्थरात्रौ ओं नागेभ्यो नम इति गन्धपुष्पे दत्त्वा नारिकेलोदकशक्तुपिष्टकैर्बलिं दद्यात् | पञ्चमरात्रौ ओं ब्रह्मणे नम इति गन्धपुष्पे दत्त्वा सपङ्कजाक्षततण्डुलेन बलिं दद्यात् | प्. २३२) षष्ठरात्रौ ओं शिवाय नम इति गन्धपुष्पे दत्त्वा सपूपान्नबलिं दद्यात् | सप्तमरात्रौ ओं विष्णवे नम इति गन्धपुष्पे दत्त्वा गुडौदनेन बलिं दद्यात् | ततः पायसादिना लोकपालेभ्यो बलिदानम् | तत्र ईशानपूर्वयोर्मध्ये ब्रह्मणे | नै-ऋतवरुणयोर्मध्ये अनन्ताय बलिर्देयः | प्ररूढानङ्कुरानन्यो न पश्येत् | अशुभेषु अङ्कुरेषु शान्त्यादिकं कुर्ययादित्यङ्कुरारोपणम् || अथ अधिवासप्रयोगः || तत्रादौ गुरुर्गृहं प्रविश्य चन्दनागुरुधूपाद्यैर्गृहं सुवासितं कृत्वा विघ्नान् विनाश्य ओं सूर्ययः सोम इत्यादि पठित्वा घटस्थापनं कुर्ययात् | तत्क्रमस्तु ओं भूरसीति भूमिशोधनम् || १ || ओं धान्यमसीति मन्त्रेण तत्र शुक्लधान्यनिक्षेपः || २ || ओं प्राण इति मन्त्रेण हस्तप्रमाणस्य घटस्योदरे नवरत्नदानम् || ३ || ओं आजिघ्र इत्यादिमन्त्रेण तत्र तस्य स्थापनम् || ४ || ओं आप्यायस्वेति मन्त्रेण घटोपरि जलदानम् || ५ || ओं धन्न नेति तदुपरि शाखादानम् || ६ || तदुपरि ताम्बूलस्य श्रीफलस्य च दानं कदली फलस्य वा || ७ || ओं श्रीश्च तेति तदुपरि पुष्पदानम् || ८ || ततः सफलं शालिचूर्णयुक्तं शरावस्य घटोपरिनिधानम् || ९ || ओं वस्त्रञ्चेति क्षीरशाखिशाखासहितवस्त्रार्पणम् || १० || जम्बूपञ्चाशदोषधिक्वाथेन घटपूरणम् || ११ || इन्द्रवल्ल्या घटवेष्टनम् || १२ || घटे सिन्दूरदानम् || १३ || ओं स्थिरो भवेति दीक्षापर्ययन्तं गटस्य स्थिरीकरणम् || १४ || एवं घटं संस्थाप्य ओं गुरुभ्यो नम इत्यादि पठित्वा ओं यजमानस्य पुण्याहमित्यादिना पुण्याहं वाचयित्वा ओं स्वस्ति न इति स्वस्तिवाचनं कृत्वा ओं अस्त्राय फडिति भौमान् विघ्नाननिमेषाक्षिदृष्टिरूपदिव्यदृष्ट्या चतुर्दिशिदिव्यान् विघ्नानपसार्यय ओं भूताः प्रेता इति मन्त्रेण मांषभक्तेनान्नेन यावकेनाजाकर्णरक्तेन दुग्धेन मधुरद्रव्येण वा बलिं दत्त्वा रक्तपुष्पेण तान् पूजयेत् | प्. २३३) ततो हुमिति सप्तकृत्वो जप्तेन विकिरेण सर्वान् विघ्नान् निःसार्यय रमिति जलधारया चतुर्दिक्षु वह्निप्राकारं कल्पयेत् | ततो वमित्यूर्द्ध्वोर्द्धक्रमेण तालत्रयं दत्त्वा ओं गुरुभ्यो नम एवं गुरुपादुकाभ्यः परमगुरुभ्यः परापरगुरुभ्यश्च ऊर्द्ध्वोर्द्धक्रमेण वामे नत्वा दक्षिणे ओं गणेशाय नमः मध्ये इष्टदेव्यै नमः इति प्रणमेत् | ओं आवाहयाम्यहमित्यादिना गणेशं ध्यात्वा एह्येहीत्यादिना घटे आवाह्य सिन्दूररक्तकुसुमादिना तं पूजयेत् | तत्क्रमस्तु स्वागतप्रश्नोत्तरानन्तरमासनदानम् | ओं पाद्यमिति पादयोर्नम इति पाद्यदानम् | शङ्खोदकश्यामाकदूर्वाकुशतिलसर्षपापराजितायवरूप-षडङ्गार्घ्यं गन्धयुक्तं शङ्खे निधाय | ओं काण्डादिभिः स्वाहेति शिरस्यर्घ्यदानम् | पाद्यमन्त्रेणाचमनीयदानम् | ओं नम इति दधिमधुघृतरूप मधुपर्कस्य स्वधेति दानम् | मूलमन्त्रेण स्वधेति पुनराचमनीयदानम् | मूलमन्त्रेण नम इति स्नानीयदानम् | ओं यज्ञोपवीतमिति यज्ञसूत्रदानम् | ओं नानारत्नैश्चेत्याद्याभरणदानम् | मूलेन नम इति गन्धदानम् | मूलेन वौषडिति पुष्पदानम् | वनस्पतीति धूपदानम् | ओं सुप्रकाश इति दीपदानम् | मूलेन दीपाबलिभिर्नम इति नीराजनम् | मूलेन निवेदयामीति नैवेद्यदानम् | ततः प्रागुक्तनमो गुरुभ्य इति वन्दनम् | इति गणेशं सम्पूज्य | एवं क्रमेणार्कविष्णुशिवदुर्गा घटेपूजयेत् | तत ओं फडिति मन्त्रेण तिलकुशसर्षपरूपकूर्चमुष्टिं प्रक्षिपेत् | तत ओं अस्त्राय फडिति सप्तकृत्वः सञ्जप्य लाजचन्दनश्वेतसर्षपभस्मदूर्वारूप- विघ्नविनाशकविकिरप्रक्षेपं कुर्ययात् | ततो गुरुर्वेदिकोपरि स्वीयासने उपविश्य मूलेन मूर्तीं कल्पयित्वावाह्य आवाहन्यादिमुद्राः प्रदर्श्यासनादिपुष्पान्तेनेष्टदेवतां सम्पूजयेत् | प्. २३४) ततोऽङ्गावरणादिं सम्पूजयेत् | तत्क्रमस्तु तन्त्रसारेऽनुसन्धेयः | ततोऽष्टसु दिक्षु अष्ट कुम्भान् क्वाथतोय प्रपूरितान् पूर्वोक्तमन्त्रैः संस्थाप्य तेष्वष्टमातृकाध्यानावाहनपूर्वकं पूजयेत् | ततो दशदिक्षु इन्द्रादिलोकपालानैरावतादीनष्टौ गजान् वज्राद्यस्त्राणि सम्पूज्य धूपदीपौ नैवेद्यञ्चेष्टदेवतायै निवेद्य वेदिकाया दक्षभागे मण्डलं कृत्वाङ्कुरपात्राणि स्थापयेत् | ततो दक्षिणे स्थण्डिलं कृत्वाङ्कुरं संस्कृत्य तत्र देवतां सम्पूज्य ओं भूः स्वाहा ओं भुवः स्वाहा ओं स्वः स्वाहा इति व्याहृतिभिर्घृतेन हुत्वा पायसेन मूलमन्त्रेण पञ्चविंशतिवारं जुहुयात् | पुनर्व्याहृतिभिर्हुत्वा गन्धपुष्पादिभिः सम्पूज्याग्निं विसृजेत् | ततोऽवशिष्टपायसेन पार्श्वदेवेभ्यो बलिं दद्यात् | ततो नैवेद्यमुत्थाप्य स्थानमार्ज्जनं कृत्वा पुनर्दशोपचारैरिष्टदेवतां घटे सम्पूज्य दर्पनं चामरं व्यजनं छत्रं मुखवासकताम्बूलञ्च दर्शयेत् ततो मूलमन्त्रं सहस्रधा जप्त्वा जपं समाप्य प्रणम्य ब्राह्मणान् परितोष्य मङ्गलध्वनिनृत्यगीतपुरःसरमधिवासं कुर्ययात् || यथा ओं भूरसीति शिष्यमस्तके मृत्तिकास्पर्शनम् || १ || ओं गन्धद्वारामिति गन्ध || २ || ओं प्रपर्वतस्येति शिला || ३ || ओं धान्यमसीति धान्यम् || ४ || ओं काण्डादिति दूर्वा || ५ || ओं श्रीश्चतेति पुष्पम् || ६ || ओं याः कलिनीति फलम् || ७ || ओं दधीति दधि || ८ || ओं धृतवतीति घृतम् || ९ || ओं स्वस्ति न इति स्वस्तिकम् || १० || ओं सिन्धोरिवेति सिन्दूरम् || ११ || ओं शङ्ख त्वमिति शङ्खः || १२ || ओं समिध इति कज्जलम् || १३ || ओं युञ्जन्तीति रोचना || १४ || ओं अन्नेति सिद्धान्नम् || १५ || ओं हिरण्येति काञ्चनम् || १६ || ओं रूपेणेति रूप्यम् || १७ || ओं असौ य इति ताम्रम् || १८ || ओं रक्षोहन इति सिद्धार्थः || १९ || ओं आकृष्णेनेति दर्पणम् || २० || ओं मनोज्योतिरिति दीपः || २१ || प्. २३५) ओं प्रतिपदेति प्रशस्तपात्रम् || २२ || सर्वाण्येतानि शिष्यमस्तके दद्यात् || ततः फडिति मन्त्रेण प्रक्षालिते नवे पात्रे मूलमन्त्राभिमन्त्रितदशप्रसृतिमितशालितण्डुलान् कृत्वा हुमिति मन्त्रेण पात्रवदनं प्रक्षाल्य चरुं पचेत् | सुस्विन्ने चरौ मूलेनाभिघारणं कुर्ययात् | ततो हूमिति तत्पात्रमवतार्यय कुशास्तीर्णे मण्डले फडिति मन्त्रेण स्थापयेत् | तं चरुं त्रिधा विभज्य एकं देवाय दद्यात् अपरं वह्नौ जुहुयात् | अपरं भागं शिष्येण सार्द्धं गुरुर्भुञ्जीत | तत आचान्ताय शिष्यायाङ्गन्यासं कृत्वा स्थिताय द्वादशाङ्गुलं दन्तकाष्ठं गुरुर्दद्यात् | शिष्यस्तु तेन दन्तकाष्ठेन दन्तान् संशोध्य तत् काष्ठं प्रक्षाल्य विसृजेत् | तत आचान्तशिष्येन सार्द्धं वेद्यां दर्भसंस्तरे तां रात्रिं गुरुः शयीतेत्यधिवासविधिः || इति श्रीप्राणतोषिण्यां द्वितीये धर्मकाण्डे अधिवासरूपपुष्पकथनं नाम चतुर्थः परिच्छेदः | अथ दीक्षा || विश्वसारतन्त्रे || गुरोर्निमन्त्रणं कृत्वा परेद्युः साधकस्तदा | वस्त्रालङ्कारवर्णाद्यैर्गोभिश्चैव विधानतः | ततः स्नात्वा विधानेन नद्यादौ साधकोत्तमः || विधानेन सङ्कल्पादिना तान्त्रिककर्मणि सङ्कल्पादौ सौरमासोल्लेख उक्तः | पिच्छिलातन्त्रे पञ्चमपटले || सौरे मासि शुभा दीक्षा न चान्द्रे न च तारके | प्रयोगादीनि सर्वाणि सौरेणैव समाचरेत् || विश्वसारे द्वितीयपटले | अङ्कुरारोपणानन्तरम् || मातृकाः पूजयेत्तत्र गौर्ययाद्याः सर्वसम्मताः | गणेशाद्याः पूजयेत्ताः क्षमस्वेति क्षमां वदेत् || मातृकाः पूर्वमुक्ताः || वसोर्धारा तदा देया सर्वविघ्नविनाशिनी | पूजयेत् परया भक्त्या राजोपरिचरं बुधः | तथा नान्दीमुखश्राद्धं कुर्ययाच्च विधिनामुना | पितरं पितामहञ्चैव तथैव प्रपितामहम् | जीवे पितरि तत् श्राद्धं कुर्ययात्तत् पितृपूर्वकम् | प्. २३६) मातामहं प्रमातामहं वृद्धप्रमातामहं ततः | षट्पिण्डान् प्रक्षिपेद्देवि ! तानुपास्य सुसाधकः | नामगोत्रानुरूपेणं श्राद्धं कुर्ययाद्विधानतः | देवतापूर्वकं श्राद्धं कुर्ययान्नान्दीमुखं ततः | पुरोरवा माद्रवाश्च सर्वकार्येषु देवता | नान्दौमुखवसुः सत्या देवता परिकीर्त्तिता | सर्वं दैवक्रमेणैव श्राद्धे दद्याज्जलादि च | यत्तु महां निर्वाणतन्त्रे दशमोल्लासे || नान्दीमुखाश्च पितरो नान्दीमुख्यश्च मातरः | पितामहादयोऽप्येवं मातामहादयोऽपि च | श्राद्धे नान्द्याभ्युदयिके समुल्लेख्या वरानने ! || तथा | तत्रादौ देवपक्षे तु वाक्यं शृणु शुचिस्मिते ! | कालादीनि निमित्तानि समुल्लिख्य ततः परम् | तत्तत्कर्माभ्युदयार्थमुक्त्वा साधकसत्तमः | पित्रादीनां त्रयाणान्तु मात्रादीनां तथैव च | मात्रामहानाञ्च मातामह्यादीनामपि प्रिये ! | षष्ठ्यन्तं कीर्त्तयेन्नाम गोत्रोच्चारणपूर्वकम् | विश्वेषाञ्चैव देवानां श्राद्धं पदमुदीरयेत् | कुशनिर्मितयोः पश्चाद्विप्रयोरहमित्यपि | करिष्ये परमेशानीत्यनुज्ञावाक्यमीरितम् | विश्वान् देवान् परित्यज्य पितृपक्षे तु पार्वति ! | तथा मातामहस्यापि पक्षेऽनुज्ञा प्रकीर्त्तिता || इति मात्रादीनां मातामह्यादीनाञ्च श्राद्धमुक्तं तद्द्वादशदैविकश्राद्धपरम् | विश्वसारोक्तवचनन्तु आभ्युदयिकश्राद्धपरम् | तदपि सामगानामेव | ऋग्वेदयजुर्वेदयोस्तु नवदैवतश्राद्धमिति | एवञ्च द्वादशदैवताभ्युदयिकश्राद्धयोरुक्तप्रमाण- दर्शनादिच्छाविकल्पयति || विश्वसारे तथा || पुण्याहं वाचयित्वा तु सर्वकार्ययं समुद्दिशेत् || इति वृद्धिश्राद्धम् || पञ्चदेवपूजापि तत्रैव || सर्वत्र सर्वकार्ययेषु गणेशघटपूर्वकम् | गणेशं सवितारञ्च शिवां शिवमतः परम् | विष्णुञ्च पूजयेद् यत्नात् सर्वकार्ययार्थसिद्धये | लक्ष्मीं सरस्वतीं गङ्गां यमुनाञ्च तथैव च | दिक्पालान् दिग्गजान् देवानृषीन् विघ्नवासिनीं ग्रहांस्ततः परम् | प्. २३७) मासराशितिथीर्योगान् करणानि च पार्वति ! | पूजयेत् परया भक्त्या सर्वतन्त्रसमन्वितान् || दिक्पालादिपूजा पूर्वमुक्ता तद्विशेषस्त्वग्रतोऽनुसन्धेयः | सम्प्रति ग्रहपूजार्थमादौ ग्रहमन्त्रा उच्यन्ते || ग्रहजामले चतुर्थपटले || प्रणवो वह्निमारूढः शिव आस्येन्दुसंयुतः | मायायाः सप्तमः सर्गश्चतुर्वर्णो रवेर्मनुः | मन्त्रस्तु ओं ह्रां ह्रीं सः || १ || प्रणवः कचतुर्थस्तु स मनुः स्वरबिन्दुकः | हादिवह्निसमारूढश्चतुर्दशस्वरान्वितः | बिन्दू रषष्ठः सर्गश्च इन्दोर्वेदार्णको मनुः | मन्त्रस्तु ओं घौं स्रौं सः || २ || तारः शिखिसमारूढः शिवो मुखसमन्वितः | विन्द्वाढ्यः पुटितानेन माषाहादिः ससर्गकः | पञ्चवर्णात्मको देवि ! भौमस्य कथितो मौः | मन्त्रस्तु ओं ह्रां ह्रीं सः || ३ || तारो नादसमारूढः सतुर्ययः समनुस्वरः | बिन्दुरेतद्द्वयं भानोर्द्विचतुर्थार्णकस्तथा | पञ्चवर्णात्मको देवि ! बुधमन्त्रः समीरितः | मन्त्रस्तु ओं ह्रौं ह्रौं ह्रां सः || ४ || तारः कदशमार्णश्च समनुस्वरबिन्दुकः | एतत्रयं सूर्ययतुर्ययो गुरोः पञ्चार्णको मनुः || मन्त्रस्तु ओं ञौं ञौं ञौं सः || ५ || चन्द्रजादिद्वितीयश्च दिननाथत्रितुर्ययकः | चतुर्वर्णात्मको मन्त्रः शुक्रस्य कथितः प्रिये ! | मन्त्रस्तु ओं ह्रौं ह्रीं सः || ६ || प्रणवो रचतुर्थस्तु समनुस्वरबिन्दुकः | एतद्द्वयं सूर्ययतुर्ययश्चतुर्वर्णः शनेर्मनुः | मन्त्रस्तु ओं शौं शौं सः || ७ || मनुस्वराढ्यो घतुर्ययः सबिन्दुस्तेन सम्पुटः | खषष्ठो मुखविन्द्वाढ्यो भानुतुर्ययास्तकः प्रिये ! | चतुर्वर्णात्मको मन्त्रः श्रीराहोः समुदीरितः | मन्त्रस्तु ओं छीं छां छौं सः || ८ || तारो दपञ्चमो वर्णो मनुस्वरनभोऽन्वितः | साम्यबिन्दुः खषष्ठार्णः सोष्ठावो बिन्दुनाष्टमः | सूर्ययतुर्ययो महेशानि ! केतोः पञ्चार्णको मनुः | मनुः | मन्त्रस्तु ओं फौं फां फौं सः || ९ || पूजाक्रमस्तु आदौ मन्त्रं समुच्चार्यय पश्चात् द्रव्यमुदीरयेत् | सम्प्रदानपदं पश्चात्त्यागात्मकपदं ततः | इति रुद्रजामलीयवचनानुसारेण मूलमुच्चार्यय एतत्पाद्यं ओं सूर्ययाय ग्रहाय नम इत्यादिना पूजयेत् | प्. २३८) सर्वेषामेष क्रमो ज्ञेयः | प्रसङ्गात्तेषां पुरश्चरणादिकं लिख्यते || यथा ब्रह्मजामले शिववाक्यम् || विगुणे तु ग्रहे देवि ! व्याधिशत्रुनृपार्दने | राष्ट्रोपप्ल्वने घोरे आयुषो नाश आगते | जातिध्वंसे कुलोच्छेदे सर्वनाश उपस्थिते | धनपुत्रादिकामे च कुर्ययाद्ग्रहपुरष्क्रियाम् | दशोक्तवर्षसंख्येन सहस्रेण जपेन तु | पुरश्चरणमुद्दिष्टं सर्वेषां व्योमचारिणाम् | दशांशं जुहुयाद्वह्नौ त्रिमध्वाक्तसमिद्वरैः | कल्पोक्तैर्गन्धकर्पूरमिश्रितेनोदकेन च | तर्पयेद्देवतां देवि ! तद्दशांशक्रमेण तु | अभिषिञ्चेत्तद्दशांशं कर्पूरवासितैर्जलैः | तद्दशांशक्रमेणैव कुर्ययाद्ब्राह्मणभोजनम् | आद्यन्ते महती पूजा दक्षिणा विभवाविधि || इति ग्रहपुरश्चरणम् | वरदातन्त्रे तृतीयपटले || अतस्तत् साधकेनापि कर्त्तव्यं ग्रहपूजनम् | अन्यथा ग्रहदोषेण न कदाचित् फलं भवेत् | सर्वाणि साधनानीह कृत्वा भक्त्या विधानतः ऐहिके फलफलभाङ् न स्याद्विना हि ग्रहपूजनम् | कथयामि समासेन ग्रहसाधनमुत्तमम् | चन्द्रतारानुकूलं हि दिनं ग्राह्यं विचक्षणैः | ये ग्रहाश्चाभवन् दुष्टास्तान् प्रयत्नेन पूजयेत् | वस्त्रपुष्पाणि सर्वाणि तत्तद्वर्णानि दापयेत् | जुहुयात्तु यथाशक्ति ग्रहेष्विष्टप्रसिद्धये | तत्तद्ग्रहोक्तद्रव्याणि तेभ्यो दत्त्वा द्विजे दिशेत् || ग्रहदानन्तु ग्रहजामले षष्ठपटले || श्रीदेव्युवाच || दीनबन्धो ! दयासिन्धो ! यदि तुष्टोऽसि मां प्रति | आपद्विनाशनं कर्म्म कृपया कथय प्रभो ! || ईश्वरोवाच || तैलवर्त्तिप्रपन्नस्य दीपस्य पवनात् प्रिये ! | विनाशः स्याद्यथा तद्वदकाले प्राणसंक्षयः || अत आपद्विनाशाय दीर्घायुष्कत्वहेतवे | सारमेकं प्रवक्ष्यामि यत्नाद्दानं समाचरेत् | तुलादानञ्च यो दद्याद्ग्रहविप्राय सुन्दरि ! | आपन्मुक्तो भवेत् सोऽपि भुवि सम्मोदते सुखम् || १ || प्. २३९) सुवर्णस्य तुलां दद्याद् ग्रहविप्राय यः प्रिये ! | तस्य तुष्टः सुरगुरुरायुर्वृद्धिं करोति सः | यस्तु रौप्यतुलादानं दद्याद् ग्रहद्विजाय च | सन्तुष्टस्तस्य शुक्रः सन् संसृजेद्दीर्घजीवितम् || २ || ग्रहद्विजाय यो दव्यात्तुलां ताम्रस्य पार्वति ! | सन्तुष्टो मङ्गलस्तस्य दीर्घायुष्ट्वं करोति हि || ३ || यो यद्याद् ग्रहविप्राय पित्तलस्य तुलां प्रिये ! | तस्य तुष्टो बुधः कुर्ययादायुःपुष्टिं सुगौरवम् || ४ || ग्रहविप्राय लौहस्य तुलां यस्तु प्रयच्छति | प्रीतः शनैश्चरस्तस्य विपुलायुः प्रयच्छति || ५ || सीसकस्य तुलां दद्याद् ग्रहविप्राय यः प्रिये ! | तस्याशु राहुः सुप्रीतः सौभाग्यायुः प्रयच्छति || ६ || यः खर्परतुलां दद्याद् ग्रहविप्राय सुन्दरि ! | सन्तुष्टो भगवान् केतुस्तस्यायुर्वर्द्धयेत् सुखम् || ७ || तुलां ताम्रस्य यो दद्याद् ग्रहविप्राय सुन्दरि ! | आदित्यस्तस्य सुप्रीतो दीघायुः परियच्छति || ८ || ग्रहविप्राय यो दद्यात्तुलां कांस्यस्य सुन्दरि ! | सन्तुष्टस्तस्य रात्रीशो विभूत्यायुः प्रयच्छति || ९ || वैदूर्ययं नीलमाणिक्ये पद्मरागञ्च मौक्तिकम् | वज्रं परेशं गोमेदं तथा मरकतं प्रिये ! | दद्यादुत्सृज्य विप्राय स्वयञ्च बिभृयात्करे || इति ग्रहदानम् || अथ ग्रहकवचम् || अष्टादशपटले || पार्वत्युवाच | श्रीशान् ! सर्वशास्त्रज्ञ ! देवताधीश्वर ! प्रभो ! | अक्षयं कवचं दिव्यं ग्रहादिदैवतं विभो ! | पुरा संसूचितं गुह्यं सुभक्ताक्षयकारकम् || कृपा मयि तवास्ते चेत् कथय श्रीमहेश्वर ! || श्रीशिव उवाचः || शृणु देवि ! प्रियतमे ! कवचं देवदुर्लभम् | यद्धृत्वा देवताः सर्वे अमराः स्युर्वरानने ! | तव प्रीतिवशाद्वक्ष्मि न देयं यस्य कस्यचित् | ओं ह्रां ह्रीं सो मे शिरः पातु श्रीसूर्ययग्रहभूपतिः | ओं घौं सौं ओं मे मुखं पातु श्रीचन्द्रो ग्रहराजकः | ओं ह्रां ह्रीं ह्रां सः करौ पातु ग्रहसेनापतिः कुजः | पायादर्थौ ह्रौं ह्रां सः पादौ ज्ञो नृपबालकः | प्. २४०) ओं ञौं ञौं ञौं सः कटिं पातु पायादमरपूजितः | ओं ह्रौं ह्रीं सो दैत्यपूज्यो हृदयं परिरक्षतु | ओं शौं शौं सः पातु नाभिं मे ग्रहप्रेष्यं शनैश्चरः | ओं छौं छां छौं सः काण्ठदेशं श्रीराहुर्देवमर्दकः | ओं फौं फां फौं सः शिखी पातु सर्वाङ्गमभितोऽवतु | ग्रहाश्चैते भोगदेहा नित्यास्तु स्फुटितग्रहाः | एतदंशांशसम्भूताः पान्तु नित्यन्तु दुर्जनात् | अक्षयं कवचं पुण्यं सूर्ययादिग्रहदैवतम् | पठेद्वा पाठयेद्वापि धारयेद्यो जनः शुचिः | स सिद्धिं प्राप्नुयादिष्टां दुर्लभां त्रिदशैस्तु थाम् | तव स्नेहवशादुक्तं जगन्मङ्गलकारकम् | ऋषिः प्रोक्तो भैरवोऽस्य छन्दोऽनुष्टुप्प्रक्रीर्त्तितम् | श्रीसूर्यादिग्रहास्तत्र देवताः परिकीर्त्तिताः | सर्वकामार्थसंसिद्ध्यै विनियोगो मयोदितः | ग्रहयन्त्रान्वितं कृत्वाभीष्टमक्षयमाप्नुयात् || इति ग्रजामले पार्वतीश्वरसंवादे जगद्दुर्लभाक्षय नाम कवचं समाप्तम् || अथ तिथिपूजा || गायत्रीतन्त्रे | श्रीमहादेव उवाच || तिथेर्ध्यानं विना देवि ! तिथेर्मन्त्रं तथैव च | अज्ञात्वा परमेशानि ! दिनकृत्यं करोति यः | तस्य सर्वं भवेद्यर्थं दिनकृत्यं वरानने ! | या तिथिः सा महामाया आद्यामूर्त्तिजगन्मयी | कृष्णपक्षे कृष्णवर्णा शुक्ले चन्द्र समप्रभा | द्विभुजां शुक्लरूपाञ्च खेलत्खञ्जनगामिनीम् | द्विलोचनां शशिकलां सिन्दूरतिलकोज्ज्वलाम् | तप्तहाटकनिर्माणनानालङ्कारभूषिताम् | दाडिमीवीजसदृशदशनद्युतिशोभनाम् | ध्यायेत् प्रतिपदं देवीं जपपूजाविशुद्धये || मन्त्रो यथा | ग्रीं प्रतिपद्भ्यः स्वाहा || १ || एवं द्विलोचनां शशिकलां शुद्धस्पह्टिकशोभनाम् | शुद्धाभरणशोभाढ्यां शुक्लवस्त्रपरिच्छदाम् | नानाकटाक्षसंयुक्तभ्रूलतापरिशोभिताम् || सिन्दूरतिलकोद्दीप्तां खञ्जनाञ्चितलोचनाम् | द्विभुजां सुन्दराङ्गीञ्च किशोरीं नवयौवनाम् | प्. २४१) ध्यात्वा द्वितीयां चार्वङ्गि ! जपेन्मन्त्रं यथा शृणु | ऐं द्वितीयायै स्वाहा || २ || शुक्लपद्मप्रतिकाशां शुक्लवस्त्रपरिच्छदाम् | शुक्लाभरणशोभाढ्यां पुण्डरीकोपरिस्थिताम् | द्विलोचनां शशिकलां सिन्दूरतिलकोज्ज्वलाम् | कटाक्षविशिखोपेतां द्विभुजां तृतीयां भजेत् | ओं ऐं तृतीयायै स्वाहा || ३ || चतुर्थीं शुक्लचार्वङ्गीं यज्ज्ञात्वा सिद्धितां व्रजेत् | कुन्दपुष्पसमाभासां द्विभुजां लोललोचनाम् | शुक्लवस्त्रपरीधानां शुक्लाभरणभूषिताम् | सिन्दूरतिलकोद्दीप्तां खञ्जनाञ्चितलोचनाम् || ऐं हुं चतुर्थ्यै स्वाहा || ४ || पञ्चमीं शृणु चार्वङ्गि ! सर्वसिद्धिप्रदायिनीम् | यज्ज्ञात्वा परमेशानि ! तिथेः फलमवाप्नुयात् || शुद्धस्फटिकसङ्काशां श्वेतपद्मोपरिस्थिताम् | हास्ययुक्तां प्रसन्नास्यां कटाक्षविशिखोज्ज्वलाम् | कन्दर्पधनुराकारभ्रूलतापरिशोभिताम् | द्विभुजां श्वेतवर्णाञ्च श्वेतालङ्कारभूषिताम् || लोचनद्वयसंयुक्तां सिन्दूरतिलकोज्ज्वलाम् | मृणालसदृशाकारबाहुवल्लीविराजिताम् | खेलत्खञ्जनगामीञ्च चारुचूडाविराजिताम् || ह्रीं ऐं ह्रीं पञ्चम्यै स्वाहा | ह्रीं ऐं ह्रीं विशेषः | श्रीपञ्चमीदिने कर्त्तव्यं पूजनं महत् | निरीक्ष्य दक्षिणनाथे यद्ध्यानपूजादिकञ्चरेत् | ध्यायेत् परमयत्नेन पञ्चमीतिथिरूपिणीम् | ध्यात्वां पाद्यादिकं दत्त्वा प्रजपेद्दशधा मनुम् | ततस्तु पूजयेद्देवीं शारदा वाग्विलासिनीम् || ७ || कुन्दपुष्पसमाभासां द्विभुजां लोललोचनाम् | कटाक्षविशिखोद्दीप्तां सिन्दूरतिलकोज्ज्वलाम् | दाडिमीवीजसदृशदशनद्युतिमुज्ज्वलाम् | शुक्लालङ्कारसुभगां शुक्लासननिवासिनीम् | शुक्लवस्त्रपरिच्छिन्नां शुक्लहारविनोदिनीम् | द्विभुजां चन्द्रवदनां ध्यायेदात्मविभूतये | ओं ह्रीं षष्ठ्यै स्वाहा || ६ || शरच्चन्द्रप्रतीकाशां द्विभुजां शशिशेखराम् | लोचनद्वयसंयुक्तां खेलत्खञ्जनगामिनीम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् | प्. २४२) कटाक्षविशिखोपेतां भ्रूलतापरिशोभिताम् | शुक्लासनसमासीनां शुक्लाभरणभूषिताम् | शुक्लवस्त्रपरीधानां ध्यायेदात्मविभूतये | ह्रीं ओं सप्तम्यै स्वाहा ओं ह्रीं || ७ || राकाचन्द्रप्रतीकाशां द्विभुजां चन्द्रशेखराम् | पूर्णचन्द्रमुखश्रेणीं कुटिलालकशोभिताम् | हास्ययुक्तां प्रसन्नास्यां श्वेतवस्त्रपरिच्छदाम् | श्वेताभरणशोभाढ्यां किशोरीं नवयौवनाम् | मालाकटाक्षसंयुक्तां भ्रूलतापरिशोभिताम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् | क्रीं हुं ऐं अष्टम्यै स्वाहा ऐं हुं क्रीं || ८ || श्वेतपद्मप्रतीकाशां द्विभुजां लोललोचनाम् | दाडिमीवीजसदृशदन्तपंक्तिपरिच्छदाम् | शुक्लपट्टाम्बरधरां शुक्लवस्त्रोत्तरीयिणीम् | ललाटे पट्टिकां शुद्धां सिन्दूरतिलकोज्ज्वलाम् | नानाभरणदीप्ताङ्गीं पीतगन्धप्रलेपिताम् | मुक्तावर्त्तुलहारेण कम्बुकण्ठशुशोभिताम् | नानामाल्यपरिच्छिन्नां चित्रराजविराजिताम् | ओं हुं नवम्यै स्वाहा हुं ओं || ९ || मल्लिकापुष्पसङ्काशां द्विभुजां लोललोचनाम् श्वेतासनोपविष्टाञ्च श्वेतांशुकपरिछदाम् | श्वेताभरणसंयुक्तां श्वेतगन्धविलेपनीम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् || ऐं ओं दशम्यै स्वाहा ओं ऐं || १० || केतकीपुष्पसङ्काशां भ्रूलता परिभूषिताम् | नानाकटाक्षसंयुक्तां मत्तद्विरदगामिनीम् | नानालङ्कारसुभगां पीतवस्त्रपरिच्छदाम् | पीतगन्धप्रलिप्ताङ्गीं सिन्दूरतिलकोज्ज्वलाम् | दाडिमीवीजसदृशदन्तपंक्तिमनुत्तमाम् | द्विभुजां सुन्दरीं देवी नमाम्यात्मविभूतये || ओं क्रीं ओं एकादश्यै स्वाहा ओं क्रीं ओं || ११ || पीतपद्मसमाभासां शुक्लवस्त्रपरिच्छदाम् | शुक्लचन्दनसिक्ताङ्गीं द्विभुजां लोललोचनाम् | शुक्लाभरणशोभाढ्यां शुक्लासनसमाश्रयाम् | दाडिमीवीजसदृशदशनद्युतिशोभनाम् | सिन्दूरतिलकोद्दीप्तां ललाटपट्टिकां शुभाम् | ह्रीं ओं ह्रीं द्वादश्यै स्वाहा ह्रीं ओं ह्रीं || १२ || प्. २४३) रक्तचन्द्रप्रतीकाशां किशोरीं नवयौवनाम् | रक्तवस्त्रपरीधानां कुटिलालकमण्डिताम् | द्विभुजां सुन्दरीं शुद्धां पूर्णचन्द्रमुखप्रभाम् | द्विलोचनां चन्द्ररेखां विष्णुपूज्यां वृहत्कटीम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् | नानाकटाक्षसंयुक्तां नानाशृङ्गारशोभनाम् | ध्यात्वां त्रयोदशीं देवीं प्रजपेन्मन्त्रमुत्तमम् || ओं ऐं त्रयोदश्यै स्वाहा ऐं ओं || १३ || शुद्धस्फटिकसङ्काशां हरिद्वस्त्रविनोदिनीम् | नानालङ्कारसुभगां पीतमाल्यपरिच्छदाम् | श्वेतपद्मसमासीनां द्विभुजां लोललोचनाम् | कटाक्षविशिखोद्दीप्तां सिन्दूरतिलकोज्ज्वलाम् | दाडिमीवीजसदृशदशनद्युतिमुज्ज्वलाम् | कदम्बकोरकाकारस्तनद्वयमनोहराम् | हास्ययुक्तां प्रसन्नास्यां किशोरीं नवयौवनाम् || क्रीं ओं ह्रीं चतुर्दश्यै स्वाहा ह्रीं ओं क्रीं || १४ || सप्तमपटले || श्रीमहादेव उवाच || पूर्णिमां शृणु चार्वङ्गि ! यया सिद्धिमयो भवेत् | कोटिविद्युल्लताकारां चतुर्बाहुसमन्विताम् | पीतांशुकपरीधानां रत्नहारविराजिताम् | शङ्ककङ्कणकेयूरनानाशृङ्गारभूषिताम् | रत्नकुण्डलसंयुक्तस्फुरद्गण्डमनोहराम् | त्रिभङ्गललिताकारां सिन्दूरतिलकोज्ज्वलाम् | कटाक्षलक्षसंयुक्तां भ्रूलतापरिशोभिताम् || ह्रीं ओं क्रीं ओं पूर्णिमायै स्वाहा ओं क्रीं ओं ह्रीं || १५ || एतत्ते कथितं देवि ! पूर्णमन्त्रं परात्परम् | एतास्तु तिथयो देवि ! शुक्लपक्षे वरानने ! | कृष्णपक्षे महेशानि ! तिथयस्तु सुशोभनाः | नीलाञ्जनचयप्रख्याः किशोर्ययो नवयौवनाः | तासां ध्यानं प्रवक्ष्यामि सावधानावधारय || दलिताञ्जनसङ्काशां पीतांशुकपरिच्छदाम् | पीतगन्धप्रलिप्ताङ्गीं पीताभरणभूषिताम् | पीतपद्मसमासीनां किशोरीं नवयौवनाम् | द्विलोचनां चन्द्ररेखां द्विभुजां कोरकस्तनीम् || ललाटपट्टिकाशुद्धां सिन्दूरतिलकोज्ज्वलाम् | खेलत्खञ्जनगामीञ्च त्रिभङ्गिललिताकृतिम् | प्. २४४) दाडिमवीजसदृशदशनज्योतिरुज्ज्वलाम् | कृष्णपक्षे महेशानि ! एतद्ध्यानं प्रशस्यते | सर्वासां परमेशानि ! एकेन भवति प्रिये ! | सर्वासां पूर्ववन्मन्त्रममावास्यां विना शिवे ! | अमावास्यामनुं देवि ! शृणुष्व वरवर्णिनि ! || ओं ह्रीं ह्रीं ओं अमावास्यायै स्वाहा ओं ह्रीं ह्रीं ओं || अथ वक्ष्यामि सफलं पक्षध्यानं वरानने ! || शङ्खकुन्दसमाभासां नवयौवनसंयुताम् | चतुर्भुजां त्रिनयनां मत्तद्विरदगामिनीम् | ललाटपट्टिकामध्ये सिन्दूरतिलकस्थितिम् | भ्रमद्भ्रमरनीलाभामञ्जनाञ्चितलोचनाम् | पीतांशुकपरीधानां कृष्णवस्त्रोत्तरीयिणीम् | नानालङ्कारसुभगां नीलपद्मोपरिस्थिताम् | घूर्णायमाननयनां नीलपद्मविधारिणीम् | सदा षोडशवर्षीयां कदम्बकोरकस्तनीम् | हीरकद्युतिसङ्काशदशनज्योतिरुज्ज्वलाम् | नानापुष्पमयैर्हारैर्नानागन्धमयीं पराम् | प्रत्यहं भावयेद्देवीं शुक्लपक्षस्वरूपिणीम् || ऐं ऐं क्रीं क्रीं शुक्लपक्षाय स्वाहा ऐं ऐं क्रीं क्रीं || कृष्णपक्षे महेशानि ! अधुना निगदामि ते | महामरकतश्यामां चतुर्बाहुसमन्विताम् | पीनोत्तुङ्गकुचां रम्यां चित्रवस्त्रविलासिनीम् | नानाशृङ्गारवेशाढ्यां स्फुरच्चकितलोचनाम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् | कन्दर्पधनुराकारभ्रूलतापरिशोभिताम् | रत्नहारेण सहितनागहारविराजिताम् | पीतपद्मसमासीनां चित्रचूडाविराजिताम् | पीताविद्युत्समाकान्त्युत्तरीयवसनच्छविम् | पूर्णचन्द्रमुखीं देवीं कृष्णपक्षस्वरूपिणीम् || ओं ओं कृष्णपक्षाय स्वाहा ओं ओं || श्रीशिव उवाच || तिथेर्ध्यानं तिथेर्मन्त्र पक्षध्यानं तथैव च | पक्षमन्त्र तथा देवि ! दिवसे दिवसे सुधीः | प्रत्यहं कुरुते यस्तु तस्य सिद्धिरदूरतः | एतास्तु तिथयो देवि ! सूर्ययमण्डलसंस्थिताः | पक्षध्यानं प्रथमतस्तिथिध्यानं ततः प्रिये ! | पक्षमन्त्रं ततो जप्त्वा तिथिमन्त्र ततो जपेत् | प्. २४५) ततः सिद्धिमवाप्नोति जपपूजादिका च या | दिनकृत्यं महेशानि ! यः करोति दिने दिने | पक्षपूजां प्रथमतः कृत्वा सिद्धिमवाप्नुयात् | तिथिपूजां विना देवि ! जपयज्ञादिका क्रिया | सर्वं निष्फल | याति आमपात्रमिवाम्भसि | दिवसे दिवसे देवि ! तिथिमासाद्य यत्नतः | प्रातःकाले ततो धीमान् तिथिध्यानं समाचरत् | दशधा प्रजपेन्मन्त्रं सूर्ययं दृष्ट्वा प्रयत्नतः | तदा तिथिफलं प्राप्य सर्वं पूजाफल लभत् | एतत्तत्त्वमविज्ञाय आयुर्याति दिने दिने | तिथिरूपा महादेवी महामाया जगन्मयी | ध्यानमन्त्रं विना देवि ! सर्वेषां सिद्धिनाशिनी | प्रत्यहं कुरुते यस्तु जपध्यानं तिथेः प्रिये ! | गङ्गास्नानफलं सोऽपि लभते नात्र संशयः | अश्वमेधमहायज्ञे व्यासो होता यदि प्रिये ! | विफलमश्वमेधं हि तिथिध्यानं विना भवेत् | अमृतेनामृतं कृष्णे प्रीयन्ते देवताः क्रमात् | प्रथमां पिबते वह्निर्द्वितीयां तपनः कलाम् | विश्वदेवास्तृतीयान्तु चतुर्थीन्तु प्रजापतिः | पञ्चमीं वरुणश्चापि षष्ठीं पिबति वासवः | सप्तमीमृषयो दिव्या वसवोऽष्टौ तथाष्टमीम् | नवमीं कृष्णपक्षस्य पिबतीन्द्रः कलामपि | दशमीं मरुतश्चापि रुद्र एकादशीं कलाम् | द्वादशीन्तु कलां विष्णुर्धनदश्च त्रयोदशीम् | चतुर्दशीं पशुपतिः कलां पिबति नित्यशः | ततः पञ्चदशीञ्चापि पिबन्ति पितरः कलाम् || अथ तिथिकवचम् | अस्य तिथीनां कवचस्य अश्वत्थामबलिव्यासहनूमद्विभीषणकृपपरशुरामा ऋषयो गायत्रीच्छन्दः श्रीमृत्युञ्जयशिवो देवता धर्मार्थकाममोक्षेसु विनियोगः | पूर्वे पातु सदा नित्या क्रीङ्कारी प्रतिपत्तिथिः | क्लीङ्कारी पातु मे नित्यं द्वितीया ब्रह्मपूजिता | ऐङ्कारी पातु मे नित्यं तृतीया पश्चिमे परा व्लुङ्कारी पातु मे नित्या चतुर्थी विष्णुपूजिता | प्. २४६) व्लूङ्कारी पातु मे नित्यमूर्द्धदेहमहर्निशम् | ह्रीङ्कारी पातु मे नित्यं पञ्चमी मुखमण्डलम् | श्रीङ्कारी पातु मे नित्यं षष्ठीरूपा च पार्वती | स्त्रीङ्कारी सप्तमी पातु नित्यं मे नाभिमण्डलम् | हुंकारी चाष्टमी नित्यं कण्ठं मे पातु सर्वदा | श्रीङ्कारी नवमी नित्यं स्वाधिष्ठानं सदावतु | दशमी पातु मे नित्यं हस्तयुग्मं यथा तथा | एकादशी सदा पातु चाक्षियुग्ममहर्निशम् | द्वादशी पातु मे नित्यं हस्तयुग्मं यथा तथा | त्रयोदशी महालक्ष्मीः क्षेत्रस्थाननिवासिनी | त्रयोदशी पातु नित्यं हंस इत्यक्षरात्मिका | हङ्कारः पातु मे नित्यं पादयुग्ममहर्निशम् | सःकारः पातु मे नित्यं पादाग्रात् केशमण्डलम् | चतुर्दशी महामाया सर्वत्र परिरक्षतु | स्वाकारश्चतुर्दशी नित्या नित्यं मे धनसम्पदम् | हाकारः पूर्णिमा नित्यं देवि मे आयुवर्द्धनम् | श्रीं हुं ह्रीं स्वाहा सर्वरूपा देवी तिथिरूपा च मां परिरक्षतु सर्वदा | हुं ह्रीं अमावास्या सदा पातु दारान् पुत्त्रपरिच्छदम् | ह्रीं हुं ह्रीं स्वाहा कथितं कवचं देवि ! त्रैलोक्येषु च दुर्लभम् | इदं कवचमज्ञात्वा कवचान्यं पठेत्तु यः | अन्येषां कवचानाञ्च तेजांसि हरते तिथिः | तस्माद्यत्नेन हे देवि ! तिथीनां कवचं पठेत् | ध्यानं मन्त्रं तथा स्तोत्रं कवचञ्च तथा प्रिये ! | कलिकालमतं देवि ! परतत्त्वं विनिर्गतम् | इति ते कथितं देवि ! सारात्सारं परात्परम् || इति श्रीवर्णविलासतन्त्रे गणेशजतुकर्णसुभगासंवादे तिथिकवचं समाप्तम् || मासादीनां ध्यानन्तु कामधेनुतन्त्रादावनुसन्धेयमत्र ग्रन्थगौरवभिया न लिखितम् || अथ वर्णानां ध्यानादिकं वर्णोद्धारतन्त्रोक्तम् | प्रणाममन्त्रस्तु सर्वत्र कामधेनुतन्त्रोक्त इति | तद्यथा || केतकीपुष्पगर्भाभां द्विभुजां हंसलोचनाम् | शुक्लपट्टाम्बरधरां पद्ममाल्यविभूषिताम् | प्. २४७) चतुर्वर्गप्रदां नित्यं नित्यानन्दमयीं पराम् | वराभयकरां देवीं नागपाशसमन्विताम् | एवं ध्यात्वा अकारन्तु तन्मन्त्रं दशधा जपेत् || अ || ध्यानमस्याः प्रवक्ष्यामि षड्भुजां रक्तलोचनाम् | रत्नकङ्कणकेयूरहारोज्ज्वलकलेवराम् | सिद्धां सिद्धिप्रदां सौम्यां सिद्धगन्धर्वसेविताम् | एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् || आ || धूम्रवर्णां महारौद्रीं पीताम्बरयुतां पराम् | कामदां सिद्धिदां सौम्यां नित्योत्साहविवर्द्धिनीम् | चतुर्भुजान्तु वरदां हरिचन्दनभूषिताम् | एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् || इ || चतुर्भुजां रक्तवर्णां रक्तपुष्पोपशोभिताम् | चारुचन्दनदिग्धाङ्गीं रक्तपङ्कजलोचनाम् | रक्तचीरपरीधानां धर्मकामार्थमोक्षदाम् | एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् || ई || पीतवर्णां त्रिनयनां पीताम्बरधरां पराम् | द्विभुजां जटिलां भीमां सर्वसिद्धिप्रदायिनीम् | एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् || उ || द्विभुजां शुक्लवर्णाञ्च जटामुकुटशोभिताम् | शुक्लमाल्याम्बरधरां चारुचन्दनभूषिताम् | चतुर्वर्गप्रदां नित्यां रक्तपङ्कजलोचनाम् | एवं ध्यात्वा तु तन्मन्त्रं दशधा जपमाचरेत् || ऊ || षड्भुजां नीलवर्णाञ्च नीलाम्बरधरां पराम् | नानालङ्कारभूषाढ्यां सर्वालङ्कृतमस्तकाम् | भक्तिप्रदां भगवतीं भोगमोक्षप्रदायिनीम् | एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् | पञ्चप्राणमयं वर्णं चतुर्ज्ञानमयं तथा | रक्तविद्युल्लताकारं ऋकारं प्रणमाम्यहम् || ऋ || ध्यानमस्य प्रवक्ष्यामि द्विभुजां पद्मलोचनाम् | सन्तप्तस्वर्णवर्णाभां सर्वालङ्कारभूषिताम् | रक्तपद्मेक्षणां देवीं रत्नहारविभूषिताम् | एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् | चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा | त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये ! || ॠ || स्वर्णचम्पकवर्णाञ्च स्वर्णालङ्कार विग्रहाम् | प्. २४८) चतुर्भुजां त्रिनयनां रक्तचन्दनचर्च्चिताम् | प्रणमामि सदा देवीं धर्मकामार्थमोक्षदाम् | एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् || ॡ || ध्यानमस्याः प्रवक्ष्यामि पीतवर्णां चतुर्भुजाम् | पीताम्बरपरीधानां नानालङ्कारमस्तकाम् | विचित्रमाल्याभरणां देवदानवसेविताम् | चतुर्वर्गप्रदां नित्यां नित्योत्साहविवर्द्धिनीम् | एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् || ॡ || रक्ताम्बरपरीधानां षड्भुजां रक्तलोचनाम् | विचित्राभरणां नित्यां चतुर्वर्गप्रदायिनीम् | ईषद्धास्यमुखीं सौम्यां देवगन्धर्वसेविताम् | एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् || ए || विचित्ररूपिणीं देवीं विचित्राम्बरधारिणीम् | विचित्रमाल्याभरणां चतुर्बाहुसमन्विताम् || नानालङ्कारसंयुक्तां चतुवर्गफलप्रदाम् | देवदानवगन्धर्वैः सेवितां मोक्षकाङ्क्षिभिः | एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् || ऐ || रत्नालङ्कारसंयुक्तां पद्मरागप्रभां शुभाम् | शरत्पूर्णेन्दुवदनां विचित्रवसनान्विताम् | चतुर्भुजां त्रिनयनां स्मेरास्यां नीलकुन्तलाम् | विद्युद्दामसमानाङ्गीं मुक्तापंक्तिस्रजं भजे | एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् || ओ || चतुर्भुजां त्रिनयनां जटामुकुटमण्डिताम् | श्वेतरोहितपीतादिपुष्पहारोपशोभिताम् | सदा स्मेरमुखीं सौम्यां चतुर्वर्गप्रदायिनीम् | एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् || औ || जवादाडिमपुष्पाभां द्विभुजां रक्तलोचनाम् | रक्ताम्बरपरीधानां रक्तालङ्कारभूषिताम् | चतुर्वर्गप्रदां सौम्यां वरदां नागशेखराम् | एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् || अं || सन्तप्तहेमवर्णाभां सर्वालङ्कारभूषिताम् | रत्नयज्ञोपवीताञ्च रत्नाकङ्कणराजिताम् | पूर्णेन्दु वदनां सौम्यां तुरीयकरसंयुताम् | चन्द्रसूर्ययाग्निरूपेण नयनत्रितयान्विताम् | साधकाभीष्टदां नित्यां धर्मकामार्थमोक्षदाम् | प्. २४९) एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् || अः || जवायावकसिन्दूरसदृशीं कामिनीं पराम् | चतुर्भुजां त्रिनेत्राञ्च बाहुवल्लीविराजिताम् | कदम्बकोरकाकारस्तनयुग्मविराजिताम् | रत्नकङ्कणकेयूरहारनूपुरभूषिताम् | एवं ककारं ध्यात्वा तु तन्मन्त्रं दशधा जपेत् || क || बन्धूकपुष्पसङ्काशां रत्नालङ्कारभूषिताम् | वराभयकरां नित्यामीषद्धास्यमुखीं पराम् | एवं ध्यात्वा खकारन्तु तन्मन्त्रं दशधा जपेत् | गुणत्रययुतं देवि ! पञ्चदेवमयं सदा | त्रिशक्तिसंयुतं वर्णं खकारं प्रणमाम्यहम् || ख || दाडिमीपुष्पसङ्काशां चतुर्बाहुसमन्विताम् | रक्ताम्बरधरां नित्यां रक्तालङ्कारभूषिताम् | एवं ध्यात्वा गकारन्तु तन्मन्त्रं दशधा जपेत् | पञ्चप्राणमयं वर्णं सर्वशक्त्यात्मकं प्रिये ! | तरुणादित्यसङ्काशां कुण्डलीं प्रणमाम्यहम् || ग || मालतीपुष्पवर्णाभां षड्भुजां रक्तलोचनाम् | शुक्लाम्बरपरीधानां शुक्लमाल्यविभूषिताम् | तदा स्मेरमुखीं रम्यां लोचनत्रयराजिताम् | एवं ध्यात्वा घकारन्तु तन्मन्त्रं दशधा जपेत् | निर्गुणं त्रिगुणोपेतं सदा त्रिगोलसंयुतम् | सर्वगं सर्वदा शान्तं घकारं प्रणमाम्यहम् || घ || धूम्रवर्णां महाघोरां ललज्जिह्वां चतुर्भुजाम् | पीताम्बरपरीधानां साधकाभीष्टसिद्धिदाम् | एवं ध्यात्वा ब्रह्म रूपां तन्मन्त्रं दशधा जपेत् | सर्वदेवमयं वर्णं त्रिगुणं लोललोचने ! | पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम् || ङ || तुषारकुन्दपुष्पाभां नानालङ्कारभूषिताम् | सदा षोडशवर्षीयां वराभयकरां पराम् | शुक्लवस्त्रावृतकटिं शुक्लवस्त्रोत्तरीयिणीम् | वरदां शोभनां रम्यामष्टबाहुसमन्विताम् | एवं ध्यात्वा चकारन्तु तन्मन्त्रं दशधा जपेत् || च || ध्यानमस्याः प्रवक्ष्यामि द्विभुजान्तु त्रिलोचनाम् | पीताम्बरधरां नित्यां वरदां भक्तवत्सलाम् | एवं ध्यात्वा छकारन्तु तन्मन्त्रं दशधा जपेत् | प्. २५०) त्रिबिन्दुसहितं वर्णं सदैवेश्वरसंयुतम् | पीतविद्युल्लताकारं छकारं प्रणमाम्यहम् || छ || नानालङ्कारसंयुक्तैर्भुजैर्द्वाशभिर्युताम् | रक्तचन्दनदिग्धाङ्गीं चित्राम्बरविधारिणीम् | त्रिलोचनां जगद्धात्रीं वरदां भक्तवत्सलाम् | एवं ध्यात्वा जकारन्तु तन्मन्त्रं दशधा जपेत् || ज || सन्तप्तहेमवर्णाभां रक्ताम्बरविभूषिताम् | रक्तचन्दनलिप्ताङ्गीं रक्तमाल्यविभूषिताम् | चतुर्दशभुजां देवीं रत्नहारोज्ज्वलां पराम् | एवं ध्यात्वा झकारन्तु तन्मन्त्रं दशधा जपेत् || झ || चतुर्भुजा धूम्रवर्णां कृष्णाम्बरविभूषिताम् | नानालङ्कारसंयुक्तां जटामुकुटराजिताम् | ईषद्धास्यमुखीं नित्यां वरदां भक्तवत्सलाम् | एवं ध्यात्वा ञकारन्तु तन्मन्त्रं दशधा जपेत् || ञ || मालतीकुन्दपुष्पाभां पूर्णचन्द्रनिभेक्षणाम् | दशबाहुसमायुक्तां सर्वालङ्कारभूषिताम् | परमोक्षप्रदां नित्यां सदा स्मेरमुखीं पराम् | एवं ध्यात्वा टकारन्तु तन्मन्त्रं दशधा जपेत् || टं || पूर्णचन्द्रानिभां देवीं विकसत्पङ्कजेक्षणाम् | सुन्दरीं षोडशभुजां धर्मकामार्थमोक्षदाम् | एवं ध्यात्वा ठकारन्तु तन्मन्त्रं दशधा जपेत् || ठ || जवासिन्दूरसङ्काशां वराभयकरां पराम् | त्रिनेत्रां वरदां नित्यां परमोक्षप्रदायिनीम् | एवं ध्यात्वा डकारन्तु तन्मन्त्रं दशधा जपेत् | चतुर्ज्ञानमयं वर्णमात्मादितत्त्वसंयुताम् | पीताविद्युल्लताकारां डकारं प्रणमाम्यहम् || ड || रक्तोत्पलनिभां रम्यां रक्तपङ्कजलोचनाम् | अष्टादशभुजां भीमां महामोक्षप्रदायिनीम् | एवं ध्यात्वा ढकारन्तु तन्मन्त्रं दशधा जपेत् | सदा त्रिगुणसंयुक्तमादितत्त्वमयं सदा | रक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम् || ढ || द्विभुजां वरदां वन्द्यां भक्ताभीष्टप्रदायिनीम् | राजीवलोचनां नित्यां धर्म्मकामार्थमोक्षदाम् | एवं ध्यात्वा णकारन्तु तन्मन्त्रं दशधा जपेत् || ण || चतुर्भुजां महाशान्तां महामोक्षप्रदायिनीम् | सदा षोडशवर्षीयां रक्ताम्बरधरां पराम् | प्. २५१) नानालङ्कारभूषां वा सर्वसिद्धिप्रदायिनीम् | एवं ध्यात्वा तकारस्तु तन्मन्त्रं दशधा जपेत् || त || नीलवर्णां त्रिनयनां षड्भुजां वरदां पराम् | पीतवस्त्रपरीधानां सदा सिद्धिप्रदायिनीम् | एवं ध्यात्वा थकारन्तु तन्मन्त्रं दशधा जपेत् | पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा | तरुणादित्यसङ्काशं थकारं प्रणमाम्यहम् || थ || चतुर्भुजां पीतवस्त्रां नवयौवनसंस्थिताम् | अनेकरत्नघटितहारनूपुरशोभिताम् | एवं ध्यात्वा दकारन्तु तन्मन्त्रं दशधा जपेत् | त्रिशक्तिसहितं देवि ! त्रिबिन्दुसहितं सदा | आत्मादितत्त्वसंयुक्तं दकारं प्रणमाम्यहम् || द || षड्भुजां मेघवर्णाञ्च रक्ताम्बरधरां पराम् | वरदां शुभदां रम्यां चतुर्वर्गप्रदायिनीम् | एवं ध्यात्वा धकारन्तु तन्मन्त्रं दशधा जपेत् || ध || दलिताञ्जनवर्णाभां ललज्जिह्वां सुलोजनाम् | चतुर्भुजां चकोराक्षीं चारुचन्दनचर्च्चिताम् | कृष्णाम्बरपरीधानामिषद्धास्यमुखीं सदा | एवं ध्यात्वा नकारन्तु तन्मन्त्रं दशधा जपेत् || न || विचित्रवसनां देवीं द्विभुजां पङ्कजेक्षणाम् | रक्तचन्दनलिप्ताङ्गीं पद्ममालाविभूषिताम् | मणिरत्नादिकेयूरहारकेयूरविग्रहाम् | चतुर्वर्गप्रदां नित्यां नित्यानन्दमयीं पराम् | एवं ध्यात्वा पकारन्तु तन्मन्त्रं दशधा जपेत् || प || प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् | भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् | एवं ध्यात्वा फकारन्तु तन्मन्त्रं दशधा जपेत् || फ || नीलवर्णां त्रिनयनां नीलाम्बरधरां पराम् || नागहारोज्ज्वलां देवीं द्विभुजां पद्मलोचनाम् | एवं ध्यात्वा बकारन्तु तन्मन्त्रं दशधा जपेत् | त्रिशक्तिसहितं वर्णं विविधामृतलेपिताम् | स्वयं कुण्डलिनीं देवीं सततं प्रणमाम्यहम् || ब || तडित्प्रभां महादेवीं नागकङ्कणशौभिताम् | चतुर्वर्गप्रदां देवीं साधकाभीष्टसिद्धिदाम् | एवं ध्यात्वा भकारन्तु तन्मन्त्रं दशधा जपेत् | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ! | प्. २५२) आत्मादितत्त्वसंयुक्तं भकारं प्रणमाम्यहम् || भ || कृष्णां दशभुजां भीमां पीतलोहितलोचनाम् | कृष्णाम्बरधरां नित्यां धर्म्मकामार्थमोक्षदाम् | एवं ध्यात्वा मकारन्तु तन्मन्त्रं दशधा जपेत् | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा | आत्मादितत्त्वसंयुक्तं हृदिस्थं प्रणमाम्यहम् || म || धूम्रवर्णां महारौद्रीं षड्भुजां रक्तलोचनाम् | रक्ताम्बरपरीधानां नानालङ्कारभूषिताम् | महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम् | एवं ध्यात्वा यकारन्तु तन्मन्त्रं दशधा जपेत् | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा | प्रणमामि सदा वर्णं शक्तिमामोक्षमव्ययम् || य || ललज्जिह्वां महारौद्रीं रक्तास्यां रक्तलोचनाम् | रक्तवर्णामष्टभुजां रक्तपुष्पोपशोभिताम् | रक्तमाल्याम्बरधरां रक्तालङ्कारभूषिताम् | महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिकाम् | एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् | त्रिशक्तिसहितं देवि ! आत्मादितत्त्वसंयुतम् | सर्वतेजोमयं वर्णं सततं प्रणमाम्यहम् || र || चतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम् | सर्वदा वरदां भीमां सर्वालङ्कारभूषिताम् | योगीन्द्रसेवितां नित्यां योगिनीं योगरूपिणीम् | चतुर्वर्गप्रदां देवीं नागहारोपशोभिताम् | एवं ध्यात्वा लकारन्तु तन्मन्त्रं दशधा जपेत् || ल || कुन्दपुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम् | शुक्लमाल्याम्बरधरां रत्नहारोज्ज्वलां पराम् | साधकाभीष्टदां सिद्धां सिद्धिदां सिद्धसेविताम् | एवं ध्यात्वा वकारन्तु तन्मन्त्रं दशधा जपेत् || व || चतुर्भुजां चकोराक्षीं चारुचन्दनचर्च्चिताम् | शुक्लवर्णां त्रिनयनां वरदाञ्च शुचिस्मिताम् | रत्नालङ्कारभूषाढ्यां श्वेतमाल्योपशोभिताम् | देववृन्दैरभिवन्द्यां सेवितां मोक्षकाङ्क्षिभिः | एवं ध्यात्वा शकारन्तु तन्मन्त्रं दशधा जपेत् || श || शुक्लाम्बरां शुक्ल वर्णां द्विभुजां रक्तलोचनाम् | श्वेतचन्दनलिप्ताङ्गीं मुक्ताहारोपशोभिताम् | प्. २५३) गन्धर्वगीयमानाञ्च सदानन्दमयीं पराम् | अष्टसिद्धिप्रदां नित्यां भक्तानन्दविवर्द्धिनीम् | एवं ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् | त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् | प्रणम्य सततं देवि ! हृदि भावय सुन्दरि ! || ष || करौषभूषिताङ्गीञ्च साट्टहासां दिगम्बरीम् | अस्थिमाल्यामष्टभुजां वरदामम्बुजेक्षणाम् | नागेन्द्रहारभूषाढ्यां जटामुकुटमण्डिताम् | सर्वसिद्धिप्रदां नित्यां धर्मकामार्थमोक्षदाम् | एवं ध्यात्वा सकारन्तु तन्मन्त्रं दशधा जपेत् || स || चतुर्भुजां रक्तवर्णां शुक्लाम्बरविभूषिताम् | रक्तालङ्कारसंयुक्तां वरदां पद्मलोचनाम् | ईषद्धास्यमुखीं लोलां रक्तचन्दनचर्च्चिताम् | स्याद्दात्रीञ्च चतुर्वर्गप्रदां सौम्यां मनोहराम् | गन्धर्वसिद्धदेवाद्यैर्ध्यातामाद्यां सुरेश्वरीम् | एवं ध्यात्वा हकारन्तु तन्मन्त्रं दशधा जपेत् || ह || तन्मन्त्रपुटितं कृत्वा मूलमन्त्रं ततो जपेत् || इति सर्ववर्णषु ज्ञेयम् | अन्यथा निष्फलं ज्ञेयं जपपूजादिसाधनम् | दीक्षा च निष्फला ज्ञेया तस्मात् कुर्ययात् प्रयत्नतः | कृत्वा जपं प्रकुर्वीत यथोक्तफलमाप्नुयात् | शैवे शाक्ते वैष्णवे च सर्वतन्त्रेष्वयं विधिः | तन्मन्त्रपुटितं मन्त्रं दशधा दशधा जपेत् | दीक्षादौ गुरुणा सार्द्धं कर्त्तव्यं मन्त्रशोधनम् | अन्यथा निष्फला दीक्षा जपपूजादिकञ्च यत् | सद्गुरुः संयतो नित्यं ध्यात्वाभ्यर्च्य जपादिकम् | गुरुचैतन्यमात्रेण चैतन्यं जनयेत्ततः | संस्कारञ्च शोधनञ्च सागमेन विशेषतः | तन्मन्त्रपुटितं कृत्वा शतमष्टोत्तरं जपेत् | दीक्षादौ गुरुणा पूर्वं कर्त्तव्योऽयं क्रमः सदा | पञ्चाशद्वर्णमनुना पुटिता मनवः प्रिये ! | चतुर्वर्गप्रदाः शान्ता यथोक्तफलदाः सदा | अन्यथा निष्फला दीक्षा जपपूजादिसाधनम् | विधिनानेन हीना या सा दीक्षा निष्फला भवेत् | इह दारिद्र्यमतुलमन्ते च निरयं व्रजेत् | दीक्षादौ गुरुकर्त्तव्यक्रम एव प्रयत्नतः | प्. २५४) आद्यावसाने वर्णेन पुटितं प्रजपेन्मनुम् | शिष्यः प्रयत्नतो नित्यं कुर्ययादेतं क्रमं प्रिये ! | पूजादौ वा जपादौ वा अन्यथा विफलं भवेत् || इति वर्णानां ध्यानम् || एतेषां मन्त्रस्तु ओं अकाराय नम इत्यादि द्रष्टव्यम् || पञ्चदेवादिवर्णान्तपूजानां सर्वत्रोपयोगित्वेनादौ लिखितं सामान्यार्घ्यस्थापनमन्तरमेव कर्त्तव्यम् | शारदायां चतुर्थपटले || आचम्य विधिना तत्र सामान्यार्घ्यं विधाय च | द्वारमन्त्राम्बुभिः प्रोक्ष्य द्वारपूजां समाचरेत् | सामान्यार्घ्यस्थापनन्तु मण्डपद्वार्ययेव | द्वारपूजा तु अर्थकाण्डेऽनुसन्धेया || रुद्रजामले पूर्वखण्डे द्वितीय पटले || मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द उच्यते | कूर्मो देवतासनयोगे विनियोगः प्रकीर्त्तितः | मायाबीजं समुच्चार्यय कूर्म्मासनाय ते नमः | पार्ष्णिघातत्रयेणैव वारयेद्भूमिविघ्नकान् | तालत्रयेणान्तरीक्षान् तथा विघ्नान्निवारयेत् || पिच्छिलातन्त्रे पञ्चमपटले || सौरे मासीत्यादि प्रागुक्तम् || विश्वसारे || क्षेत्राधिपं क्षेत्रपालं गृहदेवीं ततः परम् | गन्धपुष्पौ धूपदीपौ नैवेद्यञ्च निवेदयेत् | एषां पूजां विलङ्घ्याथ नाच्चयेद्देवतान्तरम् || शारदायाम् || पञ्चगव्यार्घ्यतोयाभ्यां प्रोक्षयेद्यागमण्डपम् | चतुष्पथान्तां तच्छुद्धिं विदध्याद्वीक्षणादिभिः | वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् | तेनैव ताडनं दर्भैर्वर्म्मणाभ्युक्षणं मतम् | चन्दनागुरुकर्पूरैर्धूपयेदन्तरं सुधीः | विकिरान् विकिरेत्तत्र सप्तजप्ताच्छराणुना | लाजचन्दनसिद्धार्थभस्मदूर्वाकुशाक्षताः | विकिरा इति सन्दिष्टाः सर्वे विघ्नौघनाशनाः | सोमशम्भोस्तु विशेषो राघवभट्टधृतो यथा | विकिरान् शुद्धलाजान् वा सप्तमन्त्राभिमन्त्रितान् | अस्त्राद्भिः प्रोक्षितानेतान् कवचेनावगुण्ठितान् | नानाप्रहरणाकारान् विघ्नौघविनिवारकान् | अस्त्रजप्तेन दर्भाणां मुष्टिमामार्ज्जयेच्च तत् | ईशस्य दिशि बन्धन्या आसनाय प्रकल्पयेत् | प्. २५५) पुण्याहं वाचयित्वा तु ब्राह्मणानुपवेश्य च | उक्तेषु मण्डलेष्वेकं वेदिकायां समालिखेत् | विशेन्मृद्वासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः | बद्धपद्मासनो मौनी समाहितो जितेन्द्रियः | ऋजुकायो जितेन्द्रिय इति मेरुतन्त्रे पाठः || मङ्गलाङ्कुरपात्राणि स्थापयेद्दिक्षु देशिकः | मङ्गलरूपाणि यान्यङ्कुर पात्राणि उक्तरीत्या उक्तानि तानि दिक्षु स्थापयेदित्यर्थः | कृताञ्जलिपुटो भूत्वा वामदक्षिणपार्श्वयोः | नत्वा गुरुं गणेशानं भूतशुद्धिं समाचरेत् | करशुद्धिं समापाद्य कुर्ययात्तालत्रयं ततः | ऊर्द्ध्वोर्द्ध्वमन्त्रमन्त्रेण दिग्बन्धमपि देशिकः | तेन सोऽञ्जलितस्तेजो रक्षां कुर्ययात् समन्ततः | ऋषिश्छन्दो दैवतानि न्यसेन्मन्त्रस्य मन्त्रवित् | आत्मनो मूर्द्ध्निवदने हृदये च यथाक्रमम् || प्रपञ्चसारेऽष्टमपटले || ऋषिर्गुरत्वाच्छिरसैव धार्ययश्छन्दोऽक्षरत्वाद्रसनागतं स्यात् | धियावगन्तव्यतया सदैव हृदि प्रविष्टा मनुदेवता च | विधाय मूलमन्त्रेण प्राणायामं यथाविधि | विदध्यान्मातृकान्यासं मन्त्रन्यासमतः परम् | अङ्गुष्ठादिष्वङ्गुलीषु न्यसेदङ्गैः सजातिभिः | अस्त्रं तत्तालयोर्न्यस्य कुर्ययात्तालत्रयादिकम् | दिशस्तेनैव बध्नीयाच्छोटिकाभिः समाहितः | हृदादिषु च विन्यस्येदङ्गमन्त्रैस्ततः सुधीः | हृदयाय नमः पूर्वं शिरसे वह्निवल्लभा | शिखायै वषडित्युक्त्वा कवचाय हुमीरितम् | नेत्रत्रयाय वौषट् स्यादस्त्राय फडिति क्रमात् | षडङ्गमन्त्रानित्युक्तान् षडङ्गेषु नियोजयेत् | अंसोरुयुग्मयोर्विद्वान् प्रादक्षिण्येन देशिकः | धर्मं ज्ञानञ्च वैराग्यमैश्वर्ययं न्यस्य तु क्रसात् | मुखपार्श्वनाभिपार्श्वेष्वधर्मादीन् प्रकल्पयेत् | धर्मादयः स्मृताः पादाः पीठगात्राणि चापरे | अनन्तं हृदये पद्ममस्मिन् सूर्ययेन्दुपावकान् | एषु स्वस्वकला न्यस्येन्नामाद्याक्षरपूर्वकान् | सत्त्वादींस्त्रीन् गुणान् न्यस्येत्तथैवात्र गुरूत्तमः | आत्मानमन्तरात्मानं परमात्मानमत्र तु | प्. २५६) ज्ञानात्मानं प्रविन्यस्य न्यसेत् पीठमनुं ततः | एवं देहमये पीठे चिन्तयेदिष्टदेवताम् | मुद्रां प्रदर्श्य विधिवदर्घ्य स्थापनमाचरेत् | शङ्खमन्त्राम्बुना प्रोक्ष्य वामतो वह्निमण्डले | साधारं स्थापयेद्विद्वान् बिन्दुस्रुतसुधामयैः | तोयैः सुगन्धिपुष्पाद्यैः पूजयेत्तं यथाविधि | आधारं पावाकं शङ्खं सूर्ययं तोयं निशाकरम् | स्मरेद्वह्न्यर्कचन्द्राणां कलास्तास्तेष्वनुक्रमात् | कलास्तु प्रथमकाण्डे निरूपिताः | मूलमन्त्रं जपेत् सृष्ट्वा न्यासे तस्याङ्गमन्त्रवित् | हृन्मन्त्रेणाभिसम्पूर्यय हस्ताभ्यां छादयन्नपः | जपेद्विद्वान् यथान्यायं देशिको देवताधिया | अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठ्य च | धेनुमुद्रां समापाद्य बोधयेत् स्वस्वमुद्रया | दक्षिणे प्रोक्षणीपात्रमाधायाद्भिः प्रपूरयेत् | किञ्चिदर्घ्याम्बु संगृह्य प्रोक्षण्यम्भसि योजयेत् | अर्घ्यस्योत्तरतः कार्ययं पाद्यमाचमनीयकम् | आत्मानं यागवस्तूनि मण्डलं प्रोक्षयेद्गुरुः | प्रोक्षणीपात्रतोयेन मनुनान्यदपि क्रमात् | न्यासक्रमेण देहे स्वे धर्मादीन् पूजयेत्ततः | पुष्पाद्यैः पीठमन्वन्तं तस्मिंश्च परदेवताम् | पञ्चकृत्वः पुनः कुर्ययात् पुष्पाञ्जलिमनन्यधीः | उत्तमाङ्गहृदाधारपादसर्वाङ्गके क्रमात् | विना नैवेद्यं गन्धाद्यैरुपचारैः समर्च्चयेत् | गुरूपदिष्टविधिना शेषमन्यत् समापयेत् | सर्वमेतत् प्रयुञ्जीत प्रोक्षणीस्थेन वारिणा | विसृज्य तोयं प्रोक्षण्याः पूरयेत्तत् यथापुरा | ततस्तन्मण्डलं मन्त्री गन्धाद्यैः साधु पूजयेत् | शालिभिः कर्णिकामध्यमापूर्ययोपरि तण्डुलैः | अलङ्कृत्य पुनस्तेषु दर्भानास्तीर्यय मन्त्रवित् | कूर्च्चमक्षतसंयुक्तं न्यसेत्तेषामथोपरि || मेरुतन्त्रे चतुर्थप्रकाशेऽपि || पूरयेत् कर्णिकां पूर्वं शालिभिस्तण्डुलैस्ततः | दर्भान्न्यसेदुपर्ययेषां साक्षतं कूर्च्चकं ततः | छिन्नमूलाः कुशाः दीर्घाः सप्तविंशतिसंख्यकाः | ब्रह्मग्रन्थियुतास्त्वग्रेदेशे कूर्च्च इहोच्यते | आधारशक्तिमारभ्य पीठमन्त्रमयं यजेत् | प्. २५७) अधः कूर्च्चशिलारूढां शरच्चन्द्रनिभप्रभाम् | आधारशक्तिं प्रयजेत् पङ्कजद्वयधारिणीम् | मूर्ध्नि तस्याः समासीनं कूर्मं नीलाभमर्च्चयेत् | ऊर्द्ध्वब्रह्म शिलासीनमनन्तं कुन्दसन्निभम् | यजेच्चक्रधरं मुर्ध्नि धारयन्तं वसुन्धराम् | तमालश्यामलां तत्र नीलेन्दीवरधारिणीम् | समर्च्चयेद्वसुमतीं स्फुरत्सागरमेखलाम् | तस्यां रत्नमयं द्वीपं तस्मिंश्च मणिमण्डपम् | यजेत् कल्पतरुं तस्मिन् साधकाभीष्टसिद्धिदम् | अधस्तात् पूजयेत्तस्य वेदिकां मण्डलोज्ज्वलाम् | पश्चादभ्यर्च्चयेत्तस्यां पीठं धर्मादिभिः पुनः | रक्तश्यामहरिद्रेन्द्रनीलाभान् पादरूपिणः | वृषकेशविभूतेन्द्ररूपान् धर्मादिकान् यजेत् | गात्रेषु पूजयेत्तांस्तु नञ्पूर्वानुक्तलक्षणान् | आग्नेयादिषु कोणेषु दिक्षु मध्येऽम्बुजं यजेत् | आनन्दकन्दं प्रथमं संविन्नालमनन्तरम् | सर्वतत्त्वात्मकं पद्ममभ्यर्च्य तदनन्तरम् | मन्त्री प्रकृतिपत्राणि विकारमयकेशरान् | पञ्चाशद्वर्णवीजाढ्यकर्णिकां पूजयेत्ततः | कलाभिः पूजयेत् सार्द्धं तस्यां सूर्ययेन्दुपावकान् | प्रणवस्य त्रिभिर्भागैरथ सत्त्वादिकान् गुणान् | आत्मानमन्तरात्मानं परमात्मानमर्च्चयेत् | ज्ञानात्मानञ्च विधिवत् पीठमन्त्रावसानकम् | पीठशक्तीः केशरेषु मध्ये च सवराभयाः | हेमादिरचितं कुम्भं मन्त्राद्भिः क्षालितान्तरम् || चन्दनागुरुकर्पूरधूपितं शोभनाकृतिम् | आवेष्टिताङ्गं नीरन्ध्रं तन्तुना त्रिगुणात्मना | अर्च्चितं गन्धपुष्पाद्यैः कुर्च्चाक्षतसमन्वितत् | नवरत्नोदरं मन्त्री स्थापयेत्तारमुच्चरन् | ऐक्यं सङ्कल्प्य कुम्भस्य पीठस्य च विधानवित् | क्षीरद्रुमकषायेण पलाशत्वग्भवेन वा | तीर्थोदकैर्वा कर्पूरगन्धपुष्पसुवासितैः | आत्मभेदेन विधिवत् मातृकां प्रतिलोमतः | जपेन्मूलमनुं तद्वत् पूजयेद्देवताधिया | शङ्खेक्वाथाम्बुसम्पूर्णे गन्धाष्टकमभीष्टदम् | विलोड्य पूरयेत्तस्मिन्नावाह्य सकलाः कलाः | प्. २५८) दशवह्नेः कलाः पूर्वं द्वादश द्वादशात्मनः | षोडशापि च सोमस्य पश्चात्पञ्चशतं कलाः | जपित्वा प्रतिलोमेन मूलमन्त्रञ्च मन्त्रवित् | समाहितेन मनसा ध्यायन् मन्त्रस्य देवताम् | प्राणप्रतिष्ठां कुर्वीत तत्र तत्र विचक्षणः | कलात्मकं शङ्खसंस्थं क्वाथं कुम्भे विनिक्षिपेत् | पाशादित्र्यक्षरात्मान्ते स्यादमुष्य पदं पुनः | क्रमात् प्राणा इह प्राणास्तथा जीव इह स्थितः | अमुष्य सर्वेन्द्रियाणि भूयोऽमुष्य पदं वदेत् | वाङ्मनोनयनश्रोत्रघ्राणप्राणपदान्यथ | पश्चादिहागत्य सुखं चिरं तिष्ठन्तु ठद्वयम् | अयं प्राणमनुः प्रोक्तः सर्वजीवप्रदायकः | पश्चादश्वत्थपनसचूतकोमलपल्लवैः | इन्द्रवल्लीसमाबद्धैः सुरद्रुमधिया गुरुः | कुम्भवक्त्रं पिधायास्मिंश्चषकं सकलीकृतम् | संस्थापयेत् फलधिया विधिवत् कल्पशाखिनाम् | ततः कुम्भं निर्मलेन क्षौमयुग्मेन वेष्टयेत् | मूलमन्त्रं समुच्चार्यय सुषुम्नावर्त्मना सुधीः | संस्थापनं सन्निधानं सन्निबोधमनन्तरम् | सकलीकरणं पश्चाद्विदध्यादवगुण्ठनम् | अमृतीकरणं कृत्वा कुर्वीत परमीकृतिम् | क्रमादेतानि कुर्वीत स्वमुद्राभिः समाहितः | अथोपचारान् कुर्वीत मन्त्रवित् स्वागतादिकान् | स्वागतं कुशलप्रश्नं निगदेदग्रतो गुरुः | पाद्यं पादाम्बुजे दद्याद्देवस्य हृदयात्मना | हृदयात्मना नम इति मन्त्रेण | अर्घ्यं दिशेत्ततो मूर्द्ध्नि शिरोमन्त्रेण देशिकः | स्वधामन्त्रेण वदने दद्यादाचमनीयकम् | स्वधात्मना ततः कुर्ययान्मधुपर्कं मुखाम्बुजे | तेनैव मनुना दद्यादद्भिराचमनीयकम् | गन्धाद्भिः कारयेत् स्नानं वाससी परिधापयेत् | दद्याद्यज्ञोपवीतञ्च हाराद्याभरणैः सह | न्यासक्रमेण मनुना पुटितैर्मातृकाक्षरैः | अभ्यर्च्य देवं गन्धाद्यैरङ्गादीत् पूजयेत्ततः | तत्र तत्र जलं दयादुपचारान्तरान्तरा | अङ्गानि लोकपालान्तं यजेदावरणान्यपि | केशरेष्वग्निकोणादि हृदयादीनि पूजयेत् | प्. २५९) षडङ्गपूजादिक्रमस्तु गन्धर्वतन्त्रे चतुर्थपटले || अग्नीशासुरवायव्यमध्ये दिक्षु च पार्वति ! | षडङ्गयुवतीः पश्चात् पूजयित्वा विधानतः | नेत्रमग्रे दिशां वस्त्रं ध्यातव्यान्यङ्गदेवताः | तुषारस्फटिकश्यामनीलकृष्णारुणार्च्चिषः | वरदाभयधारिण्यः प्रधानतो वरस्त्रियः | पश्चादभ्यर्च्चनीयाः स्युः कल्पोक्तावृषयः क्रमात् | अन्ते यजेल्लोकपालान् मूलपारिषदान्वितान् | हेतिजात्यधिपोपेतान् दिक्षु पूर्वादितः क्रमात् | एवं सम्पूज्य विधिवन्नैवेद्यान्तं ततो गुरुः | दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम् | संस्कृत्य विधिवद्विद्वान् वैश्वदेवमखं चरेत् | तत्र सम्पूज्य गन्धाद्यैर्देवतामुक्तविग्रहाम् | तारस्य व्याहृतिं हत्वा मूलमन्त्रेण मन्त्रवित् | सर्पिष्मता पायसेन पञ्चविंशतिसंख्यया | हुत्वा व्याहृतिभिर्भूयो गन्धाद्यैः पुनरर्च्चयेत् | संयोजयित्वा पीठस्थमूर्त्तौ वह्निं विसर्ज्जयेत् | अवशिष्टेन हविषा विकिरेत् परितो बलिम् | देवतायाः पार्षदेभ्यो गन्धपुष्पाक्षतान्वितम् | ततो निवेद्यमुद्धृत्य शोधयित्वा स्थलं पुनः | पञ्चोपचारैः सम्पूज्य दर्शयेच्छत्रचामरे | कर्पूरशकलोन्मिश्रं ताम्बूलञ्च निवेदयेत् | सहस्रावृत्य सञ्जप्य मूलमन्त्रमनन्यधीः | तज्जप्तं सर्वसम्पत्त्यै देवतायै निवेदयेत् | ततः शम्भोर्दिशि गुरुर्विकिरेत् पूर्वसञ्चिते | हेमवस्त्रादिसंयुक्तां घर्घरीं तोयपूरिताम् | संस्थाप्य तस्यां सिंहस्थां खड्गखेटकधारिणीम् | घोररूपां पश्चिमास्यां पूजयेदस्त्रदेवताम् | चलासनेन सम्पूज्य तामादाय गुरुः पुनः | रक्षेति लोकपालानां नालमुक्तेन वारिणा | देवाज्ञां श्रावयन्नन्तः परिवृत्ते प्रदक्षिणम् | अस्त्रमन्त्रं समुच्चार्यय यथापूर्वं निवेशयेत् | विलोक्य दिव्यदृष्ट्या तं तच्चैतन्यं हृदम्बुजात् | गुरुरात्मनि संयोज्य कुर्ययादध्वविशोधनम् | तं शिष्यम् | उक्तं कलाध्वा तत्त्वाध्वा भुवनाध्वेति च त्रयम् | वर्णाध्वा च पदाध्वा च मन्त्राध्वेत्यपरत्रयम् | निवृत्त्याद्याः कलाः पञ्च कलाध्वेति प्रकीर्त्तितम् | प्. २६०) तत्त्वाध्वा बहुधा भिन्नः शैवाद्यागमभेदतः | षट्त्रिंशच्छैवतत्त्वानि द्वात्रिशद्वैष्णवानि तु | चतुर्विंशतितत्त्वानि मैत्राणि प्रकृतेः पुनः | उक्तानि दश तत्त्वानि सप्त च त्रिपदात्मनः | तत्त्वानि शैवान्युच्यन्ते शिवः शक्तिः सदाशिवः | ईश्वरो विद्यया सार्द्धं पञ्च शुद्धान्यमूनि तु | माया कालश्च नियतिः कालविद्या पुनः स्मृता | रागः पुरुष एतानि शुद्धाशुद्धानि सप्त च | प्रकृतिर्बुद्ध्यहङ्कारौ मनो ज्ञानेन्द्रियाण्यथ | कर्मेन्द्रियाणि तन्मात्राः पञ्च भूतानि देशिकाः | एतान्याहुरशुद्धानि चतुर्विंशतिमागमे | शैवानामिति तत्त्वानां विभागोऽत्र प्रदर्शितः | जीवः प्राणो धियश्चित्तं ज्ञानकर्मेन्द्रियाण्यथ | तन्मात्राः पञ्च भूतानि हृत्पद्मं तेजसां त्रयम् | वासुदेवादयश्चेति तत्त्वान्येतानि शार्ङ्गिणः | पञ्च भूतानि तन्मात्रा इन्द्रियाणि मनस्तथा | गर्वो बुद्धिः प्रधानञ्च मैत्राणीति विदुर्बुधाः | निवृत्ताद्याः कलाः पञ्च ततो बिन्दुः कलाः पुनः | नादः शक्तिः सदापूर्वः शिवश्च प्रकृतिर्विदुः | आत्मविद्या शिवः पश्चाच्छिवो विद्यात्मना पुनः | सर्वतत्त्वञ्च तत्त्वानि प्रोक्तानि त्रिपदात्मनः | तत्त्वाध्वा कथितो ह्येवं तत्तदागमवेदिभिः | ईरितो भुवनाध्वेति भुवनानि मनीषिभिः | वर्णाध्वेति वदन्त्यर्णानादीक्षान्तान्मनीषिणः | वर्णसङ्घः पदाध्वा स्यान्मन्त्राध्वा मन्त्रराशयः | क्रमादेतानध्वनः षट् शोधयेद्गुरुसत्तमः | पदान्धुनान्धुहृद्भालमूर्द्ध्वस्वपि शिशोः स्मरेत् || अन्धुर्गुदस्थानम् || तत्र कृच्छ्रेण विधिवत्तत् स्पृशन् जुहुयाद्गुरुः | आचार्ययकुण्डे संशुद्धैस्तिलैराज्यपरिप्लुतैः | शोधयाम्यमुमध्वानं स्वाहेति पृथगध्वनाम् | ताराद्या माहुतीरष्टौ क्रमात्तान् विलयं नयेत् | शिवे शिवात्तान् संलीनान् जनयेत् सृष्टिमार्गतः | विलोकयन् दिव्यदृष्ट्या | तत् स्थितं तच्च चैतन्यं पुनः शिष्ये नियोजयेत् | स्रुचा पूर्णाहुतिं दत्त्वा मूलमन्त्रेण देशिकः | प्. २६१) नेत्रे शिष्यस्य बध्नीयान्नेत्रमन्त्रेण वाससा | करे गृहीत्वा तत् शिष्यं कुण्डतो मण्डलं नयेत् | तस्याञ्जलिं पुनः पुष्पैः पूरयित्वा यथाविधि | कलसे देवताप्रीत्यै क्षेपयेन्मूलमूच्चरन् | व्यपोह्य तं नेत्रबन्धमासीनं दर्भसंस्तरे | आत्मयागक्रमाद्भूयः संहृत्योत्पाद्य देशिकः | तत्तन्मन्त्रोदितान्न्यासान् कुर्ययाद्देहे शिशोस्तदा | पञ्चोपचारैः कुम्भस्थां पूजयित्वेष्टदेवताम् | तस्य तन्त्रोक्तमार्गेण विदध्यात् सकलीकृतिम् | मण्डलेऽलङ्कृते शिष्यमन्यस्मिन्नुपवेशयेत् | नदत्सु पञ्चवाद्येषु सार्द्धं विप्राशिषा गुरुः | विधिवत् कुम्भमुद्धृत्य तन्मुखस्थान् सुरद्रुमान् | शिशोः शिरसि विन्यस्य मातृकां मनसा जपन् | मूलेन साधितैस्तोयैः सिञ्चेद्रक्षार्थमञ्जसा || अथाभिषेकविधिः || वामकेश्वरतन्त्रे पञ्चाशत्पटले || अभिषेकस्तु द्विविधः शाक्तश्च पूर्ण एव च | अवधूतेन गुरुणा शाक्ताभिषेकमाचरेत् | किञ्चिज्जलञ्च कुम्भानां ब्रह्मकुम्भे निवेशयेत् | आनीय ब्रह्मकलसं सम्मुखे स्थापयेद्बुधः | निरुत्तरतन्त्रे सप्तमपटले || श्रीशिव उवाच || अभिषेकश्च द्विविधो राज्ञो वा ज्ञानिनामपि | राजाभिषेके देवेशि ! वैदिकीञ्च क्रियाञ्चरेत् | ज्ञानिनामभिषेकन्तु सर्वतन्त्रेषु गोपितम् | सर्वशान्तिकरं पुण्यं सर्वरोगनिवारणम् | धनदं कीर्त्तिदञ्चैव आयुर्वृद्धिकरं नृणाम् | सर्वसौभाग्यजननं महापातकनाशनम् | सर्वाशापूरकं सर्वमन्त्रदोषनिवारणम् | सर्वार्थसाधकं देवि ! सर्वतीर्थफलप्रदम् | अभिचारहरं सर्वग्रहदोषविनाशकम् | भूतावेशादिशमनं डाकिनीनां भयापहम् | तेजोवृद्धिकरं देवि ! बलवृद्धिकरं परम् | तक्षकेणापि दष्टस्य विषपीडाविनाशकम् | तेजोह्रासे बलह्रासे बुद्धिह्रासे धनक्षये | स्त्रीकृतेष्वपि दोषेषु शारीरे मानसे तथा | विकारे देशिकः कुर्ययादभिषेकं विचक्षणः | असौभाग्ये च नारीणामभिषेकः प्रवर्त्तते | प्. २६२) गुरुत्वञ्च लभेद्देवि ! कर्म्मणाभिषेकवर्त्मना | वैष्णवो ज्ञानसम्पन्नः शैवश्चैव कुलेश्वरि ! | अभिषेकं प्रकुर्वीत शाक्तश्च कुलभूषणः | मन्त्रतन्त्रञ्च सर्वेषामभिषेकेण सिध्यति | अभिषेकेण सर्वेषामधिकारो भवेद्ध्रुवम् | अभिषेककृतो विप्रो ब्रह्मत्वं लभते ध्रुवम् | अभिषेककृतः क्षेत्री विप्रधर्म्मत्वमागतः | वैश्यः क्षत्रियतां याति शूद्रो वैश्यत्वमागतः | अभिषेकेण सर्वेषां चतुर्णां वर्णतां त्यजेत् | ब्राह्मणस्य सुरापाने ब्राह्मण्यं त्यजते क्षणात् | अभिषेककृते विप्रे सुरापानं विधीयते | आगमः पञ्चमो वेदः कौलश्च पञ्चमाश्रमः | शिवोऽपि पञ्चमो वर्णो महाविद्यां जपेद्यतः | स्वस्ववर्णं परित्यज्य शिवत्वञ्च प्रजायते | अभिषेकं विना नैव ब्राह्मणः प्रपिबेत् सुराम् | प्रगृह्य सिद्धविद्याञ्च सङ्केतज्ञस्ततो भवेत् | सङ्केतज्ञः कुलाचारे त्वभिषेकं समाचरेत् | अभिषेककृतो मन्त्री कुलपूजां समाचरेत् | कुलपूजाकृतो मन्त्री पितृभूमिं ततो व्रजेत् | पितृभूमिकृतं स्थानमेकाकी विहरेत्तदा | एकाकी विहरेद्वीरः प्रान्तरे रात्रिपान्तरे | तत्र सिद्धिं लभेद्देवि ! देवानामपि दुर्लभाम् | कुलाचारं विना देवि ! मन्त्रतन्त्रं न सिध्यति | सिद्धविद्या कुलाचारे द्रव्यं सिध्यति निश्चितम् | अभिषेकसुरां दद्याद् कुलकर्म युगे युगे | सुरां पीत्वा जपेद्विद्यां कालाधिपविशेषतः | विजयाञ्चानुकल्पञ्च सुराभावे निवेदयेत् | आनन्देन विना भ्रंशो न च तृप्यन्ति देवताः | पञ्चमेनार्चयेत् कालीं कामाख्यायां विशेषतः | कामाख्यायां विशेषेण कालिका सिद्धिदा भवेत् | कुलाचारं विना नैव कालिमन्त्रश्च सिध्यति | अभिषेकं विना देवि ! कुलकर्म्म करोति यः | तस्य पूजादिकं कर्म अभिचाराय कल्प्यते | अभिषेकं विना देवि ! सिद्धविद्यां ददाति यः | तावत्कालं वसेद्घोरे यावच्चन्द्रदिवाकरौ | ब्रह्मत्वञ्च हरित्वञ्च शिवत्वञ्च कुलेश्वरि ! | प्. २६३) सर्वसिद्धीश्वरत्वञ्च अभिषेकेण जायते | दिव्यो वीरश्च देवेशि ! कुलभक्तिपरायणः | अभिषेकञ्चरेद्देवि ! अधिवासपुरःसरम् | वृद्धिश्राद्धं ततः कृत्वा शिवशक्तीः प्रपूजयेत् | गुरुं सम्पूज्य विधिवत् स्वर्णालङ्कारभूषणैः | ततः सङ्कल्प्य विधिना गुरूणां वरणं चरेत् | ततः पूजां चरेद्देव्याः पञ्चमैश्च पृथक् पृथक् | प्रणम्य सद्गुरुं देवं देवीञ्च साधकेश्वरः | गुरुपूजां विधायाथ देव्या ध्यानपरायणः | अभिषेकं विधायाथ शुचौ देशे च साधकः | शून्यागारे नदीतीरे विल्वमूले त्रिपान्तरे | महात्रिपान्तरे वापि निर्ज्जने पितृकानने | ग्रामे पलातके वापि पर्वते तटिनीतटे | देवतायतने वापि स्थानञ्च परिचिन्तयेत् || अष्टमपटले || शिवशक्तिं पूजयित्वा स्थापयेद्घटमुत्तमम् | नातिह्रस्वं नातिदीर्घं स्वर्णरौप्यविनिर्मितम् | विशेषार्घ्यं स्वयन्त्रे वा त्रिकोणे वापि विन्यसेत् | गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च | सर्वे समुद्राः सरितः सरांसि जलदा नदाः | ह्रदाः प्रस्रवणाः पुण्याः स्वःपातालमहीगताः | सर्वतीर्थानि पुण्यानि घटे कुर्वन्ति सन्निधिम् | श्रीवीजेन प्रजप्तेन पल्लवं प्रतिपादयेत् | कूर्च्चेन फलदानं स्यात् स्त्रीवीजेन स्थिराकृतिः | सिन्दूरं वह्निवीजेन पुष्पं प्रेतेन विन्यसेत् | मूलेन दूर्वां प्रणवैः कुर्ययादभ्युक्षणं ततः | हुं फट् स्वाहेति मन्त्रेण कुर्ययाद्दर्मेण ताडनम् | विचिन्त्य देवि ! पीठन्तु तत्रावाह्य प्रपूजयेत् | अनेनैव विधानेन सर्वकर्म्मसु सुन्दरी ! | घटं संस्थापयेद्देवि ! षट्कर्म्मसु विशेषतः | महापूजाञ्चरेद्देवि ! षोडशैरुपचारकैः | गुरूणाञ्च महापूजां शाक्तीनाञ्च ततः परम् | तत्पश्चात् साधकानाञ्च कुमारीणाञ्च पूजनम् | कुमारीभ्यो बलिं दत्त्वा कुलजाभ्यो विशेषतः | अभिषेकं ततो देवि ! कुर्ययात् स्वगुरुमार्गतः | स्वतन्त्रोक्तविधानेन मन्त्रप्रोच्चारणेन च | चालयेत्तं घटं मन्त्री मन्त्रेणानेन देशिकः | प्. २६४) ओं उत्तिष्ठ ब्रह्मकलस ! देवताभीष्टसिद्धिदः | सर्वतीर्थाम्बुपूर्णेन पूरयास्य मनोरथम् | ईशानेन्दुस्मरक्षौणी तदन्ते भुवनेश्वरी | मन्त्रेणानेन वादित्रनिर्घोषैश्चालयेद्घटम् | अभिषिञ्चेद्गुरुः शिष्यं यजमानं पुरोहितः | सिञ्चेदश्वत्थवृक्षोत्थैः पल्लवैर्भूतसङ्गमे | सिञ्चेदौडुम्बरैर्मन्त्रदोषे च करवीरजैः | यशोधनायुस्तेजः श्रीफलकामेन चूतजैः | तुलसीममञ्जरीभिश्च सर्वपापक्षयार्थिभिः | सर्वतीर्थफलावाप्त्यै शाक्तानां विल्वपल्लवैः | अभिचारे नारसिंहैरभिषेकः प्रवर्त्तते || नारसिंह चुनियाहागडा इति यस्य प्रसिद्धिः || कुर्ययाद्दर्भैरगर्भैश्च दोषेषु स्वीकृतेष्वपि | असौभाग्ये च नारीणां दूर्वाभिरभिषेचनम् | सर्वकार्ययेषु मन्त्राणां सिद्ध्यर्थं चूतपल्लवैः | तस्याभिषेकमन्त्रस्य दक्षिणामूर्त्तिर्-ऋषिरनुष्टुप्छन्दः शक्तिर्देवता सङ्कल्पसिद्धिप्राप्तये विनियोगः || ओं राजराजेश्वरी देवी भैरवी कालभैरवी | श्मशानभैरवी देवी त्रिपुरानन्दभैरवी | त्रिकूटात्रिपुरा देवी तथा त्रिपुरसुन्दरी | त्रिपुरेशी महादेवी तथा त्रिपुरकारिका | त्रिपुरानन्दिनी देवी तथैव त्रिपुरातनी | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || १ || छिन्नमस्ता महादेवी तथा चैकजटेश्वरी | तारा च जयदुर्गा च शूलिनी भुवनेश्वरी | त्वरिताख्या महादेवी तथैव च त्रिखण्डिका | नित्या च नित्यरूपा च वज्रप्रस्तरिणी तथा | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || २ || अश्वारूढा महेशानी तथा महिषमर्दिनी | दुर्गा च वनदुर्गा च श्रीदुर्गा भगमालिनी | तथा भगन्दरी देवी भगक्लिन्ना तथापरा | सर्वचक्रेश्वरी देवी तथा नीलसरस्वती | सर्वसिद्धिकरी देवी सर्वगन्धर्वसेविता | उग्रतारा महादेवी तथा दक्षिणकालिका || एतास्त्वामित्यादि || ३ || क्षेमङ्करी महाकाली चानिरुद्धसरस्वती | मातङ्गिनी चान्नपर्णा राजराजेश्वरी तथा || प्. २६५) एतास्त्वामित्यादि || ४ || उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका | चण्डा चण्डवती चैव चण्डरूपातिचण्डिका | एतास्त्वामित्यादि || ५ || उग्रदंष्ट्रा महादंष्ट्रा शुभदंष्ट्रा कपालिनी | भीमनेत्रा विशालाक्षी मङ्गला विजया जया || एतास्त्वामित्यादि || ६ || मङ्गला नन्दिनी भद्रा कीर्त्तिर्लक्ष्मीर्यशस्विनी | पुष्टिर्मेधा शिवा साध्वी यशः शोभा जयाधृतिः | श्रीनन्दा च सुनन्दा च नन्दिन्यानन्दपूजिता || एतास्त्वामित्यादि || ७ || विजया नन्दिनी भद्रा स्मृतिः शान्तिर्धृतिः क्षमा | सिद्धिस्तुष्टीरमा पुष्टिः श्रीर्वृद्धिश्च रतिस्तथा | दीप्तिः कान्तिर्यशो लक्ष्मीरीश्वरी बुद्धिरेव च | शाक्री मायावती ब्राह्मी जयन्ती चापराजिता | अजिता मानवी श्वेता दितिश्चादितिरेव च | माया चैव महामाया मोहिनी क्षोभिणी तथा | कमला विमला गौरी शरण्याम्बुधिसुन्दरी | दुर्गा क्रियारुन्धती च घण्टाकर्णा कपालिनी | रौद्री काली च मायूरी त्रिनेत्रा चापराजिता | स्वरूपा बहुरूपा च तथैव विग्रहात्मिका | चर्चिका चापरा ज्येष्ठा तथैव सुरपूजिता | वैवस्वती च कौमारी तारा माहेश्वरी परा | वैष्णवी च महालक्ष्मीः कार्त्तिकी कौषिकी तथा | शिवदूती च चामुण्डा मुण्डमालाविभूषिता || एतास्त्वामित्यादि || ८ || इन्द्रो वह्निर्यमश्चैव नैर्-ऋतो वरुणस्तथा | पवनो धनदेशानौ ब्रह्मानन्तौ दिगीश्वराः | एते त्वामित्यादि || ९ || संवत्सरश्चायनौ च भासाः पक्षौ दिनानि च | तिथयश्चाभिषिञ्चन्तु मन्त्रपूतेन वारिणा || १० || रविः सोमः कुजः सौम्यो गुरुः शुक्रः शनैश्चरः | राहुः केतुश्च सततमभिषिञ्चन्तु ते ग्रहाः || ११ || नक्षत्रं करणं योगः अमृतं सिद्धिरेव च | दग्धं पापं तथा भद्रा योगा वाराः क्षणास्तथा | वारवेला कालवेला दण्डा वृद्धादयस्तथा | अभिषिञ्चन्तु सततं मन्त्रपूतेन वारिणा || १२ || प्. २६६) असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः | कपाली भीषणश्चैव संहारोऽष्टौ च भैरवाः | अभिषिञ्चन्तु इत्यादि || १३ || डाकिनीपुत्रकाश्चैव राकिणीपुत्रकास्तथा || लाकिनीपुरकाश्चान्ये काकिनीपुत्रकाः परे | शाकिनीपुत्रका भूयो हाकिनीपुत्रकास्तथा | ततश्च यक्षिणीपुत्रा देवीपुत्रास्ततः परम् | मातॄणाञ्च तथा पुत्रा ऊर्द्ध्वमुख्याः सुताश्च ये | अधोमुख्याः सुता ये च उन्मुख्याश्च सुताः परे || एते त्वामित्यादि || १४ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | एते त्वामित्यादि || १५ || पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश | आत्मान्तरात्मपरमज्ञानात्मानः प्रकीर्त्तिताः | आत्मनश्च गुणा ये तु स्थूलाः सूक्ष्मास्तथा परे || एते त्वामित्यादि || १६ || वेदादिबीजं हुंबीजं स्त्रीबीजं मीनकेतनम् | शक्तिबीजं रमाबीजं मायाबीजं सुधाकरम् | चिन्तारत्नं महाबीजं नारसिंहञ्च शाङ्करम् | मार्त्तण्डभैरवं दौर्गं बीजं श्रीपुरुषोत्तमम् | गाणपत्यञ्च वाराहं कालीबीजं भयापहम् | एते त्वामित्यादि || १७ || गङ्गा गोदावरी रेवा यमुना च सरस्वती | आत्रेयी भारती चैव सरयूर्गण्डकी तथा | करतोया चन्द्रभागा श्वेतगङ्गा च कौशिकी | भोगवती च पाताले स्वर्गे मन्दाकिनी तथा || एतास्त्वामित्यादि || १८ || भैरवो भीमरूपश्च शोणो घर्घर एव च | सिन्धुतोयह्रदाः पान्तु तथा पातालसम्भवाः | यानि कानि च तीर्थानि पुण्यान्यायतनानि च | तानि त्वामभिषिञ्चन्त्वित्यादि || १९ || जम्बुद्विपादयो द्वीपाः सागरा लवणादयः | अनन्ताद्यास्तथा नागाः सर्पा ये तक्षकादयः | एते त्वामित्यादि || २० || रतिश्च वल्लभा वह्नेर्वषट्कूर्च्चमतः परम् | वौषट्कारस्तु फट्कारमभिषिञ्चन्तु सर्वदा || २१ || नश्यन्तु प्रेतकुष्माण्डा राक्षसा दानवाश्च ये | पिशाचा गुह्यका भूता अभिषेकेण ताडिताः || २२ || प्. २६७) अलक्ष्मीः कालकर्णो च पापानि सुमहान्ति च | नश्यन्तु चाभिषिकेण तारावीजेन ताडिताः || २३ || रोगाः शोकाश्च दौर्बल्यं दारिद्र्यं चित्तविक्रिया | नश्यन्तु चाभिषेकेण वाग्वीजेनैव ताडिताः || २४ || लोकानुरागत्यागश्च दौर्भाग्यमपि दुर्वशः | नश्यन्तु चाभिषेकेण मन्मथेनैव ताडिताः || २५ || तेजोह्रासो बलह्रासो बुद्धिह्रासस्तथैव च | नश्यन्तु चाभिषेकेण शक्तिवीजेन ताडिताः || २६ || विषापमृत्युरोगश्च डाकिन्यादिभयं तथा | घोराभिचाराः क्रूराश्च ग्रहा नागास्तथा परे | नश्यन्तु चाभिषेकेण कालीवीजेन ताडिताः || २७ || नश्यन्तु चापदः सर्वाः सम्पदः सन्तु सुस्थिराः | अभिषेकेण शाक्तेन पूर्णाः सन्तु मनोरथाः || २८ || शारदायाम् || अवशिष्टेन तोयेन शिष्यमाचामयेद्गुरुः | ततस्तत् सकलीकुर्ययाद्देवतात्मानमात्मवित् | आचम्य वाग्यतो भूत्वा निषीदेत् सन्निधौ गुरोः | देवतामात्मनः शिष्ये संक्रान्तां देशिकोत्तमः | पूजयेद्गन्धपुष्पाद्यैरैक्यं सम्भावयंस्तयोः || निरुत्तरतन्त्रे || एवं संसिच्य शिष्यन्तु पुनः पूजां समाचरेत् | मेरुतन्त्रे तृतीयप्रकाशेऽपि || अथ शिष्यञ्चाभिषिञ्चेदाशुसम्पदवाप्तये | कुम्भास्यस्थसुरद्रुश्च मूर्द्ध्वन्यस्य शिशोर्गुरुः | अथ पञ्चनिनादैश्च विप्राशीर्वचनैः सह | गृहीत्वाभ्यर्च्चितं पूर्वं करकं ह्यस्ररूपिणम् | तत्तोयैरभिषिञ्चेत्तं रक्षायै देशिकोत्तमः | शिष्योऽपि तत्र सम्पूज्य गुरवे दक्षिणां ददेत् | गोभूमिशिष्यसत्त्वञ्च रौप्यरत्नानि पार्वति ! | सर्वस्वं वा तदर्द्धं वा तदर्द्ध्वं वापि दक्षिणाम् || दक्षिणैषा तु मन्त्रग्रहणानन्तरं यदि अभिषेकः क्रियते तदा कर्त्तव्या | अभिषेकानन्तरं चेन्मन्त्रग्रहणं तदा तद्दक्षिणायै वा अङ्गीभूताभिषेकादिदक्षिणा सिद्धेति || वामकेश्वरतन्त्रे त्रिपञ्चाशत्पटले || अभिषिक्तः साधकेन्द्रः क्रियादक्षो भवेत् प्रिये ! | शरीरशोधनं देवि ! न प्रसिध्येत् क्रियां विना || शारदायाम् || प्. २६८) दद्याद्विद्यान्तरं तस्मै विनीतायाम्बुपूर्वकम् | गुरोर्लब्ध्वां पुनर्विद्यामष्टकृत्वो जपेत् सुधीः | गुरुविद्यादेवतानामैक्यं सम्भावयन् धिया | प्रणमेद्दण्डवद्भूमौ गुरुं तं देवतात्मकम् | तस्य पादाम्बुजद्वन्द्वं निजमूर्द्धनि योजयेत् | शरीरमर्थं प्रणञ्च सर्वं तस्मै निवेदयेत् | ततः प्रभृति कुर्वीत गुरोः प्रियमनन्यधीः | ऋत्विग्भ्यो दक्षिणां दद्यात् समग्रां प्रीतमानसः | ब्राह्मणांस्तर्पयेत् पश्चात् भक्ष्यभोज्यसदक्षिणान् | एषा क्रियावती दीक्षा प्रोक्ता सर्वसमृद्धिदा || वृहन्नीलतन्त्रे तृतीयपटले || तस्य छायानुसारी स्यान्निकटे त्रिदिनं वसेत् | नोचेत् सञ्चारिणी शक्तिर्गुरुमेति न संशयः || इति क्रियावती दीक्षा || आणवी दीक्षा तु दशविधा | तद्यथा || आणवी बहुधा दीक्षा नादेयी शाम्भवी पुनः | एकधैवेति विद्वद्भिः पठ्यते शास्त्रकोविदैः || राघवभट्टधृतं वचनम् || आणवी बहुधेत्युक्ता तद्भेदमधुनोच्यते | स्मार्ती मानसिकी यौगी चाक्षुषी स्पार्शिकी तथा | वाचिकी मान्त्रिकी हौत्री शास्त्री चेत्यभिषेचिका | विदेशस्थं गुरुं स्मृत्वा शिष्यं पापत्रयं क्रमात् | विश्लेष्य लयभागाङ्गविधानेन परे शिवे | सम्यग्योजनरूपैर्या स्मार्ती दीक्षेति कथ्यते | स्वसन्निधौ समासीनमालोक्य मनसा शुचिः | मलत्रयादुपायैर्या विज्ञेया सा तु मानसी || योगोक्तक्रमतो योगी शिष्यदेहं प्रविश्य तु | गृहीत्वा तस्य चात्मानं स्वदेहयोजनात्मिका | योगदीक्षेति सा प्रोक्ता मलत्रयविनाशिनी || ३ || शिवोऽहमिति निश्चित्य वीक्षणं करुणार्द्रया | दृशा सा चाक्षुषी दीक्सा सर्वपापप्रणाशिनी || ४ || स्वयं परशिवो भूत्वा निःसन्दिग्धमना गुरुः | शिष्यहस्तेन शिष्यस्य स्वमन्त्रं मूर्ध्निसंस्पृशेत् | स्पर्शदीक्षेति सा प्रोक्ता शिवाभिव्यक्तिकारिणी || ५ || शिवहस्तलक्षणं यथा सोमशम्भौ || गन्धैर्मण्डलकं स्वीयैर्विदध्याद्दक्षिणे करे | प्. २६९) विधिना त्वर्च्चयेद्देवमित्थं स्याच्छिवहस्तकमिति | स्वीयैर्गन्धैः स्वस्वगन्धाष्टकैरित्यर्थः || गुरुवक्त्रं निजं वक्त्रं विभाव्य गुरुरादरात् | गुरुवक्त्रप्रयोगेण दिव्यमन्त्रादिकं शिशोः | मन्त्रन्यासादिभिः सार्द्धं दद्यात् सेयञ्च वाचिकी || ६ || दीपवातो यथा मन्त्रन्याससंयुक्तविग्रहः | स्वयं मन्त्रतनुर्भूत्वा संक्रमं मन्त्रमादरात् | दद्यात् शिष्याय सा दीक्षा मान्त्री मलविघातिनी || ७ || कुण्डे वा स्थैण्डिले वापि निक्षिप्याग्निं विधानतः | लयभागक्रमेणैव प्रत्यध्वानं यथाक्रमम् | मन्त्रवर्णकला तत्र पदविष्टपमेव च | संशोध्य होमरूपैर्या हौत्री दीक्षा समीरिता || ८ || योग्यशिष्याय भक्ताय शुश्रूषार्च्चापराय च | सार्द्धं शास्त्रपदा द्रव्या शास्त्री दीक्षेति सोच्यते || ९ || शिवञ्च शिवपत्नीञ्च कुम्भे सम्पूज्य सादरम् | शिवकुम्भाभिषेकात्मा दीक्षा स्यादभिषेचिका || १० || शारदायाम् || अथ वर्णात्मिकां वक्ष्ये दीक्षामागमचोदितात् | पुंप्रकृत्यात्मका वर्णाः शरीरमपि ताऋशम् | यतस्तस्मात्तनौ न्यस्येद्वर्णान् शिष्यस्य देशिकः | तत्तत्स्थानयुतान् वर्णान् प्रतिलोमेन संहरेत् | आज्ञया देवताभावाद्विविधा देशिकोत्तमः | तदा विनीय तत्तोयं शिष्यो दिव्यतनुर्भवेत् | परमात्मनि संयोज्य तच्चैतन्यं गुरूत्तमः | तस्मादुत्पादितान् वर्णान्न्यस्येच्छिष्यतनौ पुनः | सृष्टिक्रमेण विधिवच्चैतन्यञ्च नियोजयेत् | जायते देवताभावः परानन्दमयः शिशोः | एषा वर्णमयी दीक्षा प्रोक्ता ज्ञानप्रदायिनी || कलावती दीक्षा तु अस्मद्गोष्ठीगरिष्ठकृष्णानन्दागम-वागीशेन स्वकृततन्त्रसारग्रन्थे लिखिता | संक्षेपदीक्षापीत्यतो नैतयोरत्र प्रयोजनम् || वेधमयीइ दीक्षाप्यप्रचरद्रूपतया न लिखिता || अन्वेषकैः शारदायां पञ्चमपटले अन्वेष्येति || अथ क्रम्दीक्षा || कामाख्यातन्त्रे द्वात्रिंशत्पटले || देव्युवाच || क्रमदीक्षां ब्रूहि नाथ ! यदि तेऽस्ति कृपा मयि | कथं वा कुरुते दीक्सां क्रमेण जगदीश्वर ! || प्. २७०) शिव उवाच || श्रुता दीक्षा बहुविधा देवानां प्रीतिदायिका | इदानीं कथयिष्यामि यदि कस्मै न वक्ष्यसि | प्रकाशाद्बहवो दोषाः सर्वत्र गोपिता मया | कलौ पापसमाचारे सिद्धिर्न स्यात् कदाचन | सिद्धिर्न स्यात् सिद्धिर्न स्यात् कलौ नान्यविधानतः | क्रमदीक्षाविहीनस्य कलौ न स्यात् कथञ्चन | इति ज्ञात्वा महेशानि ! क्रमदीक्षां समाचरेत् | रसैर्मन्त्रैर्यथा विद्धमयः सौवर्णतां व्रजेत् | कमदीक्षाप्रभावेण तथात्मा शिवतां लभेत् | जपो देवार्च्चनविधिः कार्ययो दीक्षाक्रमेण वै | उपचारसहस्रैस्तु योजितां भक्तिसंयुताम् | क्रमदीक्षां विना देवि ! न गृह्णन्ति कदाचन | आदौ काली ततस्तारा सुन्दरी तदनन्तरम् | क्रमदीक्षेति विख्याता सर्वदा सिद्धिकामतः | राज्यं देयं शिरो देयं न देयं क्रमयोगतः | विधानं क्रमतः सिद्धिरभिषेकाच्च पार्वति ! | विशुद्धमातापितृको जितेन्द्रियः सर्वागमज्ञः परदुःखकातरः | एवंविधानो गुरुरेव शान्तः कुलीनशिष्यः क्रमतो विधानम् | नात्र शुद्धाद्यपेक्षास्ति न वा सिद्धादिचिन्तनम् | न चाधिकारिचिन्ता च ग्रहणे क्रमयोगतः | एकाहे वा वत्सरे वा वत्सरान्तेऽपि पार्वति ! | तस्मात् शिष्यः प्रयत्नेन गृह्णीयात् क्रमयोगतः | गृहीत्वा गुरुवक्त्राच्च क्रमेण पूजयेच्च ताः | क्रमेण च यजेद्देवि ! पुरश्चर्ययाक्रमेण च | प्रथमे दिवसे शिष्यः संयतात्मा जितेन्द्रियः | द्वितीये चोपवासश्च त्रिदिने दीक्षयेद्गुरुः | कुलीनत्वस्य स्वीकारं कारयित्वा मनून् वदेत् | एकाक्षरं त्र्यक्षरं वा द्वाविंशत्यक्षरं तथा | द्वितीयायास्तथा प्रोक्तं तृतीयायास्त्रिकूटतः | क्रमेण दिवसे वापि क्रमेण वत्सरेण च | वत्सरान्ते तथा देवि ! क्रमेण दीक्षयेद्गुरुः | ग्रामान् दासांश्च दासीश्च सुवर्णञ्च यथाक्रमम् | गुरवे दक्षिणां दद्याद् विभवस्यानुसारतः | यदि भाग्यवशाद्देवि ! क्रमदीक्षा च जायते | प्. २७१) तदा सिद्धिर्भवेत्तस्य नात्र कार्यया विचारणा | क्रमदीक्षाविहीनस्य कथं सिद्धिः कलौ भवेत् | सर्वाश्रमेपु भूतेषु सर्वदेवेषु सुव्रते ! | क्रमं विना महेशानि ! सर्वं तेषां वृथा भवेत् | तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षित् भवेत् | क्रममूलं जगत् सर्वं क्रममूलं परं तपः | अदीक्षिता यदि ज्ञाता किञ्चिदादाय भोजयेत् | वृथा दानं भवेत्तस्य तस्मात् सर्वं विवर्जयेत् | सद्गुरोराहिता दीक्षा सर्वकर्माणि कारयेत् || इति क्रमदीक्षा || शाक्तानन्दतरङ्गिणीधृतगुप्तदीक्षातन्त्रे || मृतमप्यनुगच्छेत विद्यामन्त्रो विशेषतः | मन एव मनुष्यस्य पूर्वकर्माणि शंसति | यदि न स्यान्महेशानि ! मनुष्यस्य कथं भवेत् | दीक्षायाञ्च कथं तस्य मनो भवति पार्वति ! | तस्मात्तु यत्नतो देवि ! पूर्वविद्यां समुद्धरेत् | वकुलाश्वत्थवटकं पत्ररत्नं शृणु प्रिये ! | वटपत्रे महेशानि ! शक्तिमन्त्रं लिखेत् प्रिये ! | अश्वत्थे विष्णुमन्त्रञ्च वकुले शिवमन्त्रकम् | रक्तचन्दनेन देवेशि ! काश्मीरेण महेश्वरि ! | शक्तिमन्त्रं लिखेद्देवि ! चन्दने विष्णुमन्त्रकम् | भस्मना शिवमन्त्रञ्च विलिखेत् परमेश्वरि ! | सप्तसप्तकपत्रेषु तत्तद्देवताया मन्त्रं लिखेदित्यर्थः || प्राणप्रतिष्ठां तन्मन्त्रे कारयेद्यत्नतः सुधीः | तत्तद्देवतायाः प्राणप्रतिष्ठां कारयेत् | यथाशक्त्युपचारेण सम्पूज्य परमेश्वरि ! | ततः शिष्योऽर्घ्यपात्रञ्च हस्ते कृत्वा महेश्वरि ! | अनेन मनुना मन्त्री भास्कराय निवेदयेत् || अर्घ्यद्रव्यमाह || आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु | रक्तानि करवीराणि तथैव रक्तचन्दनम् | अष्टाङ्ग एषोऽर्घ्यो वै भानवे परिकीर्त्तितः | ओं भो देव ! पृथिवीपाल ! सर्वशक्तिसमन्वितः | ममार्घ्यञ्च गृहाण त्वं पूर्वविद्यां प्रकाशय | अर्घ्यं दत्त्वा नमस्कृत्य कृताञ्जलिः पठेत्ततः || गान्धर्वे || न दद्याद्भास्करायार्घ्यं शङ्खतोयैर्महेश्वरि ! | प्. २७२) ओं सूर्ययः सोमो यमः कालो महाभूतानि पञ्च वै | एते शुभाशुभस्येह कर्म्मणो नव साक्षिणः | सर्वदेवाः शरीरस्था मम मन्त्रस्य साक्षिणः | पूर्वजन्मार्जितां विद्यां मम हस्ते प्रदापय | पठित्वेदं महेशानि ! सत्वरं पत्रमुद्धरेत् | उद्धृत्य पत्रमेकन्तु गुरोर्हस्ते प्रदापयेत् | गुरुस्तु अक्षरश्रेणीमुद्धृत्य परमेश्वरि ! | सेतुं दत्त्वा महेशानि ! तत्राष्टशतकं जपेत् | शिष्यस्य मस्तके हस्तं दत्त्वा चाष्टशतं जपेत् | गुरुस्तु प्राङ्मुखो भूत्वा शिष्यः प्रत्यङ्मुखः स्थितः || अन्यत्र | प्राङ्मुखो गुरुरासीनः शिष्यः प्रत्यङ्मुखः स्थितः | त्रिवारं दक्षिणे कर्णे वामकर्णे तथा सकृत् | स्त्रीशूद्रविषये कुर्ययाद्वैपरीत्येन चिन्तनम् | आचम्य संयतो भूत्वा प्राणायामं विधाय च | अष्टोत्तरशतं जप्त्वा ऋष्यादिकसमन्वितम् | अष्टकृत्वो जपेन्मन्त्रं वामकर्णे सुरेश्वरि ! | इयं दीक्षा सर्वतन्त्रे शक्तेर्या परिकीर्त्तिता | गुरोर्लब्धां महाविद्यामष्टोत्तरशतं जपेत् | गुरवे दक्षिणां दद्याद्वित्तशाठ्यं न कारयेत् | गुरवे गुरुपुत्राय तत्पत्न्यै वा प्रदापयेत् || कुलार्णवे || गुरुप्रीतिसमुत्पन्ने देवता प्रीतिमाप्नुयात् | देवताप्रीतिमापन्ने मन्त्रसिद्धिर्भवेद्ध्रुवम् | पत्ररत्नं प्रधानेन दीक्षां कुर्ययात् कलौ युगे | ततः सिद्धो भवेन्मन्त्री नात्र कार्यया विचारणा | एतज्ज्ञानं विना देवि ! दीक्षां कुर्ययाच्च यो नरः | दीक्षा तु विफला तस्य अन्ते तु नरकं व्रजेत् | ततः शिष्यो महेशानि ! प्रणमेद्दण्डवद्भुवि || ततो गुरुर्वदेत् || उत्तिष्ठ वत्स ! मुक्तोऽसि सम्यगाचारवान् भव | कीर्त्तिः श्रीकान्तिमेधायुर्बलारोग्यं सदास्तु ते || योगिनीहृदये || मन्त्रं दत्त्वा गुरुश्चैव उपवासं समाचरेत् | महान्धकारनरके कृमिर्भवति नान्यथा || रुद्रजामले || श्यामाभया भैरवी ताराच्छिन्नमस्तासु भैरवे ! | मञ्जुघोषे तथा रौद्रे पञ्चाङ्गं न्यस्यते बुधैः || तत्रापि गुह्यकालीविषये पञ्चायतनदीक्षा तत् पुरैवोक्तम् || प्. २७३) कलौ तान्त्रिकसंस्कारः पत्ररत्नदीक्षादिकञ्चोक्तम् || प्राप्ताक्सरेणेदानीं प्रबलकलिलक्षणमुच्यते || यथा महानिर्वाणतन्त्रे चतुर्थोल्लासे || यदा तु वैदिकी दीक्षा दीक्षा पौराणिकी तथा | न स्थास्यति वरारोहे ! तदैव प्रबलः कलिः | यदा तु पुण्यपापानां परीक्षा वेदसम्भवा | न स्थास्यति शिवे ! शान्ते ! तदैव प्रबलः कलिः | क्वचिच्छिन्ना क्वचिद्भिन्ना यदा सुरतङ्गिणी | भविष्यति कुलेशानि ! तदैव प्रबलः कलिः | यदा स्त्रियोऽतिदुर्दान्ताः कर्कशाः कलहे रताः | यदा तु म्लेच्छजातीया राजानो धनलोलुपाः | भविष्यन्ति महाप्राज्ञे ! तदैव प्रबलः कलिः | यदा तु मानवा भूमौ स्त्रीजिताः कामकिङ्कराः | द्रुह्यन्ति गुरुमित्रादीन् तदैव प्रबलः कलिः | यदा क्षौणी स्वल्पफला न मेघास्तोयवर्षिणः | असम्यकफलिनो वृक्षास्तदैव प्रबलः कलिः | भ्रातरः स्वजनामात्या यदा धनफलेच्छया | मिथः सम्प्रहरिष्यन्ति तदैव प्रबलः कलिः | प्रकटे मध्यमांसादौ निन्दारम्भविवर्जिते | गूढपानं प्रकुर्वन्ति तदैव प्रबलः कलिः | सत्यत्रेताद्वापरे च यथा मद्यादिसेवनम् | कलावपि तथा कुर्ययात् कुलवर्त्मानुसारतः || इति प्रबलकलिलक्षणम् || कलेरुपंशमप्रकारोऽपि तत्रैव || ये कुर्वन्ति कुलाचारं सत्यपूता जितेन्द्रियाः | व्यक्ताचारदयाशीला न हि तान् बाधते कलिः || गुरुशुश्रूषणे युक्ता भक्ता मातृपदाम्बुजे | अनुरक्ताः स्वदारेषु न हि तान् बाधते कलिः | सत्यव्रताः सत्यनिष्ठाः सत्यधर्म्मपरायणाः | कुलसाधनसत्या येन हि तान् बाधते कलिः | कुलमार्गेण तत्त्वानि शोधितानि च योगिने | ये दद्युः सत्यवचसे न हि तान् बाधते कलिः | हिंसामात्सर्ययरहिता दम्भद्वेषविवर्ज्जिताः | कुलधर्मेषु निष्ठा ये न हि तान् बाधते कलिः | लौकिकैः सह संसर्गं वसितं कुलसाधुषु | कुर्वन्ति कौलसेवां ये न हि तान् बाधते कलिः | प्. २७४) नानावेशधराः कौलाः कुलाचारेषु निश्चलाः | सेवन्ते त्वां कुलाचारैर्न हि तान् बाधते कलिः | वीजसेकादिसंस्कारान् पितृश्राद्धादिकाः क्रियाः | ये कुर्वन्ति कुलाचारैर्न हि तान् बाधते कलिः | कुलतत्त्वं कुलद्रव्यं कुलयोगिनमेव च | नमस्कुर्वन्ति ये भक्त्या न हि तान् बाधते कलिः | कौटिल्यानृतहीनानां स्वच्छानां कुलमार्गिणाम् | परोपकारव्रतिनां साधूनां किङ्करः कलिः || अथ कलेर्गुणः | कलेर्दोषसमूहस्य महानेको गुणः प्रिये ! | सत्यप्रतिज्ञा कौलानां श्रेयः सङ्कल्पमात्रतः | अपरे तु युगे देवि ! पुण्यपापञ्च मानसम् | नृणामासीत् कलौ पुण्यं मानसं न तु दुष्कृतम् | कुलाचारविहीना ये सततं सत्यभाषिणः | परद्रोहपरा ये च ते नराः कलिकिङ्कराः | कुलधर्मेष्वभक्ता ये परयोवित्सु कामुकाः | द्वेष्टारः कुलनिष्ठानां ते ज्ञेयाः कलिकिङ्कराः | प्रकटेऽत्र कलौ देवि ! सर्वे धर्माश्च दुर्बलाः | स्थास्यत्येकं सत्यमात्रं तस्मात् सत्यमयो भवेत् | सत्यधर्मं समाश्रित्य यत्कर्म्म कुरुते नरः | तदेव सफलं कर्म्म सत्यं जानीहि सुव्रते ! | न हि सत्यात् परो धर्मो न पापमनृतात्परम् | तस्मात् सर्वात्मना मर्त्यः सत्यमेकं समाश्रयेत् | सत्यहीना वृथा पूजा सत्यहीनो वृथा जपः | सत्यमूलाः क्रियाः सर्वाः सत्यात् परतरं न हि | अत-एव मया प्रोक्तं दुष्कृते प्रबले कलौ | कुलाचारोऽपि सत्येन कर्त्तव्यो व्यक्तभावतः | गोपनाद्धीयते सत्यं न गुप्तिरनृतं विना | तस्मात् प्रकाशतः कुर्ययात् कौलिकः कुलसाधनम् | कुलधर्म्मस्य गुप्त्यर्थं नानृत्यं स्याज्जुगुप्सितम् | यदुक्तं कुलतन्त्रेषु न शस्तं प्रबले कलौ | कृते धर्मश्चतुष्पादस्त्रेतायां पादहीनकः | द्विंपादो द्वापरे देवि ! पादमात्रं कलौ युगे | तरापि सत्यं बलवत्तपः खण्डं दयापि च | सत्यपादे कृते लोपे धर्म्मलोपः प्रजायते | प्. २७५) तस्मात् सत्यं समाश्रित्य सर्वकर्माणि साधयेत् | कुलाचारं विना यत्र नास्त्युपायः कुलेश्वरि ! | तत्रानृतप्रवेशः स्यात् कुतो निःश्रेयसं भवेत् | सर्वथा सत्यपूतात्मा मन्मुखेरितवर्त्मना | सर्वं कर्म नरः कुर्ययात् स्वस्ववर्णाश्रमोदितम् | दीक्षां पूजां जपं होमं पुरश्चरणतर्पणम् | व्रतोद्द्वाहौ पुंसवनं सीमन्तोन्नयनं तथा | जातकर्म तथा नाम चूडाकरणमेव च | यात्रां गृहप्रवेशञ्च नववस्त्रादिधारणम् | वापोकूपतडागानां संस्कारं तिथिकर्म च | गृहारम्भं प्रतिष्ठाञ्च देवतास्थापनं तथा | मयोक्तेन विधानेन तत्सर्वं साधयेन्नरः | यदि मन्मतमुत्सृज्य महेशि ! प्रबले कलौ | तदा यत् क्रियते कर्म विपरीताय तद्भवेत् || अष्टमोल्लासे || अतोऽत्र कथितं देवि ! द्विजानां प्रबले कली || गायत्र्यामधिकारोऽस्ति नान्यमन्त्रेषु कर्हिचित् | द्विजातीनां प्रभेदार्थं शूरेभ्यः परमेश्वरि ! | सन्ध्येयं वैदिकी प्रोक्ता प्रागेवाह्निककर्मणः || विश्वासो रामहर्ययाह्वय इह सकृती पुण्यकीर्त्तिर्वरिष्ठः साक्षाद्धर्मो महात्मा स्म जनयति नरः श्रीलनारायणभौ | शान्तौ दान्तौ सदन्तःकृतिमिलितजगन्मोहनप्राणकृष्णौ श्रीवाणीशौ प्रतापानलकलितमहारातिवंशाटवीकौ || श्रीप्राणकृष्णविश्वासः सुतान् सप्त महोदयान् | अजीजनद्देवविप्रभक्तान्नानागुणान्वितान् || श्रीलानन्दमयज्येष्ठः सदानन्दमयः कृती | श्रीरामचन्द्रस्तदनु दयाधर्मप्रतापवान् | श्रीविश्वनाथो विश्वात्मा तदनु ज्ञानदानवान् | श्रीशम्भुनाथस्तदनु स्निग्धमूर्तिर्दयामयः | श्रीकाशीनाथविश्वासो विश्वासकुलपावनः | श्रीचन्द्रनाथस्तदनु चन्द्रदृक्षो गुणाकारः | एतेऽप्युदयोगिनो ग्रन्थकारणायै यतः सदा | अतो नामान्यत्र तेषां निबध्नाम्यतियत्नतः || धीमान् श्रीमान् भुवनविदितस्तन्त्रसारस्य कर्त्ता कृष्णानन्दोऽजनि भुवि नवद्वीपदेशप्रदीपः | काशीनाथोऽभवदिह सुतस्तस्य सारावलीकृत् विद्वान् मान्योऽजनि तदनुजो विश्वनाथाह्वयोऽतः || प्. २७६) गोपालो निर्णयकृतियशस्वी मधोः सूदनाच्चाभूतां पुत्रौ मधुसुत इतः कालिदासः प्रसिद्धः | तत्पुत्रोऽभूद्रघुवरपरो नाथ एकान्तबुद्धिस्तत्सूनुश्चाभवदिह सुधीमङ्गलः कृष्णपूर्वः || श्रीकृष्णमङ्गलसुतो नववल्लिकायाः श्रीरामतोषण इदं कृतवान् द्वितीयम् | काण्डन्तु संस्कृतियुतं फलपुष्पशोभं धर्माभिधं कृतिमतां सकलेष्टसिद्ध्यै || इति श्रीप्राणकृष्णविश्वासानुमतायां श्रीरामतोषणविद्यालङ्कारभट्टाचार्ययचाविरचितायां श्रीप्राणतोषिण्यां दीक्षारूपफलकथनात्मकषष्ठ-परिछेदान्वितधर्मकाण्डं समाप्तम् || ########### END OF FILE #######